उद्वे᳚ति प्रसवी॒ता जना᳚नां म॒हान्के॒तुर᳚र्ण॒वः सूर्य᳚स्य ।
स॒मा॒नं च॒क्रं प᳚र्या॒विवृ᳚त्स॒न्यदे᳚त॒शो वह᳚ति धू॒र्षु यु॒क्तः ॥
स॒मा॒नं च॒क्रं प᳚र्या॒विवृ᳚त्स॒न्यदे᳚त॒शो वह᳚ति धू॒र्षु यु॒क्तः ॥
पदपाठः (Word-by-word)
उत् । ऊं॒ इति᳚ । ए॒ति॒ । प्र॒॑स॒वि॒ता । जना᳚नाम् । म॒हान् । के॒तुः । अ॒र्ण॒वः । सूर्य᳚स्य ।
स॒मा॒नम् । च॒क्रम् । प॒रि॒॑आ॒विवृ᳚त्सन् । यत् । ए॒त॒शः । वह᳚ति । धूः॒॑सु । यु॒क्तः ॥
स॒मा॒नम् । च॒क्रम् । प॒रि॒॑आ॒विवृ᳚त्सन् । यत् । ए॒त॒शः । वह᳚ति । धूः॒॑सु । यु॒क्तः ॥
सायणभाष्यम् (Sayana Commentary)
अयं सूर्यस्य सूर्यः विभक्तिव्यत्ययः उद्वेति उद्गच्छति कीदृशोयं जनानां सर्वेषां प्रसविता सर्वेषु कर्मस्वनुज्ञाता महान् पूज्यः केतुः सर्वस्य प्रज्ञापकः अर्णवः उदकप्रदः । किं कुर्वन्नुदेतीति उच्यते समानं सर्वेषामेकरूपं एकमेवचक्रं रथाङ्गं चरणशीलं रथं वा पर्याविवृत्सन् पर्या- वर्तयितुमिच्छन् यद्रथचक्रं धूर्ष रथस्य युक्त एतशः एतशवर्णो हरितवर्णोश्वोवहति एकोअश्वोवहतिसप्तनामेत्युक्तम् ॥ २ ॥