सप्तमं मण्डलम् - सूक्तम् 52

3 ऋचः

ऋषिः: वसिष्ठः देवता: आदित्याः छन्दः: त्रिष्टुप्

सूक्तम् 7.52 - सम्पूर्णम्

1 / 3
ऋक्: 7.52.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (3)
7.52.1
आ॒दि॒त्यासो॒ अदि᳚तयः स्याम॒ पूर्दे᳚व॒त्रा व᳚सवो मर्त्य॒त्रा ।
सने᳚म मित्रावरुणा॒ सन᳚न्तो॒ भवे᳚म द्यावापृथिवी॒ भव᳚न्तः ॥
▶ पदपाठः (Word-by-word)
आ॒दि॒त्यासः᳚ । अदि᳚तयः । स्या॒म॒ । पूः । दे॒व॒॑त्रा । व॒स॒वः॒ । म॒र्त्य॒॑त्रा ।
सने᳚म । मि॒त्रा॒व॒रु॒णा॒ । सन᳚न्तः । भवे᳚म । द्या॒वा॒पृ॒थि॒वी॒ इति᳚ । भव᳚न्तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे आदित्यासः आदित्यादेवाः व्यत्ययेनाद्युदात्तत्वाभावः यद्वा आदित्यानामिमेआदित्याः तस्येदमित्यर्थे प्राग्दीव्यतीयोण्यप्रत्ययः आदि- त्यानां शेषभूतावयं अदितयः अखंडनीयाः स्याम भवेम । देवत्रा देवेषु वसवोवासकादेवाः युष्मदीयं पूः पालनं मर्त्यत्रा मनुष्येष्वस्मासु भवतु हे मित्रावरुणा मित्रावरुणौ सनंतः युवां संभजन्तोवयं सनेम युवाभ्यां दत्तं धनं संभजेमहि हे द्यावापृथिवी द्यावापृथिव्यौ युवयोः प्रसादात् वयं भवन्तो भवेम भूतिमंतः स्याम ॥ १ ॥

7.52.2
मि॒त्रस्तन्नो॒ वरु᳚णो मामहन्त॒ शर्म᳚ तो॒काय॒ तन᳚याय गो॒पाः ।
मा वो᳚ भुजेमा॒न्यजा᳚त॒मेनो॒ मा तत्क᳚र्म वसवो॒ यच्चय᳚ध्वे ॥
▶ पदपाठः (Word-by-word)
मि॒त्रः । तत् । नः॒ । वरु᳚णः । म॒म॒ह॒न्त॒ । शर्म᳚ । तो॒काय᳚ । तन᳚याय । गो॒पाः ।
मा । वः॒ । भु॒जे॒म॒ । अ॒न्य॑जा᳚तम् । एनः᳚ । मा । तत् । क॒र्म॒ । व॒स॒वः॒ । यत् । चय᳚ध्वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

मित्रोवरुणः अहर्निशाभिमानिनौ देवौ एतदाद्याः सर्वे आदित्याः नोस्मभ्यं तत् प्रसिद्धं शर्म सुखं ममहन्त मंहतिर्दानकर्मा ददतु गोपाः विश्वस्य रक्षकास्ते देवास्तोकायास्मदीयाय पुत्राय तनयाय तत्पुत्रायच शर्म प्रयच्छन्तु अथप्रत्यक्षस्तुतिः हे देवाः वोयुष्मदीयावयं अ- न्यजातमन्येनोत्पादितं एनः पापमाभुजेम माभुक्तवन्तः स्याम । हे वसवो वासकादेवाः यद्येन युष्मदप्रियेण कर्मणा चयध्वे यूयमस्मा- न्नाशयत तत्तादृशं कर्म वयं माकर्म माकार्ष्म लुङि करोतेरुत्तमस्य बहुवचनं मंत्रेघसह्वरेत्यादिना च्लेर्लोपः ॥ २ ॥

7.52.3
तु॒र॒ण्यवो॑ङ्गि᳚रसो नक्षन्त॒ रत्नं᳚ दे॒वस्य᳚ सवि॒तुरि᳚या॒नाः ।
पि॒ता च॒ तन्नो᳚ म॒हान्यज᳚त्रो॒ विश्वे᳚ दे॒वाः सम᳚नसो जुषन्त ॥
▶ पदपाठः (Word-by-word)
तु॒र॒ण्यवः᳚ । अङ्गि᳚रसः । न॒क्ष॒न्त॒ । रत्न᳚म् । दे॒वस्य᳚ । स॒वि॒तुः । इ॒या॒नाः ।
पि॒ता । च॒ । तत् । नः॒ । म॒हान् । यज᳚त्रः । विश्वे᳚ । दे॒वाः । स॑म᳚नसः । जु॒ष॒न्त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तुरण्यवः यज्ञादिकर्मसु त्वरिताः अंगिरसः एतन्नामकाऋषयः इयानाः सवितारं याचमानाः सन्तः सवितुः प्रेरकस्य देवस्य संबन्धिरत्नं रमणीयं यद्धनं नक्षन्त आश्नुवन्त उत्तरार्धगत तच्छब्दापेक्षया यच्छब्दोध्याह्रियते यजत्रः यजनशीलः महान् प्रभूतः पिताच वसिष्ठस्य पितृभूतोवरुणः यद्वा सर्वेषां पिता प्रजापतिः विश्वे सर्वे देवाः समनसः समानमनस्काः तत्तादृशं रत्नं नोस्मान् जुषन्त सेवयंतु यद्वा नोस्मभ्यं ददतु ॥ ३ ॥

प्रद्यावायज्ञैरिति तृचात्मकं विंशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं द्यावापृथिव्यं अनुक्रम्यतेचप्रद्यावा द्यावापृथिव्यमिति । चतुर्थेहनि वैश्व- देवशस्त्रे इदं द्यावापृथिव्यनिविद्धानं सूत्रितंचाआदेवोयातु प्रद्यावेति वासिष्ठमिति । द्यावापृथिव्येपशौ वपापुरोडाशयोः प्रद्यावेति द्वेऋ- चौयाज्ये सूत्रितं च-प्रद्यावायज्ञैःपृथिवीनमोभिरिति द्वे इति ।