सप्तमं मण्डलम् - सूक्तम् 15

15 ऋचः

ऋषिः: वसिष्ठः देवता: अग्निः छन्दः: गायत्री

सूक्तम् 7.15 - सम्पूर्णम्

1 / 15
ऋक्: 7.15.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
7.15.1
उ॒प॒सद्या᳚य मी॒ळ्हुष᳚ आ॒स्ये᳚ जुहुता ह॒विः ।
यो नो॒ नेदि᳚ष्ठ॒माप्य᳚म् ॥
▶ पदपाठः (Word-by-word)
उ॒प॒॑सद्या᳚य । मी॒ळ्हुषे᳚ । आ॒स्ये᳚ । जु॒हु॒त॒ । ह॒विः ।
यः । नः॒ । नेदि᳚ष्ठम् । आप्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअध्वर्यवः उपसद्याय उअपसदनीयाय मीह्ळुषे कामानां वर्षित्रे अग्नये तत्प्रीत्यर्थं आस्ये तस्यैवमुखे हविर्जुहुत । योग्निः नेदिष्ठमासन्नत- ममाप्यं भवति आसन्नतमोबन्धुर्भवतीत्यर्थः आप्यमितिस्वार्थिकस्तद्धितः ॥ १ ॥

7.15.2
यः पञ्च᳚ चर्ष॒णीर॒भि नि᳚ष॒साद॒ दमे᳚दमे ।
क॒विर्गृ॒हप᳚ति॒र्युवा᳚ ॥
▶ पदपाठः (Word-by-word)
यः । पञ्च᳚ । च॒र्ष॒णीः । अ॒भि । नि॒॑स॒साद᳚ । दमे᳚॑दमे ।
क॒विः । गृ॒ह॑प᳚तिः । युवा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योग्निः कविः प्राज्ञो गृहपतिः गृहाणां पालयिता युवा नित्यतरुणःसन् पंचचर्षणीः पञ्चजनानु मनुष्यानभि अभिमुखं दमेदमे गृहेगृहे निषसाद निषीदति । उत्तरया वाक्यपरिसमाप्तिः ॥ २ ॥

7.15.3
स नो॒ वेदो᳚ अ॒मात्य᳚म॒ग्नी र᳚क्षतु वि॒श्वतः᳚ ।
उ॒तास्मान्पा॒त्वंह᳚सः ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । वेदः᳚ । अ॒मात्य᳚म् । अ॒ग्निः । र॒क्ष॒तु॒ । वि॒श्वतः᳚ ।
उ॒त । अ॒स्मान् । पा॒तु॒ । अंह᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोग्निर्नोस्माकं वेदोधनं अमात्यं अन्तिके भवं सह भूतंवा विश्वतः सर्वतोबाधकात् रक्षतु । उतापिच अस्मान्वसिष्ठानंहसः पापात् पातु रक्षतु ॥ ३ ॥

7.15.4
नवं॒ नु स्तोम᳚म॒ग्नये᳚ दि॒वः श्ये॒नाय᳚ जीजनम् ।
वस्व᳚ः कु॒विद्व॒नाति᳚ नः ॥
▶ पदपाठः (Word-by-word)
नव᳚म् । नु । स्तोम᳚म् । अ॒ग्नये᳚ । दि॒वः । श्ये॒नाय᳚ । जी॒ज॒न॒म् ।
वस्वः᳚ । कु॒वित् । व॒नाति᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिवो द्युलोकस्य श्येनाय श्येनसदृशाय नु क्षिप्रं गन्त्रे अग्नये यस्मै नवं नूतनं स्तोमं जीजनं जनयामि । सोग्निर्नोस्मभ्यं कुवित् बहु वस्वो- वसु धनं कर्मणिषष्ठी वनानि ददात्वित्यर्थः ॥ ४ ॥

7.15.5
स्पा॒र्हा यस्य॒ श्रियो᳚ दृ॒शे र॒यिर्वी॒रव᳚तो यथा ।
अग्रे᳚ य॒ज्ञस्य॒ शोच᳚तः ॥
▶ पदपाठः (Word-by-word)
स्पा॒र्हाः । यस्य᳚ । श्रियः᳚ । दृ॒शे । र॒यिः । वी॒र॑व᳚तः । य॒था॒ ।
अग्रे᳚ । य॒ज्ञस्य᳚ । शोच᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्याग्ने पुरस्ताद्भागे शोचतो दीप्यमानस्य यस्याग्नेः श्रियो दीप्तयः वीरवतः पुत्रवतोरयिर्धनं यथा तद्वत् दृशे द्रष्टुं चक्षुषेवा स्पार्हाः स्प्कुहणीयाः भवन्ति । तस्मै नवं स्तोमं जीजनमित्यनुषंगः उत्तरत्र संबंधोवा ॥ ५ ॥

7.15.6
सेमां वे᳚तु॒ वष᳚ट्कृतिम॒ग्निर्जु᳚षत नो॒ गिरः᳚ ।
यजि᳚ष्ठो हव्य॒वाह᳚नः ॥
▶ पदपाठः (Word-by-word)
सः । इ॒माम् । वे॒तु॒ । वष᳚ट्॑कृतिम् । अ॒ग्निः । जु॒ष॒त॒ । नः॒ । गिरः᳚ ।
यजि᳚ष्ठः । ह॒व्य॒॑वाह᳚नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यजिष्ठो यजनीयतमो यष्टृतमोवा हव्यवाहनो हव्यानां हविषां वोढा सोग्निरिमां वषट्कृतिं अस्माभिर्दीयमानामाहुतिं वेतु कामयतां भक्षयतु वा । नोस्माकं गिरः स्तुतीश्च जुषत सेवताम् ॥ ६ ॥

7.15.7
नि त्वा᳚ नक्ष्य विश्पते द्यु॒मन्तं᳚ देव धीमहि ।
सु॒वीर᳚मग्न आहुत ॥
▶ पदपाठः (Word-by-word)
नि । त्वा॒ । न॒क्ष्य॒ । वि॒श्प॒ते॒ । द्यु॒॑मन्त᳚म् । दे॒व॒ । धी॒म॒हि॒ ।
सु॒॑वीर᳚म् । अ॒ग्ने॒ । आ॒॑हु॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नक्ष्य उअपगन्तव्य नक्षतिर्व्याप्तिकर्मा विश्पते विशांपते देव द्योतमान आहुत सर्वैर्यजमानैरभिहुत हे अग्ने द्युमन्तं दीप्तिमन्तं सुवीरं कल्याणस्तोतृकं त्वा त्वां वयं निधीमहि निहितवन्तः ॥ ७ ॥

7.15.8
क्षप᳚ उ॒स्रश्च᳚ दीदिहि स्व॒ग्नय॒स्त्वया᳚ व॒यम् ।
सु॒वीर॒स्त्वम᳚स्म॒युः ॥
▶ पदपाठः (Word-by-word)
क्षपः᳚ । उ॒स्रः । च॒ । दी॒दि॒हि॒ । सु॒॑अ॒ग्नयः᳚ । त्वया᳚ । व॒यम् ।
सु॒॑वीरः᳚ । त्वम् । अ॒स्म॒॑युः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं क्षपोरात्रीः उस्रः अहानि च सर्वदेतियावत् दीदिहि दीप्यस्व दीप्यमानेन त्वया वयं वसिष्ठाः स्वग्नयः शोभमानाग्नयो भवाम । अस्मयुःअस्मान् कामयमानः सुपआत्मनः-क्यजिति क्यचिकृते क्याच्छन्दसीति उ प्रत्ययः दकारलोपश्छान्दसः तथा च यास्कः-अस्म- युरस्मान्कामयमानइति । त्वं सुवीरः सुस्तोत्रिको भव ॥ ८ ॥

7.15.9
उप᳚ त्वा सा॒तये॒ नरो॒ विप्रा᳚सो यन्ति धी॒तिभि᳚ः ।
उपाक्ष᳚रा सह॒स्रिणी᳚ ॥
▶ पदपाठः (Word-by-word)
उप᳚ । त्वा॒ । सा॒तये᳚ । नरः᳚ । विप्रा᳚सः । य॒न्ति॒ । धी॒ति॑भिः᳚ ।
उप᳚ । अक्ष᳚रा । स॒ह॒स्रिणी᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वा त्वां नरो नेतारो यजमानाः विप्रासो विप्राः मेधाविनः धीतिभिः कर्मभिः सातये धनाय कामानां लाभायवा उपयन्ति उप- गच्छन्ति । सहस्रिणी सहस्रसंख्याका अक्षरा क्षयरहिता स्तुतिरूपा अस्मदीया वाक् त्वामुपयाति च ॥ ९ ॥

7.15.10
अ॒ग्नी रक्षां᳚सि सेधति शु॒क्रशो᳚चि॒रम᳚र्त्यः ।
शुचि᳚ः पाव॒क ईड्य᳚ः ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । रक्षां᳚सि । से॒ध॒ति॒ । शु॒क्र॑शो᳚चिः । अम᳚र्त्यः ।
शुचिः᳚ । पा॒व॒कः । ईड्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

शुक्रशोचिः शुभ्रज्वालः अमर्त्यः मरणरहितो देवतात्मा शुचिः स्वयं शुद्धः पावकः अन्येषामपि शोधकः ईड्यः स्तुत्योग्निः रक्षांसि राक्षसान् सेधति बाधतां ॥ १० ॥

7.15.11
स नो॒ राधां॒स्या भ॒रेशा᳚नः सहसो यहो ।
भग᳚श्च दातु॒ वार्य᳚म् ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । राधां᳚सि । आ । भ॒र॒ । ईशा᳚नः । स॒ह॒सः॒ । य॒हो॒ इति᳚ ।
भगः᳚ । च॒ । दा॒तु॒ । वार्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सहसोयहो बलस्यपुत्राग्ने सप्रसिद्धस्त्वं ईशानः सर्वस्य जगतः ईश्वरः सन् नोस्मभ्यं राधांसि धनानि रायः राधइति धननामसु पाठात् आभर आहर । भगश्च भगोदेवोपि वार्यं वरणीयं धनं दातु अस्मभ्यं ददातु । अभ्यासलोपश्छान्दसः भगोत्रसूक्ते निपातभागिनी देवता ॥ ११ ॥

7.15.12
त्वम᳚ग्ने वी॒रव॒द्यशो᳚ दे॒वश्च᳚ सवि॒ता भगः᳚ ।
दिति᳚श्च दाति॒ वार्य᳚म् ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । वी॒र॑व᳚त् । यशः᳚ । दे॒वः । च॒ । स॒वि॒ता । भगः᳚ ।
दितिः᳚ । च॒ । दा॒ति॒ । वार्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं वीरवत् पुत्रपौत्रोपेतं यशोन्नं देहीति शेषः । देवश्च सविता सविता देवोपि वार्यं वरणीयं धनं दाति ददातु । भगश्च देवोपि ददातु । दितिश्च दितिरपि देवी ददातु । सवित्रादिः सूक्ते निपातभागिनी देवता ॥ १२ ॥

7.15.13
अग्ने॒ रक्षा᳚ णो॒ अंह᳚स॒ः प्रति᳚ ष्म देव॒ रीष᳚तः ।
तपि᳚ष्ठैर॒जरो᳚ दह ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । रक्ष᳚ । नः॒ । अंह᳚सः । प्रति᳚ । स्म॒ । दे॒व॒ । रिष᳚तः ।
तपि᳚ष्ठैः । अ॒जरः᳚ । द॒ह॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं नोस्मान् अंहसः पापात् रक्ष पाहि । संहितायां दीर्घश्छान्दसः अपिच हे देव द्योतमानाग्ने अजरो जरारहितस्त्वं रिषतो हिंसतः शत्रून् तपिष्ठैरतिशयेन तापकैस्तेजोभिः दह भस्मीकुरु ॥ १३ ॥

7.15.14
अधा᳚ म॒ही न॒ आय॒स्यना᳚धृष्टो॒ नृपी᳚तये ।
पूर्भ᳚वा श॒तभु᳚जिः ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । म॒ही । नः॒ । आय᳚सी । अना᳚धृष्टः । नृ॑पी᳚तये ।
पूः । भ॒व॒ । श॒त॑भु᳚जिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अधा अधुना हे अग्ने अनाधृष्टः अप्रतिधर्षणीयः त्वं नोस्माकं नृपीतये नृणां रक्षणार्थं मही महती आयसी अयसा निर्मिता शतभुजिः अत्यन्तं विस्तृता शतगुणा पूः पुरी तद्रक्षासाधनभूतप्राकारादिर्वा पूरुच्यते भव । यथा अयसा निर्मिता पुरी तद्रक्षासाधनभूतप्राकारादि- र्वा शत्रुभ्योभीतान्रक्षति तद्वद्राक्षसेभ्यो भीतानस्मान् पाहीत्यर्थः ॥ १४ ॥

7.15.15
त्वं नः᳚ पा॒ह्यंह᳚सो॒ दोषा᳚वस्तरघाय॒तः ।
दिवा॒ नक्त᳚मदाभ्य ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । पा॒हि॒ । अंह᳚सः । दोषा᳚॑वस्तः । अ॒घ॒॑य॒तः ।
दिवा᳚ । नक्त᳚म् । अ॒दा॒भ्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अदाभ्य अहिंस्य दोषा वस्तः रात्रेराच्छादयितः तमसोवारयितरित्यर्थः । अग्ने त्वं नोस्मान् अंहसः पापात् अघायतः पापमिच्छतः शत्रोश्च दिवानक्तं अहनि रात्रौ च सर्वदा पाहि रक्ष ॥ १५ ॥

एनावइति द्वादशर्चं षोडशं सूक्तं वसिष्ठस्यार्षमग्निदेवताकं अयुजो बृहत्यः युजः सतोबृहत्यः तथाचानुक्रान्तम्-एनावोद्वादश प्रागाथ- मिति । प्रातरनुवाके आग्नेये क्रतौ बार्हते छन्दसि आश्विनशस्त्रेचेदं सूक्तं सूत्रितं च-एनावोअग्निं प्रवोयह्वमिति । आग्निमारुतशस्त्रेदेवोवो- द्रविणोदाइति प्रगाथोनुरूपः सूत्रितं च-देवोवोद्रविणोदाइति प्रगाथौ स्तोत्रियानुरूपाविति ।