सप्तमं मण्डलम् - सूक्तम् 68

9 ऋचः

ऋषिः: वसिष्ठः देवता: अश्विनौ छन्दः: विराट्

सूक्तम् 7.68 - सम्पूर्णम्

1 / 9
ऋक्: 7.68.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
7.68.1
आ शु᳚भ्रा यातमश्विना॒ स्वश्वा॒ गिरो᳚ दस्रा जुजुषा॒णा यु॒वाको᳚ः ।
ह॒व्यानि᳚ च॒ प्रति᳚भृता वी॒तं नः᳚ ॥
▶ पदपाठः (Word-by-word)
आ । शु॒भ्रा॒ । या॒त॒म् । अ॒श्वि॒ना॒ । सु॒॑अश्वा᳚ । गिरः᳚ । द॒स्रा॒ । जु॒जु॒षा॒णा । यु॒वाकोः᳚ ।
ह॒व्यानि᳚ । च॒ । प्रति᳚॑भृता । वी॒तम् । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शुभ्रा दीप्तौ स्वश्वा शोभनाश्वौ हे अश्विना अश्विनौ आयातमस्मद्यज्ञमागच्छतम् दस्रा शत्रूणां उपक्षपयितारौ युवां युवाकोर्युवां कामय- मानस्य मम गिरः स्तुतीर्जुजुषाणा सेवमानौ भवतमितिशेषः न केवलं स्तुतिं किंतु नोस्मदीयानि प्रतिभृता संभृतानि हव्यानि हवींषि च वीतं भक्षयतम् ॥ १ ॥

प्रवामन्धांसीत्येषा आश्विनस्त्रयाज्या सूत्रितंच-प्रवामन्धांसिगद्यान्यस्थुरुभापिबतमश्विनेति याज्येति ।

7.68.2
प्र वा॒मन्धां᳚सि॒ मद्या᳚न्यस्थु॒ररं᳚ गन्तं ह॒विषो᳚ वी॒तये᳚ मे ।
ति॒रो अ॒र्यो हव᳚नानि श्रु॒तं नः᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । वा॒म् । अन्धां᳚सि । मद्या᳚नि । अ॒स्थुः॒ । अर᳚म् । ग॒न्त॒म् । ह॒विषः᳚ । वी॒तये᳚ । मे॒ ।
ति॒रः । अ॒र्यः । हव᳚नानि । श्रु॒तम् । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ वां युवाभ्यां मद्यानि मदजनकानि अन्धांसि सोमलक्षणान्यन्नानि प्रास्थुः प्रास्थिषत गृहीतान्यासन्नित्यर्थः अतोयुवां मे मम हविषोवीतये पानाय अरं अत्यर्थं शीघ्रं गन्तं आगच्छतम् अर्यः अरेः अन्स्मद्विरोधिनोहवनानि तिरस्तिरस्कृत्य नोस्मदाह्वानमित्यर्थः तत् श्रुतं शृणुतं श्रुतमित्यस्य वाक्यादित्वादनिघातः ॥ २ ॥

7.68.3
प्र वां॒ रथो॒ मनो᳚जवा इयर्ति ति॒रो रजां᳚स्यश्विना श॒तोति᳚ः ।
अ॒स्मभ्यं᳚ सूर्यावसू इया॒नः ॥
▶ पदपाठः (Word-by-word)
प्र । वा॒म् । रथः᳚ । मनः᳚॑जवाः । इ॒य॒र्ति॒ । ति॒रः । रजां᳚सि । अ॒श्वि॒ना॒ । श॒त॑ऊ᳚तिः ।
अ॒स्मभ्य᳚म् । सू॒र्या॒व॒सू॒ इति᳚ । इ॒या॒नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सूर्यावसू सूर्यायाः सह रथे वसन्तौ हे अश्विना अशिनौ वां युवयोरथः अस्मभ्यमस्मदर्थं इयानोयाच्यमानः सन् इयर्ति आगच्छति अस्मद्यज्ञं अथवा वां प्रेरयति गमनाय । की दृशोरथः मनोजवाः मनोवेगः शतोतिरपरिमितास्मद्विषयरक्षणः । किंकुर्वन् रजांसि लोकान् तिरस्तिरस्कृत्य अतिक्रम्य इयर्तीति ॥ ३ ॥

7.68.4
अ॒यं ह॒ यद्वां᳚ देव॒या उ॒ अद्रि᳚रू॒र्ध्वो विव᳚क्ति सोम॒सुद्यु॒वभ्या᳚म् ।
आ व॒ल्गू विप्रो᳚ ववृतीत ह॒व्यैः ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । ह॒ । यत् । वा॒म् । दे॒व॒॑याः । ऊं॒ इति᳚ । अद्रिः᳚ । ऊ॒र्ध्वः । विव᳚क्ति । सो॒म॒॑सुत् । यु॒व॑भ्या᳚म् ।
आ । व॒ल्गू इति᳚ । विप्रः᳚ । व॒वृ॒ती॒त॒ । ह॒व्यैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदा वां युवां प्रति देवयाः देवौ युवां कामयमानः ह उ इति पूरणौ अयमद्रिरभिषवग्रावा सोमसुत् सोममभिषुण्वन् युवभ्यां युवाभ्या- मर्थाय अभिषुण्वन्निति संबन्धः एवं कुर्वन् ऊर्ध्वउन्नतः सन् विवक्ति उच्चैः शब्दयति तदानीं वल्गू सुन्दरौ युवां विप्रोमेधावी यजमानो- हव्यैर्हविर्भिः आववृतीत आवर्तयति ॥ ४ ॥

7.68.5
चि॒त्रं ह॒ यद्वां॒ भोज᳚नं॒ न्वस्ति॒ न्यत्र᳚ये॒ महि᳚ष्वन्तं युयोतम् ।
यो वा᳚मो॒मानं॒ दध᳚ते प्रि॒यः सन् ॥
▶ पदपाठः (Word-by-word)
चि॒त्रम् । ह॒ । यत् । वा॒म् । भोज᳚नम् । नु । अस्ति᳚ । नि । अत्र᳚ये । महि᳚ष्वन्तम् । यु॒यो॒त॒म् ।
यः । वा॒म् । ओ॒मान᳚म् । दध᳚ते । प्रि॒यः । सन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ वां युवयोश्चित्रं चायनीयं यद्भोजनं धनमस्ति ह अस्ति खलु न्वितिपूरणः तदस्मभ्यं दत्तमित्यर्थः । अथ तयोः स्तुतिः अत्रये एतन्नामकादृषेः पंचम्यर्थे चतुर्थी तस्मान्महिष्वन्तं ऋबीसं नियुयोतं पृथक्कुरुतम् योत्रिः प्रियः सन् स्तोतृत्वात् युवाभ्यां प्रियभूतः सन् वां यवाभ्यामेवकृतमोमानं रक्षणसुखं दधते धारयति ॥ ५ ॥

7.68.6
उ॒त त्यद्वां᳚ जुर॒ते अ᳚श्विना भू॒च्च्यवा᳚नाय प्र॒तीत्यं᳚ हवि॒र्दे ।
अधि॒ यद्वर्प᳚ इ॒तऊ᳚ति ध॒त्थः ॥
▶ पदपाठः (Word-by-word)
उ॒त । त्यत् । वा॒म् । जु॒र॒ते । अ॒श्वि॒ना॒ । भू॒त् । च्यवा᳚नाय । प्र॒तीत्य᳚म् । ह॒विः॒॑दे ।
अधि᳚ । यत् । वर्पः᳚ । इ॒तः॑ऊ᳚ति । ध॒त्थः ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच हे अश्विना अश्विनौ वां युवयोः कर्म कुर्वते जुरते जूर्णाय हविर्दे हविर्दात्रे च्यवा नायैतन्नामकाय महर्षये त्यत्तत्प्रतीत्यं प्रतिगमनं तस्य रूपस्य प्रत्याप्त्यै भूत् अभूत् । किंतदिति यद्वर्पोरूपं इतऊति इतोगमनाख्यं मृत्योः सकाशादितः प्राप्तिरूपं अधि धत्थः अध्यधत्तम् । युवंच्यवानमश्विनाजरन्तंपुनर्युवानंचक्र्थुःशचीभिरित्यादिषु । च्यवानस्य युवयोः नवीकरणं प्रसिद्धम् ॥ ६ ॥

7.68.7
उ॒त त्यं भु॒ज्युम᳚श्विना॒ सखा᳚यो॒ मध्ये᳚ जहुर्दु॒रेवा᳚सः समु॒द्रे ।
निरीं᳚ पर्ष॒दरा᳚वा॒ यो यु॒वाकु᳚ः ॥
▶ पदपाठः (Word-by-word)
उ॒त । त्यम् । भु॒ज्युम् । अ॒श्वि॒ना॒ । सखा᳚यः । मध्ये᳚ । ज॒हुः॒ । दुः॒॑एवा᳚सः । स॒मु॒द्रे ।
निः । ई॒म् । प॒र्ष॒त् । अरा᳚वा । यः । यु॒वाकुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच त्यं तं भुज्युं एतन्नामानं समृद्रमध्ये समुद्रोदकस्य मध्ये सखायो भुज्युसखिभूताः दुरेवासोदुष्टगमनाः जहुः त्यक्तवन्तः हे अश्विना अश्विनौ युवां ईमेनं समुद्रमध्ये क्षिप्तं निःपर्षत् निरपारयतम् योभुज्युर्युवाकुः युवां कामयिता अरावा अरणवान् अभिगन्ताच तमेनं निरपारयतम् अत्राश्विनेषु सूक्तेषु कथाः सूच्यन्ते अत्रिभुज्य्वादीनामग्निजलादिभ्योरक्षणरूपास्ताः सर्वा महता प्रपञ्चेनास्माभिः नासत्याभ्यां बर्हिरिवेत्यत्र । प्रपञ्चिताः ताः तत्र द्रष्टव्याः ॥ ७ ॥

7.68.8
वृका᳚य चि॒ज्जस᳚मानाय शक्तमु॒त श्रु᳚तं श॒यवे᳚ हू॒यमा᳚ना ।
याव॒घ्न्यामपि᳚न्वतम॒पो न स्त॒र्यं᳚ चिच्छ॒क्त्य᳚श्विना॒ शची᳚भिः ॥
▶ पदपाठः (Word-by-word)
वृका᳚य । चि॒त् । जस᳚मानाय । श॒क्त॒म् । उ॒त । श्रु॒त॒म् । श॒यवे᳚ । हू॒यमा᳚ना ।
यौ । अ॒घ्न्याम् । अपि᳚न्वतम् । अ॒पः । न । स्त॒र्य᳚म् । चि॒त् । श॒क्ती । अ॒श्वि॒ना॒ । शची᳚भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृकाय धनादात्रे अभिलषतइत्यर्थः चिदितिपूरणः अथवा परेभ्योधनानि प्रयच्छते यद्वा वृकाय वृकवद्धिंसकाय एतन्नामकाय जसमानाय कर्मभिरुपक्षीयमाणाय ऋषये शक्तं अभिमतं धनं अदत्तं शकेर्दानार्थस्य लुङ्येतद्रूपं अडभावश्छान्दसः । उतापिच शयवे एतन्नामकाय ऋषये हूयमाना हूयमानौ युवां श्रुतं अशृणुतम् यौ युवांअघ्न्यां गां अपिन्वतं अपूरयतं क्षीरेण अपोन अद्भिरिव नदीं तां यथोदकेन पूरयतस्तद्वत् कीदृशीमघ्न्यां स्तर्थं चित् स्तरीमपि निवृत्तप्रसवां वृद्धामपि शक्ती शक्त्या सामर्थ्येन दोहनलक्षणेन युक्‍तां कृत्वा शची- भिर्युष्मदीयैः कर्मभिः हॆ अश्विनाविति । शयवॆचिन्नासत्याशचीभिर्जसुरयॆस्तर्यंपिप्यथुर्गामित्यादित्द्युक्तम् ॥ ८ ॥

7.68.9
ए॒ष स्य का॒रुर्ज᳚रते सू॒क्तैरग्रे᳚ बुधा॒न उ॒षसां᳚ सु॒मन्मा᳚ ।
इ॒षा तं व᳚र्धद॒घ्न्या पयो᳚भिर्यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
ए॒षः । स्यः । का॒रुः । ज॒र॒ते॒ । सु॒॑उ॒क्तैः । अग्रे᳚ । बु॒धा॒नः । उ॒षसा᳚म् । सु॒॑मन्मा᳚ ।
इ॒षा । तम् । व॒र्ध॒त् । अ॒घ्न्या । पयः᳚॑भिः । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषःस्तोता स्यः सप्रसिद्धोवसिष्ठः कारुः स्तोता उषसामग्रे प्रातःसवने बुधानोबुध्यमानः सुमन्मा शोभनमतिः सुष्टुतिर्वा सूक्तैर्जरते स्तौति तं इषान्नेनवर्धत् वर्धयतम् वचनव्यत्ययः अप्त्या अहन्तव्या गौश्च वर्धत् वर्धयतु । अथवैकमेववाक्यम् अघ्र्या गौर्वसिष्ठस्य प्रतिनियताग्नि- होत्रार्थागौरिषा अन्नेन घृतादिनेत्यर्थः पयोभिश्च तं वसिष्ठं वर्धत् वर्धयत् एवं आत्मानं परोक्षेण निर्दिदेश शिष्टं स्पष्टम् ॥ ९ ॥

आवांरथइत्यष्टर्चं चतुर्दशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाश्विनं अनुक्रम्यतेच-आवांरथोष्टाविति । प्रातरनुवाकाश्विनशस्त्रयोर्विनियोगउक्तः ।