सप्तमं मण्डलम् - सूक्तम् 23

6 ऋचः

ऋषिः: वसिष्ठः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 7.23 - सम्पूर्णम्

1 / 6
ऋक्: 7.23.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
7.23.1 समानपद
उदु॒ ब्रह्मा᳚ण्यैरत श्रव॒स्येन्द्रं᳚ सम॒र्ये म᳚हया वसिष्ठ ।
आ यो विश्वा᳚नि॒ शव᳚सा त॒तानो᳚पश्रो॒ता म॒ ईव᳚तो॒ वचां᳚सि ॥
▶ पदपाठः (Word-by-word)
उत् । ऊं॒ इति᳚ । ब्रह्मा᳚णि । ऐ॒र॒त॒ । श्र॒व॒स्या । इन्द्र᳚म् । स॒॑म॒र्ये । म॒ह॒य॒ । व॒सि॒ष्ठ॒ ।
आ । यः । विश्वा᳚नि । शव᳚सा । त॒तान᳚ । उ॒प॒॑श्रो॒ता । मे॒ । ईव᳚तः । वचां᳚सि ॥
▶ सायणभाष्यम् (Sayana Commentary)

श्रवस्यान्नेच्छया ब्रह्माणि स्तोत्राणि हवींषि चेन्द्रार्थं उदैरत् सर्वेऋषयइति शेषः उइति पूरणः हे वसिष्ठ त्वमपि समर्ये यज्ञे इन्द्रं महय स्तोत्रेण हविषा च पूजय अपि च यइन्द्रो विश्वानि भुवनानि शवसा बलेन ततान व्याप्तवान् सईवतः उपगमनवतो मे मम वचांसि स्तुतिरूपाणि वाक्यानि उपश्रोता भवत् ॥ १ ॥

7.23.2
अया᳚मि॒ घोष᳚ इन्द्र दे॒वजा᳚मिरिर॒ज्यन्त॒ यच्छु॒रुधो॒ विवा᳚चि ।
न॒हि स्वमायु᳚श्चिकि॒ते जने᳚षु॒ तानीदंहां॒स्यति᳚ पर्ष्य॒स्मान् ॥
▶ पदपाठः (Word-by-word)
अया᳚मि । घोषः᳚ । इ॒न्द्र॒ । दे॒व॑जा᳚मिः । इ॒र॒ज्यन्त᳚ । यत् । शु॒रुधः᳚ । वि॑वा᳚चि ।
न॒हि । स्वम् । आयुः᳚ । चि॒कि॒ते । जने᳚षु । तानि᳚ । इत् । अंहां᳚सि । अति᳚ । प॒र्षि॒ । अ॒स्मान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदा शुरुधः शुचं संरुन्धन्तीति शुरुध ओषध्य इरज्यन्त वर्धन्ते तदा हे इन्द्र त्वदर्थं विवाचि स्तोतरि देवजामिर्देवानां बन्धुः घोषः स्तुतिरूपः शब्दः अयामि अकारि अपि च जनेषु मध्ये केनापि स्वमायुः स्वं जीवितं नहि निकिते ज्ञायते थैरायुः क्षीयते तानीत् तानि सर्वाण्येव अंहांसि पापान्यस्मानतिपर्षि अतिपारय ॥ २ ॥

7.23.3
यु॒जे रथं᳚ ग॒वेष᳚णं॒ हरि᳚भ्या॒मुप॒ ब्रह्मा᳚णि जुजुषा॒णम᳚स्थुः ।
वि बा᳚धिष्ट॒ स्य रोद᳚सी महि॒त्वेन्द्रो᳚ वृ॒त्राण्य᳚प्र॒ती ज᳚घ॒न्वान् ॥
▶ पदपाठः (Word-by-word)
यु॒जे । रथ᳚म् । गो॒॑एष᳚णम् । हरि᳚॑भ्याम् । उप᳚ । ब्रह्मा᳚णि । जु॒जु॒षा॒णम् । अ॒स्थुः॒ ।
वि । बा॒धि॒ष्ट॒ । स्यः । रोद᳚सी॒ इति᳚ । म॒हि॒॑त्वा । इन्द्रः᳚ । वृ॒त्राणि᳚ । अ॒प्र॒ति । ज॒घ॒न्वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

गवेषणं गवां प्रापकं इन्द्रस्य रथं हरिभ्यामिन्द्रवाहाभ्यां युजे स्तोत्रैरहंयुनज्मि ब्रह्माणि स्तोत्राणि जुजुषाणं परिवारैः सेव्यमानमिन्द्रं उपास्थुरुपतिष्ठंत । स्यः सोयमिन्द्रोमहित्वा महत्वेन रोदसी द्यावापृथिव्यौ विबाधिष्ट व्यबाधिष्ट च अपि चेन्द्रोवृत्राणि शत्रून् अप्र- तिद्वन्द्वानि जघन्वान् हतवान् ॥ ३ ॥

7.23.4
आप᳚श्चित्पिप्युः स्त॒र्यो॒३॒᳚ न गावो॒ नक्ष᳚न्नृ॒तं ज᳚रि॒तार᳚स्त इन्द्र ।
या॒हि वा॒युर्न नि॒युतो᳚ नो॒ अच्छा॒ त्वं हि धी॒भिर्दय᳚से॒ वि वाजा᳚न् ॥
▶ पदपाठः (Word-by-word)
आपः᳚ । चि॒त् । पि॒प्युः॒ । स्त॒र्यः᳚ । न । गावः᳚ । नक्ष᳚न् । ऋ॒तम् । ज॒रि॒तारः᳚ । ते॒ । इ॒न्द्र॒ ।
या॒हि । वा॒युः । न । नि॒॑युतः᳚ । नः॒ । अच्छ᳚ । त्वम् । हि । धी॒भिः । दय᳚से । वि । वाजा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वत्प्रसादादापश्चित् आपः तर्योन गावः तर्योवशागावइव पिप्युः वर्धंताम् । अप्रसूतागावोमांसलाभवन्ति हि । ते तव जरितारः स्तोतारश्च ऋतमुदकं नक्षन् व्याप्नुवन् । अपि च त्वं नोस्मान् नियुतोवायुर्न वायुरिव अच्छ याहि अभियाहि । त्वं हि धीभिः प्रज्ञाभिः कर्मभिर्वा वाजानन्नानि विदयसे स्तोतृभ्यः प्रयच्छसि ॥ ४ ॥

7.23.5
ते त्वा॒ मदा᳚ इन्द्र मादयन्तु शु॒ष्मिणं᳚ तुवि॒राध᳚सं जरि॒त्रे ।
एको᳚ देव॒त्रा दय᳚से॒ हि मर्ता᳚न॒स्मिञ्छू᳚र॒ सव᳚ने मादयस्व ॥
▶ पदपाठः (Word-by-word)
ते । त्वा॒ । मदाः᳚ । इ॒न्द्र॒ । मा॒द॒य॒न्तु॒ । शु॒ष्मिण᳚म् । तु॒वि॒॑राध᳚सम् । ज॒रि॒त्रे ।
एकः᳚ । दे॒व॒॑त्रा । दय᳚से । हि । मर्ता᳚न् । अ॒स्मिन् । शू॒र॒ । सव᳚ने । मा॒द॒य॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वा त्वां तएते मदाः मदकाराः सोमाः मादयन्तु अपि च जरित्रे स्तोत्रे शुष्मिणं बलवन्तं तुविराधसं बहुधनं पुत्रं प्रयच्छसीति शेषः । हे शूर त्वं देवत्रा देवेषु एकएव मर्तान् मनुष्यान् दयसे हि दयतिरनुकंपार्थः अस्मिन् सवने यज्ञे मादयस्व ॥ ५ ॥

7.23.6
ए॒वेदिन्द्रं॒ वृष᳚णं॒ वज्र᳚बाहुं॒ वसि᳚ष्ठासो अ॒भ्य᳚र्चन्त्य॒र्कैः ।
स नः᳚ स्तु॒तो वी॒रव᳚त्पातु॒ [वी॒रव᳚द्धातु॒] गोम᳚द्यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
ए॒व । इत् । इन्द्र᳚म् । वृष᳚णम् । वज्र᳚॑बाहुम् । वसि᳚ष्ठासः । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कैः ।
सः । नः॒ । स्तु॒तः । वी॒र॑व᳚त् । पा॒तु॒ [धा॒तु॒] । गो॑म᳚त् । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वसिष्ठासोवसिष्ठाः वज्रबाहुं वज्रकल्पबाहुं वृषणं कामानां वर्षितारमिन्द्रं एवेत् उक्तेन प्रकारेणैव अर्कैरर्चनीयैःस्तोत्रैः अभ्यर्चन्ति अभिपू- जयन्ति स्तुतः सइन्द्रोनोस्मभ्यं वीरवत्पुत्रादियुक्तं गोमत् गोयुक्तं च धनं धातु ददातु स्पष्टमन्यत् ॥ ६ ॥

योनिष्टइन्द्रसदनेअकारीति षळृचं सप्तमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रं अनुक्रम्यते च योनिरिति । महाव्रते निष्केवल्येएतत्सूक्तं सूत्रितं च-योनिष्टइन्द्रसदनेअकारीत्येतस्यचतस्रः शस्त्वोत्तमामुपसंतत्योपोत्तमया परिदधातीति ।