सप्तमं मण्डलम् - सूक्तम् 90

7 ऋचः

ऋषिः: वसिष्ठः देवता: वायुः छन्दः: त्रिष्टुप्

सूक्तम् 7.90 - सम्पूर्णम्

1 / 7
ऋक्: 7.90.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
7.90.1
प्र वी᳚र॒या शुच᳚यो दद्रिरे वामध्व॒र्युभि॒र्मधु᳚मन्तः सु॒तासः᳚ ।
वह᳚ वायो नि॒युतो᳚ या॒ह्यच्छा॒ पिबा᳚ सु॒तस्यान्ध᳚सो॒ मदा᳚य ॥
▶ पदपाठः (Word-by-word)
प्र । वी॒र॒॑या । शुच᳚यः । द॒द्रि॒रे॒ । वा॒म् । अ॒ध्व॒र्यु॑भिः᳚ । मधु᳚॑मन्तः । सु॒तासः᳚ ।
वह᳚ । वा॒यो॒ इति᳚ । नि॒॑युतः᳚ । या॒हि॒ । अच्छ᳚ । पिब᳚ । सु॒तस्य᳚ । अन्ध᳚सः । मदा᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वायो वीरया वीराय विविधमीरयित्रे सुपांसुलुगिति चतुर्थ्यायाजादेशः वां ते व्यत्ययेन द्विवचनं तुभ्यं शुचयः शुद्धाः मधुमन्तः माधु- र्योपेताः सुतासः अभिषुताः सोमाः ऎतरेयिभिः नवमेहनि प्रउगे अध्वर्युभिः अध्वरस्यनेतृभिः ऋत्विग्भिः प्रदद्रिरे प्रदीयन्ते दददानेइत्य- स्यैतद्रूपम् यतएवमतः कारणात् हे वायो नियुतोवडवाः वह रथं प्रापय तेन रथेन अच्छ याहि अस्मद्यज्ञमभिगच्छ अभिगत्यच सुत- स्याभिषुतस्य अन्ध्सः अन्नस्य सोमलक्षणस्य स्वकीयं भागं पिब किमर्थम् मदाय मदोत्पत्यर्थं ॥ १ ॥ शुनासीरीयेपर्वणि वायव्यस्य हविषईशानायेति पुरोनुवाक्या सूत्रितञ्च-सत्वंनोदेवमनसे शानायप्रहुतिंयस्तआनडिति । वायव्येपशा- वेषैवपशुपुरोडाशस्ययाज्या सूत्रितंच- ईशानाय प्रहुतिं यस्तआनट् प्रवोवायुंरथयुजं कृणुध्वमिति ।

7.90.2
ई॒शा॒नाय॒ प्रहु᳚तिं॒ यस्त॒ आन॒ट् छुचिं॒ सोमं᳚ शुचिपा॒स्तुभ्यं᳚ वायो ।
कृ॒णोषि॒ तं मर्त्ये᳚षु प्रश॒स्तं जा॒तोजा᳚तो जायते वा॒ज्य᳚स्य ॥
▶ पदपाठः (Word-by-word)
ई॒शा॒नाय᳚ । प्र॑हु᳚तिम् । यः । ते॒ । आन᳚ट् । शुचि᳚म् । सोम᳚म् । शु॒चि॒॑पाः॒ । तुभ्य᳚म् । वा॒यो॒ इति᳚ ।
कृ॒णोषि᳚ । तम् । मर्त्ये᳚षु । प्र॒॑श॒स्तम् । जा॒तः॑जा᳚तः । जा॒य॒ते॒ । वा॒जी । अ॒स्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वायो ईशानाय ईश्वराय ते तुभ्यं त्वदर्थं प्रहुतिं प्रकृष्टामाहुतिं चरुपुरोडाशादिसाध्यां योयजमान आनट् व्याप्नोत् दद्यादित्यर्थः तथा हे शुचिपाः शुद्धस्य सोमस्य पातर्वायो तुभ्यं शुचिं शुद्धं सोमं च यः प्रयच्छति मर्त्येषु मनुष्येषु मध्ये तं यजमानं प्रशस्तं मुख्यं कृणोषि करोषि सच जातोजातः सर्वत्र प्रादुर्भूतः प्रख्यातः सन् वाजी अस्य प्राप्तस्य धनस्य प्राप्तये जायते अवकल्पते सर्वं धनं लभते ईत्यर्थः ॥ २ ॥ नियुत्वद्गुण विशिष्टवायुदेवताके पशौ रायेनुयमिति पुरोडाशस्य याज्या सू*त्रितञ्च-रायेनुयंजज्ञतूरोदसीमे प्रवायुमच्छाबृहती- मनीषेति ।

7.90.3
रा॒ये नु यं ज॒ज्ञतू॒ रोद᳚सी॒मे रा॒ये दे॒वी धि॒षणा᳚ धाति दे॒वम् ।
अध᳚ वा॒युं नि॒युतः᳚ सश्चत॒ स्वा उ॒त श्वे॒तं वसु᳚धितिं निरे॒के ॥
▶ पदपाठः (Word-by-word)
रा॒ये । नु । यम् । ज॒ज्ञतुः᳚ । रोद᳚सी॒ इति᳚ । इ॒मे इति᳚ । रा॒ये । दे॒वी । धि॒षणा᳚ । धा॒ति॒ । दे॒वम् ।
अध᳚ । वा॒युम् । नि॒॑युतः᳚ । स॒श्च॒त॒ । स्वाः । उ॒त । श्वे॒तम् । वसु᳚॑धितिम् । नि॒रे॒के ॥
▶ सायणभाष्यम् (Sayana Commentary)

इमे रोदसी द्यावापृथिव्यौ यं वायुं राये धनार्थं नु क्षिप्रं जज्ञतुर्जनयामासतुः तं देवं दानादिगुणयुक्तं वायुं देवी द्योतमाना धिषणा स्तुतिः राये धनार्थं धाति धारयति धनं यथा लभ्यते तथा प्रेरयतीत्यर्थः अध अधुना एवं स्तुतौ प्रवृत्तायां स्वाः स्वकीया नियुतोवडवाः रथ- वाहाः वायुं सश्चत सचन्ते सेवन्ते उतापिच श्वेतं शुभ्रवर्णं निरेके नितरां रेको रिक्तता निरेकः दारिद्भमित्यर्थः तस्मिन् सति वसुधितिं वसूनां धातारं प्रदातारं तं वायुं नियुतोस्मद्यज्ञं प्रापयन्तीतिशेषः ॥ ३ ॥ द्वितीये छन्दोमे प्रउगशस्त्रे वायव्यतृचस्य उच्छन्नुषसइति तृतीया सूत्रितञ्च-उच्छन्नुषसः सुदिनाअरिप्राइत्येकपातिन्यइति ।

7.90.4
उ॒च्छन्नु॒षसः᳚ सु॒दिना᳚ अरि॒प्रा उ॒रु ज्योति᳚र्विविदु॒र्दीध्या᳚नाः ।
गव्यं᳚ चिदू॒र्वमु॒शिजो॒ वि व᳚व्रु॒स्तेषा॒मनु᳚ प्र॒दिवः᳚ सस्रु॒रापः᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒च्छन् । उ॒षसः᳚ । सु॒॑दिनाः᳚ । अ॒रि॒प्राः । उ॒रु । ज्योतिः᳚ । वि॒वि॒दुः॒ । दीध्या᳚नाः ।
गव्य᳚म् । चि॒त् । ऊ॒र्वम् । उ॒शिजः᳚ । वि । व॒व्रुः॒ । तेषा᳚म् । अनु᳚ । प्र॒॑दिवः᳚ । सस्रुः᳚ । आपः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

येङ्गिरसोवायुमस्तोषत तेषां अरिप्राः पापरहिता उषसः सुदिनाः शोभनदिनस्य हेतुभूताः सत्यः उच्छन् औच्छन् व्यवासयन् तेच दीध्यानाः दीप्यमानाः सन्तः उरु विस्तीर्णं ज्योतिः सूर्याख्यं विविदुः वायोः प्रसादादलभन्त । अपिच उशिजः कामयमानाः तेअंगिरसः गव्यं चित् गोसङ्घरूपमपि ऊर्वं धनं पणिभिरपत्दृतं विवव्रुः व्यवृण्वन् अलभन्त । तथा तेषामङ्गिरसामर्थाय प्रदिवः पुराण्यः आपः अनुसस्रुः अन्वसरन् अन्वगच्छन् हिताः हिताचरणपरा आसन्नित्यर्थः आवरकस्यासुरस्य वायुनाहननात् असुरेणाहृतानुषः- प्रभृतीन् पुनर्लब्धवन्तइत्यर्थः ॥ ४ ॥ तृतीये छन्दोमे प्रउगशस्त्रे तेसत्येनेत्यैन्द्रवायवस्तृचः सूत्रितंच-तेसत्येनमनसादीध्यानादिविक्षयन्तारजसः पृथिव्यामिति ।

7.90.5 समानपद
ते स॒त्येन॒ मन᳚सा॒ दीध्या᳚ना॒ः स्वेन᳚ यु॒क्तास॒ः क्रतु᳚ना वहन्ति ।
इन्द्र᳚वायू वीर॒वाहं॒ रथं᳚ वामीशा॒नयो᳚र॒भि पृक्ष᳚ः सचन्ते ॥
▶ पदपाठः (Word-by-word)
ते । स॒त्येन᳚ । मन᳚सा । दीध्या᳚नाः । स्वेन᳚ । यु॒क्तासः᳚ । क्रतु᳚ना । व॒ह॒न्ति॒ ।
इन्द्र᳚वायू॒ इति᳚ । वी॒र॒॑वाह᳚म् । रथ᳚म् । वा॒म् । ई॒शा॒नयोः᳚ । अ॒भि । पृक्षः᳚ । स॒च॒न्ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ते प्रसिद्धाः सत्येन यथार्थेन मनसा मननीयेन स्तोत्रेण युक्ताः दीध्याना दीप्यमानाः स्वेन स्वकीयत्वे विहितेन क्रतुना कर्मणा नित्यनै- मित्तिकात्मना युक्तासोयुक्ताः एवंभूताः यजमानाः हे इन्द्रवायु वीरवाहं वीरैः विशेषेण ईरयितृभिः स्तोतृभीः वहनीयं प्रापणीयम् । यद्वा वीरैरश्वैर्वहनीयं ईशानयोरीश्वरयोर्वां युवयोः स्वभूतं रथं वहन्ति स्वं स्वं यज्ञं प्रापयन्ति । तत्र च पृक्षोन्नानि हविर्लक्षणानि अभिसचन्ते यवामभिसेवन्ते ॥ ५ ॥

7.90.6
ई॒शा॒नासो॒ ये दध᳚ते॒ स्व᳚र्णो॒ गोभि॒रश्वे᳚भि॒र्वसु᳚भि॒र्हिर᳚ण्यैः ।
इन्द्र᳚वायू सू॒रयो॒ विश्व॒मायु॒रर्व᳚द्भिर्वी॒रैः पृत᳚नासु सह्युः ॥
▶ पदपाठः (Word-by-word)
ई॒शा॒नासः᳚ । ये । दध᳚ते । स्वः᳚ । नः॒ । गोभिः᳚ । अश्वे᳚भिः । वसु᳚॑भिः । हिर᳚ण्यैः ।
इन्द्र᳚वायू॒ इति᳚ । सू॒रयः᳚ । विश्व᳚म् । आयुः᳚ । अर्व᳚त्॑भिः । वी॒रैः । पृत᳚नासु । स॒ह्युः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रवायू ईशानासः ईश्वराः प्रभवोयेजनाः नोस्मभ्यं गोभिरश्वेभिरश्वैर्वसुभिर्निवासकैः हिरण्यैश्च सहितं स्वः सुष्ठु अरणीयं सुखं दधते ददति प्रयच्छंति । यद्वा हिरण्यव्यतिरिक्तानि धनानि वसूनि तैर्हिरण्यैश्च सहेत्यर्थः । ते सूरयो दातारः विश्वं व्याप्तमायुरन्नं जीवनं वा शत्रूणां स्वभूतं पृतनासु संग्रामेषु अर्वद्भिरश्वैः वीरैः शूरभटैश्च साधनभूतैः सह्युः अभिभवेयुः यद्वा सहार्थे तृतीया अर्वद्भिः वीरैः पुत्रैश्च सहितं शत्रूणामायुरभिभवेयुरित्यर्थः ॥ ६ ॥

7.90.7
अर्व᳚न्तो॒ न श्रव᳚सो॒ भिक्ष᳚माणा इन्द्रवा॒यू सु᳚ष्टु॒तिभि॒र्वसि᳚ष्ठाः ।
वा॒ज॒यन्त॒ः स्वव᳚से हुवेम यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
अर्व᳚न्तः । न । श्रव᳚सः । भिक्ष᳚माणाः । इ॒न्द्र॒वा॒यू इति᳚ । सु॒स्तु॒ति॑भिः᳚ । वसि᳚ष्ठाः ।
वा॒ज॒॑यन्तः᳚ । सु । अव᳚से । हु॒वे॒म॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अर्वन्तोन अश्वाइव हविषां वोढारः श्रवसोन्नस्य द्वितीयार्थे षष्ठी अन्नं भिक्षमाणाः याचमानाः वाजयन्तः वाजं बलमात्मन इच्छन्तो वसिष्ठाः वयं स्ववसे शोभनरक्षणाय सुष्ठुतर्पणाय वा सुष्टुतिभिः शोभनाभिः स्तुतिभिः इन्द्रवायु इन्द्रं वायुं च हुवेम आह्वयेमहि । अन्यद्गतम् ॥ ७ ॥

कुविदंगोति सप्तर्चं द्वितीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वायव्यं कुविदंगेत्यनुक्रान्तम् । गतः सूक्तविनियोगः । वायव्ये पशौ कुविदंगेति वपायाज्या सूत्रितञ्च-कुविदङ्गनमसायेवृधासईशानायप्रहुतिंयस्तआनळिति ।