स नो॒ यव᳚समिच्छतु ॥
पदपाठः (Word-by-word)
सः । नः॒ । यव᳚सम् । इ॒च्छ॒तु॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे स्तोतारः पर्जन्याय देवाय प्रगायत प्रकर्षेण स्तोत्रमुच्चारयत कीदृशाय दिवोन्तरिक्षस्य पुत्राय तत्र हि पर्जन्यः प्रादुर्भवति मीह्ळुषे सेक्रे सतादृशः पर्जन्यो नोस्मभ्यं यवसं ओषध्यादिलक्षणमन्नं दातुमिच्छतु ॥ १ ॥