सप्तमं मण्डलम् - सूक्तम् 63

6 ऋचः

ऋषिः: वसिष्ठः देवता: सूर्यः छन्दः: त्रिष्टुप्

सूक्तम् 7.63 - सम्पूर्णम्

1 / 6
ऋक्: 7.63.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
7.63.1 समानपद
उद्वे᳚ति सु॒भगो᳚ वि॒श्वच᳚क्षा॒ः साधा᳚रण॒ः सूर्यो॒ मानु᳚षाणाम् ।
चक्षु᳚र्मि॒त्रस्य॒ वरु᳚णस्य दे॒वश्चर्मे᳚व॒ यः स॒मवि᳚व्य॒क्तमां᳚सि ॥
▶ पदपाठः (Word-by-word)
उत् । ऊं॒ इति᳚ । ए॒ति॒ । सु॒॑भगः᳚ । वि॒श्व॑च᳚क्षाः । साधा᳚रणः । सूर्यः᳚ । मानु᳚षाणाम् ।
चक्षुः᳚ । मि॒त्रस्य᳚ । वरु᳚णस्य । दे॒वः । चर्म᳚॑इव । यः । स॒म्॑अवि᳚व्यक् । तमां᳚सि ॥
▶ सायणभाष्यम् (Sayana Commentary)

उद्वेति उद्गच्छत्ययंसूर्यः सुभगः शोभनभाग्यः सुष्ठु भजनीयोवा विश्वचक्षाः सर्वस्यद्रष्टा मानुषाणां सर्वेषां मनुष्याणां साधारणः साधा- रणत्वप्रतिपादकश्रुतिः पूर्वमुदाहृता मित्रस्य वरुणस्य च चक्षुः प्रकाशकः देवोद्योतमानः योदेवश्चर्मेव चर्माणीव तमांसि समविव्यक् सह विचति संवेष्टयति समहानुभावोदेवः उद्वेति ॥ १ ॥

7.63.2
उद्वे᳚ति प्रसवी॒ता जना᳚नां म॒हान्के॒तुर᳚र्ण॒वः सूर्य᳚स्य ।
स॒मा॒नं च॒क्रं प᳚र्या॒विवृ᳚त्स॒न्यदे᳚त॒शो वह᳚ति धू॒र्षु यु॒क्तः ॥
▶ पदपाठः (Word-by-word)
उत् । ऊं॒ इति᳚ । ए॒ति॒ । प्र॒॑स॒वि॒ता । जना᳚नाम् । म॒हान् । के॒तुः । अ॒र्ण॒वः । सूर्य᳚स्य ।
स॒मा॒नम् । च॒क्रम् । प॒रि॒॑आ॒विवृ᳚त्सन् । यत् । ए॒त॒शः । वह᳚ति । धूः॒॑सु । यु॒क्तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं सूर्यस्य सूर्यः विभक्तिव्यत्ययः उद्वेति उद्गच्छति कीदृशोयं जनानां सर्वेषां प्रसविता सर्वेषु कर्मस्वनुज्ञाता महान् पूज्यः केतुः सर्वस्य प्रज्ञापकः अर्णवः उदकप्रदः । किं कुर्वन्नुदेतीति उच्यते समानं सर्वेषामेकरूपं एकमेवचक्रं रथाङ्गं चरणशीलं रथं वा पर्याविवृत्सन् पर्या- वर्तयितुमिच्छन् यद्रथचक्रं धूर्ष रथस्य युक्त एतशः एतशवर्णो हरितवर्णोश्वोवहति एकोअश्वोवहतिसप्तनामेत्युक्तम् ॥ २ ॥

7.63.3
वि॒भ्राज᳚मान उ॒षसा᳚मु॒पस्था᳚द्रे॒भैरुदे᳚त्यनुम॒द्यमा᳚नः ।
ए॒ष मे᳚ दे॒वः स᳚वि॒ता च᳚च्छन्द॒ यः स᳚मा॒नं न प्र᳚मि॒नाति॒ धाम᳚ ॥
▶ पदपाठः (Word-by-word)
वि॒॑भ्राज᳚मानः । उ॒षसा᳚म् । उ॒प॑स्था᳚त् । रे॒भैः । उत् । ए॒ति॒ । अ॒नु॒॑म॒द्यमा᳚नः ।
ए॒षः । मे॒ । दे॒वः । स॒वि॒ता । च॒च्छ॒न्द॒ । यः । स॒मा॒नम् । न । प्र॒॑मि॒नाति᳚ । धाम᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं सूर्योविभ्राजमानोविशेषेणदीप्यमानः उषसामुपस्थात् उपस्थे मध्ये रेभैः स्तोतृभिरनुमद्यमानः सन्नुदेति किञ्च एषदेवोद्योतमानः सविता मे ह्यं चच्छन्द उपच्छन्दयति कामान् । एषइत्युक्तं कइति योदेवः समानं सर्वेषां प्राणिनामेकरूपं धाम स्वीयं तेजः स्थानं न प्रमिनाति नहिनस्ति न संकोचयति सदेवउदेतीति ॥ ३ ॥

7.63.4 समानपद
दि॒वो रु॒क्म उ᳚रु॒चक्षा॒ उदे᳚ति दू॒रेअ᳚र्थस्त॒रणि॒र्भ्राज᳚मानः ।
नू॒नं जना॒ः सूर्ये᳚ण॒ प्रसू᳚ता॒ अय॒न्नर्था᳚नि कृ॒णव॒न्नपां᳚सि ॥
▶ पदपाठः (Word-by-word)
दि॒वः । रु॒क्मः । उ॒रु॒॑चक्षाः᳚ । उत् । ए॒ति॒ । दू॒रे॑अ᳚र्थः । त॒रणिः᳚ । भ्राज᳚मानः ।
नू॒नम् । जनाः᳚ । सूर्ये᳚ण । प्र॑सू᳚ताः । अय᳚न् । अर्था᳚नि । कृ॒णव᳚न् । अपां᳚सि ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं सूर्योरुक्मोरोचमानः उरुचक्षाः प्रभूततेजाश्चसन् दिवोन्तरिक्षादुदेति यद्वा दिवोन्तरिक्षस्य रुक्मआभरणस्थानीयः कीदृशोयं दूरेअर्थः दुरेगन्ता अर्थोर्तेः दुरे प्रार्थ्यमानोवा तरणिस्तारकः भ्राजमानोदीप्यमानः सन्नुदेति नूनं निश्चयं जनाः सर्वे प्राणिनः सूर्येण प्रेरकेण देवेन प्रसूताः अनुज्ञाताः प्रेरिताः सन्तःअयन् अर्थानि गंतव्यानि अनुष्ठेयानि अपांसि कर्माणि कृणवन् कुर्वन्ति ॥ ४ ॥

7.63.5
यत्रा᳚ च॒क्रुर॒मृता᳚ गा॒तुम᳚स्मै श्ये॒नो न दीय॒न्नन्वे᳚ति॒ पाथः᳚ ।
प्रति᳚ वां॒ सूर॒ उदि᳚ते विधेम॒ नमो᳚भिर्मित्रावरुणो॒त ह॒व्यैः ॥
▶ पदपाठः (Word-by-word)
यत्र᳚ । च॒क्रुः । अ॒मृताः᳚ । गा॒तुम् । अ॒स्मै॒ । श्ये॒नः । न । दीय᳚न् । अनु᳚ । ए॒ति॒ । पाथः᳚ ।
प्रति᳚ । वा॒म् । सूरे᳚ । उत्॑इ᳚ते । वि॒धे॒म॒ । नमः᳚॑भिः । मि॒त्रा॒व॒रु॒णा॒ । उ॒त । ह॒व्यैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत्र यस्मिन्नन्तरिक्षे अमृता अमरणधर्माणः पूर्वेदेवा अस्मै सूर्याय गातुं मार्गं चक्रुः अकुर्वन् तत्पाथोन्तरिक्षं अन्वेति अनुगच्छति कइव दीयन् गच्छन् श्येनोन शंसनीयगमनोगृध्रइव अयमर्धर्चः सौर्यइत्युक्तम् हे मित्रावरुणा मित्रावरुणौ वां युवां सूरे सूर्ये उदिते सति प्रातःसवने नमोभिर्नमस्कारैः स्तुतिभिः उतापिच हव्यैः हविर्भिश्च प्रतिविधेम परिचरेम ॥ ५ ॥

7.63.6
नू मि॒त्रो वरु᳚णो अर्य॒मा न॒स्त्मने᳚ तो॒काय॒ वरि᳚वो दधन्तु ।
सु॒गा नो॒ विश्वा᳚ सु॒पथा᳚नि सन्तु यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
नु । मि॒त्रः । वरु᳚णः । अ॒र्य॒मा । नः॒ । त्मने᳚ । तो॒काय᳚ । वरि᳚वः । द॒ध॒न्तु॒ ।
सु॒॑गा । नः॒ । विश्वा᳚ । सु॒॑पथा᳚नि । स॒न्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नुमित्रइतिषष्ठीगता ॥ ६ ॥

दिविक्षयन्तेति पंचर्चं नवमं सूक्तं वसिष्ठस्यार्षं मैत्रावरुणम् । दिविपंचेत्यनुक्रमणिका । तृतीयेछन्दोमे प्रउगशस्त्रे आद्यस्तृचोमैत्रा- वरुणस्य सूत्रितं च-द्विविक्षयन्तारजसः पृथिव्या माविश्ववाराश्विनागतंनइति ।