सप्तमं मण्डलम् - सूक्तम् 93

8 ऋचः

ऋषिः: वसिष्ठः देवता: इंद्राग्नी छन्दः: त्रिष्टुप्

सूक्तम् 7.93 - सम्पूर्णम्

1 / 8
ऋक्: 7.93.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
7.93.1
शुचिं॒ नु स्तोमं॒ नव᳚जातम॒द्येन्द्रा᳚ग्नी वृत्रहणा जु॒षेथा᳚म् ।
उ॒भा हि वां᳚ सु॒हवा॒ जोह᳚वीमि॒ ता वाजं᳚ स॒द्य उ᳚श॒ते धेष्ठा᳚ ॥
▶ पदपाठः (Word-by-word)
शुचि᳚म् । नु । स्तोम᳚म् । नव᳚॑जातम् । अ॒द्य । इन्द्रा᳚ग्नी॒ इति᳚ । वृ॒त्र॒॑ह॒ना॒ । जु॒षेथा᳚म् ।
उ॒भा । हि । वा॒म् । सु॒॑हवा᳚ । जोह᳚वीमि । ता । वाज᳚म् । स॒द्यः । उ॒श॒ते । धेष्ठा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृत्रहणा वृत्राणां शत्रूणां हन्ताराविन्द्राग्नी शुचिं शुद्धं निरवद्यं तवजातमिदानीमुत्पन्नं स्तोमं मदीयं स्तोत्रं अद्यास्मिन्काले नु क्षिप्रं जुषेथां सेवेथाम् हि यस्मात्सुहवा सुखमाह्वातुं शक्यौ उभा उभौ वां युवां जोहवीमि पुनः पुनराह्वयामि अतआगत्य सेवेथामित्यर्थः । किञ्च ता तौ तथाविधौ युवां उशते कामयमानाय यजमानाय वाजमन्नं बलं वा सद्यस्तदानीमेव शीघ्रं धेष्ठा धातृतमौ भवतम् ॥ १ ॥

7.93.2 समानपद
ता सा᳚न॒सी श᳚वसाना॒ हि भू॒तं सा᳚कं॒वृधा॒ शव᳚सा शूशु॒वांसा᳚ ।
क्षय᳚न्तौ रा॒यो यव᳚सस्य॒ भूरे᳚ः पृ॒ङ्क्तं वाज᳚स्य॒ स्थवि᳚रस्य॒ घृष्वे᳚ः ॥
▶ पदपाठः (Word-by-word)
ता । सा॒न॒सी इति᳚ । श॒व॒सा॒ना॒ । हि । भू॒तम् । सा॒क॒म्॑वृधा᳚ । शव᳚सा । शू॒शु॒॑वांसा᳚ ।
क्षय᳚न्तौ । रा॒यः । यव᳚सस्य । भूरेः᳚ । पृ॒ङ्क्तम् । वाज᳚स्य । स्थवि᳚रस्य । घृष्वेः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्राग्नी ता तौ तादृशौ सानसी सर्वैः संभजनीयौ युवां शवसाना शवोबलं तद्वदाचरन्तौ हि खलु भूतं बलमिव शत्रूणां भंजकावास्तामित्यर्थः । कीदृशौ सन्तौ साकं वृधासह प्रवृद्धौ शवसा बलेन शूश्कुवांसा वर्धमानौ तथा रायोधनस्य भूरेर्बहुलस्य यवसस्य अन्नस्य क्षयन्तावीश्वरौ एवंविधौ युवां स्थविरस्य स्थूलस्य घृष्वेः शत्रूणां घर्षकस्य वाजस्यान्नस्य क्रियाग्रहणमपि कर्तव्यमिति कर्मणः सम्प्रदानत्वाच्चतुर्थ्यर्थेषष्ठी । ईदृशमन्नं पृंक्तं संयोजयतं अस्मभ्यं प्रयच्छतमित्यर्थः ॥ २ ॥

7.93.3
उपो᳚ ह॒ यद्वि॒दथं᳚ वा॒जिनो॒ गुर्धी॒भिर्विप्रा॒ः प्रम᳚तिमि॒च्छमा᳚नाः ।
अर्व᳚न्तो॒ न काष्ठां॒ नक्ष᳚माणा इन्द्रा॒ग्नी जोहु᳚वतो॒ नर॒स्ते ॥
▶ पदपाठः (Word-by-word)
उपो॒ इति᳚ । ह॒ । यत् । वि॒दथ᳚म् । वा॒जिनः᳚ । गुः । धी॒भिः । विप्राः᳚ । प्र॑म᳚तिम् । इ॒च्छमा᳚नाः ।
अर्व᳚न्तः । न । काष्ठा᳚म् । नक्ष᳚माणाः । इ॒न्द्रा॒ग्नी इति᳚ । जोहु᳚वतः । नरः᳚ । ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाजिनो हविष्मन्तो विप्रा मेधाविनः प्रमति प्रकृष्टां मतिं इन्द्राग्न्योरनुग्रहबुद्धिं इच्छमाना आत्मनइच्छन्तः यत् ये यजमानाः विदथं विदंति जानन्ति देवान् तत्र यष्टव्यत्वेनेति विदथोयज्ञः तं धीभिः कर्मभिः बुद्धिभिर्वा उपोगुः उपगच्छन्ति उइतिपूरकः ते नरः कर्मणां नेतारोजनाः अर्वन्तो न काष्ठाम् । यथा अश्वाः शीघ्रं युद्धभूमिं व्याप्नुवन्ति तथा नक्षमाणा ऎन्द्राग्नानि कर्माणि व्याप्नुवन्तः इन्द्राग्नी इन्द्रमग्निं च जोहुवतः पुनःपुनराह्वयन्तोभवंति ॥ ३ ॥ अमावास्यायां ऎन्द्राग्नस्य हविषः गीर्भिरित्येषा याज्या सूत्रितंच-इन्द्राग्नीअवसागतं गीर्भिर्विप्रः प्रमतिमिच्छमानइति । ऎन्द्राग्नेपशौ पुरोडाशस्यैषैव याज्या सूत्रंतूदात्दृतम् ।

7.93.4 समानपद
गी॒र्भिर्विप्र॒ः प्रम᳚तिमि॒च्छमा᳚न॒ ईट्टे᳚ र॒यिं य॒शसं᳚ पूर्व॒भाज᳚म् ।
इन्द्रा᳚ग्नी वृत्रहणा सुवज्रा॒ प्र नो॒ नव्ये᳚भिस्तिरतं दे॒ष्णैः ॥
▶ पदपाठः (Word-by-word)
गीः॒॑भिः । विप्रः᳚ । प्र॑म᳚तिम् । इ॒च्छमा᳚नः । ईट्टे᳚ । र॒यिम् । य॒शस᳚म् । पू॒र्व॒॑भाज᳚म् ।
इन्द्रा᳚ग्नी॒ इति᳚ । वृ॒त्र॒॑ह॒ना॒ । सु॒॑व॒ज्रा॒ । प्र । नः॒ । नव्ये᳚भिः । ति॒र॒त॒म् । दे॒ष्णैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्राग्नी प्रमतिं युवयोरनुग्रहबुद्धिं इच्छमान इच्छन् विप्रोमेधावी वसिष्ठः यशसं यशसायुक्तं पूर्वभाजं पूर्वमेवसंभजनीयं रयिं धन- मुद्दिश्य गीर्भिःस्तुतिभिः ईट्टे युवां स्तौति हे वृत्रहणा वृत्रस्याहन्तारौ सुवज्रा शोभनायुधाविन्द्राग्नी नव्येभिर्नवतरैः प्रशस्तैः देष्णैर्दात- व्यैर्धनैर्नारमान् प्रतिरतं प्रवर्धयतम् ॥ ४ ॥

7.93.5
सं यन्म॒ही मि᳚थ॒ती स्पर्ध᳚माने तनू॒रुचा॒ शूर᳚साता॒ यतै᳚ते ।
अदे᳚वयुं वि॒दथे᳚ देव॒युभि᳚ः स॒त्रा ह᳚तं सोम॒सुता॒ जने᳚न ॥
▶ पदपाठः (Word-by-word)
सम् । यत् । म॒ही इति᳚ । मि॒थ॒ती इति᳚ । स्पर्ध᳚माने॒ इति᳚ । त॒नू॒॑रुचा᳚ । शूर᳚॑साता । यतै᳚ते॒ इति᳚ ।
अदे᳚व॑युम् । वि॒दथे᳚ । दे॒व॒यु॑भिः᳚ । स॒त्रा । ह॒त॒म् । सो॒म॒॑सुता᳚ । जने᳚न ॥
▶ सायणभाष्यम् (Sayana Commentary)

मही महत्यौ मिथती परस्परं हिंसन्त्यौ यद्वा मेथतिराक्रोशकर्मा परस्परमाक्रोशंत्यौ स्पर्धमाने स्पर्धां कुर्वंत्यौ तनूरुचा आत्मीयेन तेजसा संपन्ने यत् ये शूरसाता शूरसातौ रणे यतैते जेतुं यत्नं कुर्वन्त्यौ वैरिसेने देवयुभिः देवान्कामयमानैः सह विदथे यज्ञे अदेवयुं सत्रा हतं संततं हिंस्तम् । तथा सोमसुता सोममभिषुण्वता जनेन यजमानसंघेन असोमसुतं जनं हिंस्तं ॥ ५ ॥

7.93.6 समानपद
इ॒मामु॒ षु सोम᳚सुति॒मुप᳚ न॒ एन्द्रा᳚ग्नी सौमन॒साय᳚ यातम् ।
नू चि॒द्धि प᳚रिम॒म्नाथे᳚ अ॒स्माना वां॒ शश्व᳚द्भिर्ववृतीय॒ वाजै᳚ः ॥
▶ पदपाठः (Word-by-word)
इ॒माम् । ऊं॒ इति᳚ । सु । सोम᳚॑सुति᳚म् । उप᳚ । नः॒ । आ । इ॒न्द्रा॒ग्नी॒ इति᳚ । सौ॒म॒न॒साय᳚ । या॒त॒म् ।
नु । चि॒त् । हि । प॒रि॒म॒म्नाथे॒ इति᳚ प॒रि॒॑म॒म्नाथे᳚ । अ॒स्मान् । आ । वा॒म् । शश्व᳚त्॑भिः । व॒वृ॒ती॒य॒ । वाजैः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्राग्नी इमामु इमामेव नोस्मदीयां सोमसुतिं सोमाभिषवक्रियां सौमनसाय सुमनसोभावाय सु सुष्ठु उपायातम् उपागच्छतम् । अपिच युवां अस्मान् परित्यज्य नूचित् नैव मम्नाथे अन्यान् न मन्येथे । अस्मानेव सर्वदा बुध्येथे । हि यस्मादेवं तस्मात् वां युवां शश्वद्भिर्बहुभिर्वाजैरन्नैर्हविर्लक्षणैः आववृतीय आवर्तयामि ॥ ६ ॥

7.93.7
सो अ᳚ग्न ए॒ना नम᳚सा॒ समि॒द्धो॑च्छा᳚ मि॒त्रं वरु᳚ण॒मिन्द्रं᳚ वोचेः ।
यत्सी॒माग᳚श्चकृ॒मा तत्सु मृ᳚ळ॒ तद᳚र्य॒मादि᳚तिः शिश्रथन्तु ॥
▶ पदपाठः (Word-by-word)
सः । अ॒ग्ने॒ । ए॒ना । नम᳚सा । सम्॑इ᳚द्धः । अच्छ᳚ । मि॒त्रम् । वरु᳚णम् । इन्द्र᳚म् । वो॒चेः॒ ।
यत् । सी॒म् । आगः᳚ । च॒कृ॒म । तत् । सु । मृ॒ळ॒ । तत् । अ॒र्य॒मा । अदि᳚तिः । शि॒श्र॒थ॒न्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने सत्वं एना एनेन मनसा अन्नेन अस्मदीयेन हविषा समिद्धः सन् दीप्तः सन् मित्रं वरुणं इन्द्रं च अच्छवोचेः अभिब्रूयाः अयमस्म- दीयोरक्षणीयइति कथय । वयं यदागोपराधं सीमिति परिग्रहार्थीयः सीं सर्वतोवाङ्मनःकायैश्चकृम कृतवन्तोवयं तत्तस्मादागसः सुमृळ अस्मान् सुष्ठु रक्ष । तच्चागः अर्यमा अदितिः मित्रादयश्च शिश्रयन्तु अस्मत्तोवियोजयन्तु ॥ ७ ॥

7.93.8
ए॒ता अ᳚ग्न आशुषा॒णास᳚ इ॒ष्टीर्यु॒वोः सचा॒भ्य᳚श्याम॒ वाजा᳚न् ।
मेन्द्रो᳚ नो॒ विष्णु᳚र्म॒रुत॒ः परि᳚ ख्यन्यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
ए॒ताः । अ॒ग्ने॒ । आ॒शु॒षा॒णासः᳚ । इ॒ष्टीः । यु॒वोः । सचा᳚ । अ॒भि । अ॒श्या॒म॒ । वाजा᳚न् ।
मा । इन्द्रः᳚ । नः॒ । विष्णुः᳚ । म॒रुतः᳚ । परि᳚ । ख्य॒न् । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने उपलक्षणमेतत् हे इन्द्राग्नी एताः इष्टीः इमान्यज्ञान् आशुषाणासः आशु शीघ्रं संभजमानावयं युवोर्युवयोः स्वभूतान्वाजानन्नानि सचासह युगपदेव अभ्यश्याम अभिप्राप्नुयाम अपिच इन्द्रोविष्णुर्मरुतश्च नोस्मान् मापरिख्यन् अस्मान्परित्यज्यान्यान् माद्राक्षुः सर्वदा- स्मानेव पश्यन्तु । अन्यद्गतम् ॥ ८ ॥

इयंवामिति द्वादशर्चं पञ्चमं सूक्तं वसिष्ठस्यार्षमैन्द्राग्नं द्वादशी अनुष्टुप् शिष्टागायत्र्यः तथाचानुक्रान्तम्-इयंवांद्वादशगायत्रमन्त्यानु- ष्टुबिति । ज्योतिष्टोमे प्रातःसवनेच्छावाकशस्त्रे आदितोनवर्चः शस्यन्ते सूत्र्यतेहि-इयंवामस्यमन्मनइति नवेति । आभिप्लविकेषूक्थ्येषु स्तोमेषु वृद्धावच्छावाकस्य प्रातःसवने इदंसूक्तमावापार्थम् उत्तमावर्जम् । सूत्रितश्च-इयंवामस्यमन्मनइत्येकादशेति । चातुर्विंशिकेहनि प्रातःसवने एतस्यैवाद्यस्तृचः सूत्रितंच-इयंवामस्यमन्मनइन्द्राग्नीयुवामिमइति ।