नवमं मण्डलम् - सूक्तम् 1

10 ऋचः

ऋषिः: मधुच्छंदाः देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.1 - सम्पूर्णम्

1 / 10
ऋक्: 9.1.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
9.1.1
स्वादि᳚ष्ठया॒ मदि᳚ष्ठया॒ पव᳚स्व सोम॒ धार᳚या ।
इन्द्रा᳚य॒ पात᳚वे सु॒तः ॥
▶ पदपाठः (Word-by-word)
स्वादि᳚ष्ठया । मदि᳚ष्ठया । पव᳚स्व । सो॒म॒ । धार᳚या ।
इन्द्रा᳚य । पात᳚वे । सु॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम इन्द्राय पातवे पातुं सुतोभिषुतस्त्वं स्वादिष्ठया स्वादुतमया मदिष्ठया अतिशवेन मादयित्र्या धारया पवस्व क्षर ॥ १ ॥

9.1.2
र॒क्षो॒हा वि॒श्वच᳚र्षणिर॒भि योनि॒मयो᳚हतम् ।
द्रुणा᳚ स॒धस्थ॒मास᳚दत् ॥
▶ पदपाठः (Word-by-word)
र॒क्षः॒॑हा । वि॒श्व॑च᳚र्षणिः । अ॒भि । योनि᳚म् । अयः᳚॑हतम् ।
द्रुणा᳚ । स॒ध॑स्थ᳚म् । आ । अ॒स॒द॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

रक्षोहा रक्षसां हन्ता विश्वचर्षणिः विश्वस्यद्रष्टा सोमः अयोहतं हिरण्येनहतम् । तथाचब्राह्मणं-हिरण्यपाणिरभिषुणोतीति । द्रुणा द्रोणकलशेन अधिषवणफलकाभ्यां वा सधस्थं सहस्थानं योनिं अभिषवस्थानं अभ्यासदत् अभ्यासीदति ॥ २ ॥

9.1.3
व॒रि॒वो॒धात᳚मो भव॒ मंहि᳚ष्ठो वृत्र॒हन्त᳚मः ।
पर्षि॒ राधो᳚ म॒घोना᳚म् ॥
▶ पदपाठः (Word-by-word)
व॒रि॒वः॒॑धात᳚मः । भ॒व॒ । मंहि᳚ष्ठः । वृ॒त्र॒हन्॑त᳚मः ।
पर्षि᳚ । राधः᳚ । म॒घोना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं वरिवोधातमः अतिशयेन धनानां दाता भव । देवः वरिव इति धननामसुपाठात् । मंहिष्ठो दातृतमश्च भव सर्वदातृत्वमत्रोच्यत इत्यपुनरुक्तिः । वृत्रहन्तमोतिशयेन शत्रूणां हन्ता भव । किंच मघोनां धनवतां शत्रूणां राधोधनंच पर्षि अस्मभ्यं प्रयच्छ ॥ ३ ॥

9.1.4
अ॒भ्य᳚र्ष म॒हानां᳚ दे॒वानां᳚ वी॒तिमन्ध᳚सा ।
अ॒भि वाज᳚मु॒त श्रवः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒भि । अ॒र्ष॒ । म॒हाना᳚म् । दे॒वाना᳚म् । वी॒तिम् । अन्ध᳚सा ।
अ॒भि । वाज᳚म् । उ॒त । श्रवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं महानां महतां देवानां वीतिं यज्ञं अन्धसा धानाद्यन्नेनसह अभ्यर्ष अभिगच्छ । उतापिच अभिगच्छंस्त्वं वाजं बलं श्रवोन्नं वा अभिगमयास्मानित्यर्थः ॥ ४ ॥

9.1.5
त्वामच्छा᳚ चरामसि॒ तदिदर्थं᳚ दि॒वेदि᳚वे ।
इन्दो॒ त्वे न᳚ आ॒शसः᳚ ॥
▶ पदपाठः (Word-by-word)
त्वाम् । अच्छ᳚ । च॒रा॒म॒सि॒ । तत् । इत् । अर्थ᳚म् । दि॒वे॑दि᳚वे ।
इन्दो॒ इति᳚ । त्वे इति᳚ । नः॒ । आ॒॑शसः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो यागेषु क्लिद्यमान सोम त्वामच्छ त्वां प्रति चरामसि वयं चरामः । दिवेदिवे प्रतिदिनं अस्माकं तदित् तदेव तत्परिचरणमेवार्थं कार्यं नान्यत्कारणमस्ति । नोस्माकं आशसः आशंसनान्यपि त्वे त्वय्येव । नान्यत्र ॥ ५ ॥

9.1.6
पु॒नाति᳚ ते परि॒स्रुतं॒ सोमं॒ सूर्य᳚स्य दुहि॒ता ।
वारे᳚ण॒ शश्व᳚ता॒ तना᳚ ॥
▶ पदपाठः (Word-by-word)
पु॒नाति᳚ । ते॒ । प॒रि॒॑स्रुत᳚म् । सोम᳚म् । सूर्य᳚स्य । दु॒हि॒ता ।
वारे᳚ण । शश्व᳚ता । तना᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम ते तव परिस्रुतं क्षरन्तं सोमं सोमरसं सूर्यस्य दुहिता श्रद्धादेवी वारेण बलेन शश्वता शश्वतेन तना विस्तृतेन पुनाति । तथाच वाजसनेयिनआमनन्ति-श्रद्धावैसूर्यस्यदुहिता श्रद्धाह्येनंपुनातीति ॥ ६ ॥

9.1.7
तमी॒मण्वी᳚ः सम॒र्य आ गृ॒भ्णन्ति॒ योष᳚णो॒ दश᳚ ।
स्वसा᳚र॒ः पार्ये᳚ दि॒वि ॥
▶ पदपाठः (Word-by-word)
तम् । ई॒म् । अण्वीः᳚ । स॒॑म॒र्ये । आ । गृ॒भ्णन्ति᳚ । योष᳚णः । दश᳚ ।
स्वसा᳚रः । पार्ये᳚ । दि॒वि ॥
▶ सायणभाष्यम् (Sayana Commentary)

समर्ये समनुष्ये यज्ञे पार्ये दिवि सौत्येहनि योषणः स्त्रियः स्वसारः स्वयंसरन्त्यो दशसंख्याकाः अण्वीः अण्व्योंगुलयः । अग्रुवः अण्व्यइत्यंगुलिनाम- सुपाठात् । तमीं तमेनं सोमं आगृभ्णन्ति आगृह्णन्ति ॥ ७ ॥

9.1.8
तमीं᳚ हिन्वन्त्य॒ग्रुवो॒ धम᳚न्ति बाकु॒रं दृति᳚म् ।
त्रि॒धातु᳚ वार॒णं मधु᳚ ॥
▶ पदपाठः (Word-by-word)
तम् । ई॒म् । हि॒न्व॒न्ति॒ । अ॒ग्रुवः᳚ । धम᳚न्ति । बा॒कु॒रम् । दृति᳚म् ।
त्रि॒॑धातु᳚ । वा॒र॒णम् । मधु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तमीं एनं सोमं अग्रुवोंगुलयोहिन्वन्ति अभिषवदेशं प्रति प्रेरयन्ति । प्रेरयित्वाच बाकुरं भासमानं दृतिं दृतिसदृशांशुमेनं सोमं धमन्ति अभिषु- ण्वन्तिच । युद्यपि धमतिरभिषवणकर्मा नभवति तथाप्यौचित्यादत्राभिषवपरोभविष्यति । तदेतत्सोमात्मकं मधु वस्तु त्रिधातु त्रिस्थानम् । द्रोणकलशः आधवनीयः पूतभृदिति त्रिधातवः । वारणं शत्रूणां वारकंच भवति ॥ ८ ॥

9.1.9
अ॒भी॒३॒᳚ममघ्न्या᳚ उ॒त श्री॒णन्ति᳚ धे॒नव॒ः शिशु᳚म् ।
सोम॒मिन्द्रा᳚य॒ पात᳚वे ॥
▶ पदपाठः (Word-by-word)
अ॒भि । इ॒मम् । अघ्न्याः᳚ । उ॒त । श्री॒णन्ति᳚ । धे॒नवः᳚ । शिशु᳚म् ।
सोम᳚म् । इन्द्रा᳚य । पात᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच इममेनं शिशुं बालं सोमं अघ्न्याः अहन्तव्या धेनवोगावः इन्द्राय पातवे पातुमभिश्रीणन्ति स्वकीयेन पयसा संस्कुर्वन्तीत्यर्थः ॥ ९ ॥

9.1.10
अ॒स्येदिन्द्रो॒ मदे॒ष्वा विश्वा᳚ वृ॒त्राणि᳚ जिघ्नते ।
शूरो᳚ म॒घा च᳚ मंहते ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । इत् । इन्द्रः᳚ । मदे᳚षु । आ । विश्वा᳚ । वृ॒त्राणि᳚ । जि॒घ्न॒ते॒ ।
शूरः᳚ । म॒घा । च॒ । मं॒ह॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

शूरो वीरइन्द्रः अस्येत् अस्य सोमस्यैव मदेषु विश्वा विश्वानि वृत्राणि शत्रून् आजिघ्रते आहन्ति । मघा मघानि धनानिच मंहते यजमानेभ्यः प्रयच्छति ॥ १० ॥

पवस्वेति दशर्चं द्वितीयं सूक्तं काण्वस्य मेधातिथेरार्षं गायत्रं पवमानसोमदेवताकम् । तथाचानुक्रान्तं-पवस्वमेध्यातिथिरिति । उक्तोविनियोगः ।