गृ॒भ्णाति᳚ रि॒प्रमवि᳚रस्य॒ तान्वा᳚ शु॒द्धो दे॒वाना॒मुप᳚ याति निष्कृ॒तम् ॥
पदपाठः (Word-by-word)
गृ॒भ्णाति᳚ । रि॒प्रम् । अविः᳚ । अ॒स्य॒ । तान्वा᳚ । शु॒द्धः । दे॒वाना᳚म् । उप᳚ । या॒ति॒ । निः॒॑कृ॒तम् ॥
सायणभाष्यम् (Sayana Commentary)
राजा राजमानोयं सोमोभिषूयमाणः सन् वाचं शब्दं जनयन् उत्पादयन् असिष्यदत्प्र स्यन्दते । तथा अपोवसतीवरीर्वसानः आच्छादयन् गाः स्तुतीः अभि इयक्षति अभिग्च्छति इयक्षतिर्गतिकर्मसुपठितः अस्यसोमस्य रिप्रं अनुपादेयत्वेन पापरूपं अभिषुतवल्लीशकला- दिरूपं अविरविरोमनिर्मितं दशापवित्रं तान्वा स्वीयेन वस्त्रेण गृभ्णाति गृह्णाति शोधन- समये पश्चात् शुद्धोदेवानां निष्कृतं संस्कृतंस्थानं उपयाति उपगच्छति ॥ १ ॥