सप्तमं मण्डलम् - सूक्तम् 2

11 ऋचः

ऋषिः: वसिष्ठः देवता: इध्मः समिद्धोग्निर्वा छन्दः: त्रिष्टुप्

सूक्तम् 7.2 - सम्पूर्णम्

1 / 11
ऋक्: 7.2.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
7.2.1
जु॒षस्व᳚ नः स॒मिध᳚मग्ने अ॒द्य शोचा᳚ बृ॒हद्य᳚ज॒तं धू॒ममृ॒ण्वन् ।
उप᳚ स्पृश दि॒व्यं सानु॒ स्तूपै॒ः सं र॒श्मिभि᳚स्ततन॒ः सूर्य᳚स्य ॥
▶ पदपाठः (Word-by-word)
जु॒षस्व᳚ । नः॒ । स॒म्॑इध᳚म् । अ॒ग्ने॒ । अ॒द्य । शोच᳚ । बृ॒हत् । य॒ज॒तम् । धू॒मम् । ऋ॒ण्वन् ।
उप᳚ । स्पृ॒श॒ । दि॒व्यम् । सानु᳚ । स्तूपैः᳚ । सम् । र॒श्मि॑भिः᳚ । त॒त॒नः॒ । सूर्य᳚स्य ॥
▶ सायणभाष्यम् (Sayana Commentary)

जुषस्वनइत्येकादशर्चं द्वितीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं आप्रशब्दोक्तत्वात् इदं तनूनपाद्रहितं समिद्धा द्याअग्निविशेषाः प्रत्यृचं देवताउक्ताः तथाचानुक्रम्यते-जुषस्वैकादशाप्रमिति । पशाविष्टाविदमाप्रीसूक्तं सूत्रितं च-जुषस्वनःसमिधमिति वसिष्ठानामिति । पत्नीसंयाजे त्वाष्ट्र- या गस्ययाज्या त्वाष्ट्रे पशावपिपुरोडाशस्यानवाक्येयमिति पूर्वमुक्तम् ।

हे अग्ने नोस्माकं समिधं अद्य जुषस्व सेवस्व यजतं यजनीयं प्रशस्तं धूमं ऋण्वन् प्रेरयन् बृहदत्यन्तं शोच दीप्यस्व च किंच दिव्यमन्तरिक्षभवं सानु समुच्छ्रितं स्तूपैः तप्तैः रश्मिभिः उपस्पृश अपि च सूर्यस्य रश्मिभिस्तेजोभिः संततनः संगच्छस्व ॥ १ ॥

7.2.2
नरा॒शंस᳚स्य महि॒मान᳚मेषा॒मुप᳚ स्तोषाम यज॒तस्य᳚ य॒ज्ञैः ।
ये सु॒क्रत᳚व॒ः शुच᳚यो धियं॒धाः स्वद᳚न्ति दे॒वा उ॒भया᳚नि ह॒व्या ॥
▶ पदपाठः (Word-by-word)
नरा॒शंस᳚स्य । म॒हि॒मान᳚म् । ए॒षा॒म् । उप᳚ । स्तो॒षा॒म॒ । य॒ज॒तस्य᳚ । य॒ज्ञैः ।
ये । सु॒॑क्रत᳚वः । शुच᳚यः । धि॒य॒म्॑धाः । स्वद᳚न्ति । दे॒वाः । उ॒भया᳚नि । ह॒व्या ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये देवाः सुक्रतवः सुप्रज्ञाः सुकर्माणोवा शुचयो दीप्तिमन्तो धियंधाः कर्मणांधारयितारः उभयानि सौमिकानि च हविःसंस्थादीनि च हव्या हव्यानि स्वदंति स्वदयन्ति तेषामेषांमध्ये यज्ञैर्हविर्भिः स्तोत्रैर्वा यजतस्य यजनीयस्य नराशंसस्य नरैः प्रशंसनीयस्याग्निविशेषस्य महिमानं महत्त्वं उपस्तोषाम वयमुपस्तुमः तथा च यास्कः-नराआसीनाःशंसंत्यग्निरितिशाकपूणिर्नरैः प्रशस्योभवति तस्यैषा भवति नराशंसस्यमहिमानमेषामुपस्तोषामयजतस्य यज्ञैर्येसुकर्माणः सुचयो धियंधारयितारःस्वदयंतुदेवाउभयानिहवींषिसोमंचेतराणिचेति ॥ २ ॥

7.2.3
ई॒ळेन्यं᳚ वो॒ असु᳚रं सु॒दक्ष᳚म॒न्तर्दू॒तं रोद᳚सी सत्य॒वाच᳚म् ।
म॒नु॒ष्वद॒ग्निं मनु᳚ना॒ समि᳚द्धं॒ सम᳚ध्व॒राय॒ सद॒मिन्म᳚हेम ॥
▶ पदपाठः (Word-by-word)
ई॒ळेन्य᳚म् । वः॒ । असु᳚रम् । सु॒॑दक्ष᳚म् । अ॒न्तः । दू॒तम् । रोद᳚सी॒ इति᳚ । स॒त्य॒॑वाच᳚म् ।
म॒नु॒ष्वत् । अ॒ग्निम् । मनु᳚ना । सम्॑इ᳚द्धम् । सम् । अ॒ध्व॒राय᳚ । सद᳚म् । इत् । म॒हे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अध्वयर्वः वोयूयं ईळेन्यं स्तुत्यमसुरं बलवन्तं सुदक्षं सुप्रज्ञः रोदसी रोदस्योरन्तर्मध्ये दूतं देवानां हविर्वहनार्थं चरन्तं सत्यवाचं मनुष्वन् मनुष्यवत् मनुना समिद्धं यथेदानीं मनुष्याः समिन्धते तथा पूर्वं मनुना प्रजापतिना समिद्धमग्नुइमध्वराय यज्ञाय सदमित् सदैव संमहेमसंपूजयत मध्यमपुरुषस्य व्यत्ययेनोत्तमपुरुषत्वम् ॥ ३ ॥

7.2.4
स॒प॒र्यवो॒ भर᳚माणा अभि॒ज्ञु प्र वृ᳚ञ्जते॒ नम᳚सा ब॒र्हिर॒ग्नौ ।
आ॒जुह्वा᳚ना घृ॒तपृ᳚ष्ठं॒ पृष᳚द्व॒दध्व᳚र्यवो ह॒विषा᳚ मर्जयध्वम् ॥
▶ पदपाठः (Word-by-word)
स॒प॒र्यवः᳚ । भर᳚माणाः । अ॒भि॒॑ज्ञु । प्र । वृ॒ञ्ज॒ते॒ । नम᳚सा । ब॒र्हिः । अ॒ग्नौ ।
आ॒॑जुह्वा᳚नाः । घृ॒त॑पृ᳚ष्ठम् । पृष᳚त्॑वत् । अध्व᳚र्यवः । ह॒विषा᳚ । म॒र्ज॒य॒ध्व॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सपर्यवः परिचरणमिच्छन्तः अभिज्ञु अभिगतजानुकं भरणाः पादैर्भरन्तः बर्हिः नमसा हविषासहाग्नौ प्रवृञ्चते प्रभरन्ति । तदेव विशदयति हे अध्वर्यवः घृतपृष्ठं घृतसंसिक्तपृष्ठं पृषद्वत् स्थूलबिंदुभिर्युक्तं बर्हिर्हविषासह आजुह्वानाः मर्जयध्वं अग्निं परिचरत ॥ ४ ॥

7.2.5
स्वा॒ध्यो॒३॒᳚ वि दुरो᳚ देव॒यन्तो॑शि᳚श्रयू रथ॒युर्दे॒वता᳚ता ।
पू॒र्वी शिशुं॒ न मा॒तरा᳚ रिहा॒णे सम॒ग्रुवो॒ न सम᳚नेष्वञ्जन् ॥
▶ पदपाठः (Word-by-word)
सु॒॑आ॒ध्यः᳚ । वि । दुरः᳚ । दे॒व॒॑यन्तः᳚ । अशि᳚श्रयुः । र॒थ॒॑युः । दे॒व॑ता᳚ता ।
पू॒र्वी इति᳚ । शिशु᳚म् । न । मा॒तरा᳚ । रि॒हा॒णे इति᳚ । सम् । अ॒ग्रुवः᳚ । न । सम᳚नेषु । अ॒ञ्ज॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वाध्यः सुकर्माणः देवयन्तो देवकामाः यजमानाः रथयुः रथकामाश्च जसि पूर्वसवर्णोह्रस्वश्च देवताता देवतातौ यज्ञे दुरो यज्ञगृहद्वाराणि व्यशिश्रयुः आश्रितवन्तः । किं च समनेषु यज्ञेषु पूर्वी प्राचीने प्रागग्रे जूहूपभृतौ शिशुंन वत्समिव मातरौ गावौ रिहाणे अग्निं लिहाने अग्रवोनयथानद्यः क्षेत्राण्यदकेन तद्वत् समञ्चन् अध्वर्यव आज्येन समञ्चन्ति ॥ ५ ॥

7.2.6
उ॒त योष᳚णे दि॒व्ये म॒ही न᳚ उ॒षासा॒नक्ता᳚ सु॒दुघे᳚व धे॒नुः ।
ब॒र्हि॒षदा᳚ पुरुहू॒ते म॒घोनी॒ आ य॒ज्ञिये᳚ सुवि॒ताय᳚ श्रयेताम् ॥
▶ पदपाठः (Word-by-word)
उ॒त । योष᳚णे॒ इति᳚ । दि॒व्ये इति᳚ । म॒ही इति᳚ । नः॒ । उ॒षसा॒नक्ता᳚ । सु॒दुघा᳚॑इव । धे॒नुः ।
ब॒र्हि॒॑सदा᳚ । पु॒रु॒हू॒ते इति᳚ पु॒रु॒॑हू॒ते । म॒घोनी॒ इति᳚ । आ । य॒ज्ञिये॒ इति᳚ । सु॒वि॒ताय᳚ । श्र॒ये॒ता॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच योषणे युवत्यौ स्त्रीरूपे वा दिव्ये दिविभवे मही महत्यौ बर्हिषदा बर्हिषि सीदन्त्यौ पुरुहूते बहुभिः स्तुते मघोनी धनवत्यौ यज्ञियेयज्ञार्हे उषासानक्ता अहोरात्रे सुदुघेव धेनुः कामधुग्धेनुरिव नोस्मान् सुविताय कल्याणाय आश्रयेताम् ॥ ६ ॥

7.2.7
विप्रा᳚ य॒ज्ञेषु॒ मानु᳚षेषु का॒रू मन्ये᳚ वां जा॒तवे᳚दसा॒ यज᳚ध्यै ।
ऊ॒र्ध्वं नो᳚ अध्व॒रं कृ᳚तं॒ हवे᳚षु॒ ता दे॒वेषु᳚ वनथो॒ वार्या᳚णि ॥
▶ पदपाठः (Word-by-word)
विप्रा᳚ । य॒ज्ञेषु᳚ । मानु᳚षेषु । का॒रू इति᳚ । मन्ये᳚ । वा॒म् । जा॒त॑वे᳚दसा । यज᳚ध्यै ।
ऊ॒र्ध्वम् । नः॒ । अ॒ध्व॒रम् । कृ॒त॒म् । हवे᳚षु । ता । दे॒वेषु᳚ । व॒न॒थः॒ । वार्या᳚णि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे दैव्यौ होतारौ विप्रा मेधाविनौ जातवेदसा जातधनौ मानुषेषु मनुष्यैः क्रियमाणेषु यज्ञेषु कारू कर्मणां कर्तारौ वां युवां यजध्यै यष्टुं मन्येस्तौमि । किं च हवेषु हवनेषु स्तोत्रेषु सत्सु नोस्माकमध्वरमकुटिलं यज्ञं ऊर्ध्वं देवाभिमुखं कृतं कुरुतम् । च उपिच ता तौ युवां देवेषु विद्यमानानिवार्याणि धनानि वनथः संभजथः तान्यस्मभ्यं संप्रयच्छथइत्यर्थः ॥ ७ ॥

7.2.8
आ भार᳚ती॒ भार᳚तीभिः स॒जोषा॒ इळा᳚ दे॒वैर्म᳚नु॒ष्ये᳚भिर॒ग्निः ।
सर᳚स्वती सारस्व॒तेभि᳚र॒र्वाक्ति॒स्रो दे॒वीर्ब॒र्हिरेदं स᳚दन्तु ॥
▶ पदपाठः (Word-by-word)
आ । भार᳚ती । भर᳚तीभिः । स॒॑जोषाः᳚ । इळा᳚ । दे॒वैः । म॒नु॒ष्ये᳚भिः । अ॒ग्निः ।
सर᳚स्वती । सा॒र॒स्व॒तेभिः᳚ । अ॒र्वाक् । ति॒स्रः । दे॒वीः । ब॒र्हिः । आ । इ॒दम् । स॒द॒न्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एतदादि ऋक् चतुष्टयं द्वितीयाष्टकस्याष्टमाध्याये यद्यपि व्याख्यातं तथापि व्यवधानात् संक्षेपतोत्रापि व्याख्यायते । भारती भरतस्यादित्यस्यपत्नी भारतीभिः सजोषाः सहिता इळा मनुष्येभिः मनुष्यलोकभवैः देवैः सार्धं अर्वागस्मदभिमुखमागच्छतु आगत्य तिस्रोदेवीः देव्यः प्रथमार्थेद्वितीया बर्हिरिदमासदन्तु ॥ ८ ॥

7.2.9
तन्न᳚स्तु॒रीप॒मध᳚ पोषयि॒त्नु देव᳚ त्वष्ट॒र्वि र᳚रा॒णः स्य᳚स्व ।
यतो᳚ वी॒रः क᳚र्म॒ण्य᳚ः सु॒दक्षो᳚ यु॒क्तग्रा᳚वा॒ जाय᳚ते दे॒वका᳚मः ॥
▶ पदपाठः (Word-by-word)
तत् । नः॒ । तु॒रीप᳚म् । अध᳚ । पो॒ष॒यि॒त्नु । देव᳚ । त्व॒ष्टः॒ । वि । र॒रा॒णः । स्य॒स्वेति᳚ स्यस्व ।
यतः᳚ । वी॒रः । क॒र्म॒ण्यः᳚ । सु॒॑दक्षः᳚ । यु॒क्त॑ग्रा᳚वा । जाय᳚ते । दे॒व॑का᳚मः ॥
▶ सायणभाष्यम् (Sayana Commentary)

देव द्योतमान हे त्वष्टः रराणो रममाणस्त्वं नोस्माकं तुरीपं त्वरितमाप्नुवत् पोषयित्नु पोषकरं तद्रेतः विस्यस्व विशेषणावसानं प्रापय विमोचयेत्यर्थः । यतोरेतसः कर्मण्यः कर्मसु साधुः सुदक्षः सुबलो युक्तग्रावा सोमसुत् देवकामो वीरः पुत्रो जायते ॥ ९ ॥

7.2.10
वन᳚स्प॒ते॑व᳚ सृ॒जोप᳚ दे॒वान॒ग्निर्ह॒विः श᳚मि॒ता सू᳚दयाति ।
सेदु॒ होता᳚ स॒त्यत᳚रो यजाति॒ यथा᳚ दे॒वानां॒ जनि᳚मानि॒ वेद᳚ ॥
▶ पदपाठः (Word-by-word)
वन᳚स्पते । अव᳚ । सृ॒ज॒ । उप᳚ । दे॒वान् । अ॒ग्निः । ह॒विः । श॒मि॒ता । सू॒द॒या॒ति॒ ।
सः । इत् । ऊं॒ इति᳚ । होता᳚ । स॒त्य॑त᳚रः । य॒जा॒ति॒ । यथा᳚ । दे॒वाना᳚म् । जनि᳚मानि । वेद᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वनस्पते देवानुपावसृज । अथ परोक्षस्तुतिः अग्निर्वनस्पतिः शमिता शामित्ररूपःसन् हविः सूदयाति प्रेरयतु सेत् सएव वनस्पतिः होता देवानामाह्वाता सत्यतरोपिसन् यजाति यजतु देवानां जनिमानि जननानि यथा स्वयं वेद तथा ॥ १० ॥

7.2.11
आ या᳚ह्यग्ने समिधा॒नो अ॒र्वाङिन्द्रे᳚ण दे॒वैः स॒रथं᳚ तु॒रेभि᳚ः ।
ब॒र्हिर्न᳚ आस्ता॒मदि᳚तिः सुपु॒त्रा स्वाहा᳚ दे॒वा अ॒मृता᳚ मादयन्ताम् ॥
▶ पदपाठः (Word-by-word)
आ । या॒हि॒ । अ॒ग्ने॒ । स॒म्॑इ॒धा॒नः । अ॒र्वाङ् । इन्द्रे᳚ण । दे॒वैः । स॒॑रथ᳚म् । तु॒रेभिः᳚ ।
ब॒र्हिः । नः॒ । आ॒स्ता॒म्् । अदि᳚तिः । सु॒॑पु॒त्रा । स्वाहा᳚ । दे॒वाः । अ॒मृताः᳚ । मा॒द॒य॒न्ता॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने समिधान समिध्यमानः अर्वाङ्स्मदभिमुखस्त्वं इन्द्रेण तुरेभिः त्वरितैर्देवैश्च सरथं समानरथं यथा भवति तथा आयाहि आगच्छ नोस्माकं बर्हिरध्यास्ताम् । अदितिश्च सुपुत्राः कल्याणपुत्राः स्वाहा देवाश्च् सर्वे अमृताः सन्तोमादयन्तामिति ॥ ११ ॥

अग्निंवोदेवमिति दशर्चं तृतीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाग्नेयं अत्रेयमनुक्रमणिका-अग्निंवोदशेति अग्निंवोदेवमित्येतदादीनि दशसूक्तानि तृतीयचतुर्थवर्जितानि प्रातरनुवाके आग्नेये क्रतौ त्रैष्टुभे छन्दसि आश्विनशस्त्रे च विनियुक्तानि सूत्रितंच-अग्निंवोदेवमिति दशानां तृतीयचतुर्थेउद्धरेदिति । व्युह्ळे दशरात्रेष्टमेहनीदं सूक्तं आज्यशस्त्रं सूत्र्यते हि-द्वितीयस्याग्निंवोदेवमित्याज्यमिति ।