श्रवणम्

7.90.3
रा॒ये नु यं ज॒ज्ञतू॒ रोद᳚सी॒मे रा॒ये दे॒वी धि॒षणा᳚ धाति दे॒वम् ।
अध᳚ वा॒युं नि॒युतः᳚ सश्चत॒ स्वा उ॒त श्वे॒तं वसु᳚धितिं निरे॒के ॥
▶ पदपाठः (Word-by-word)
रा॒ये । नु । यम् । ज॒ज्ञतुः᳚ । रोद᳚सी॒ इति᳚ । इ॒मे इति᳚ । रा॒ये । दे॒वी । धि॒षणा᳚ । धा॒ति॒ । दे॒वम् ।
अध᳚ । वा॒युम् । नि॒॑युतः᳚ । स॒श्च॒त॒ । स्वाः । उ॒त । श्वे॒तम् । वसु᳚॑धितिम् । नि॒रे॒के ॥
▶ सायणभाष्यम् (Sayana Commentary)

इमे रोदसी द्यावापृथिव्यौ यं वायुं राये धनार्थं नु क्षिप्रं जज्ञतुर्जनयामासतुः तं देवं दानादिगुणयुक्तं वायुं देवी द्योतमाना धिषणा स्तुतिः राये धनार्थं धाति धारयति धनं यथा लभ्यते तथा प्रेरयतीत्यर्थः अध अधुना एवं स्तुतौ प्रवृत्तायां स्वाः स्वकीया नियुतोवडवाः रथ- वाहाः वायुं सश्चत सचन्ते सेवन्ते उतापिच श्वेतं शुभ्रवर्णं निरेके नितरां रेको रिक्तता निरेकः दारिद्भमित्यर्थः तस्मिन् सति वसुधितिं वसूनां धातारं प्रदातारं तं वायुं नियुतोस्मद्यज्ञं प्रापयन्तीतिशेषः ॥ ३ ॥ द्वितीये छन्दोमे प्रउगशस्त्रे वायव्यतृचस्य उच्छन्नुषसइति तृतीया सूत्रितञ्च-उच्छन्नुषसः सुदिनाअरिप्राइत्येकपातिन्यइति ।