नवमं मण्डलम् - सूक्तम् 34

6 ऋचः

ऋषिः: त्रितः देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.34 - सम्पूर्णम्

1 / 6
ऋक्: 9.34.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
9.34.1
प्र सु᳚वा॒नो धार᳚या॒ तनेन्दु᳚र्हिन्वा॒नो अ᳚र्षति ।
रु॒जद्दृ॒ळ्हा व्योज᳚सा ॥
▶ पदपाठः (Word-by-word)
प्र । सु॒वा॒नः । धार᳚या । तना᳚ । इन्दुः᳚ । हि॒न्वा॒नः । अ॒र्ष॒ति॒ ।
रु॒जत् । दृ॒ळ्हा । वि । ओज᳚सा ॥
▶ सायणभाष्यम् (Sayana Commentary)

इंदुः सोमः सुवानः सूयमानः हिन्वानोध्वर्युणा प्रेर्यमाणो धारया तना पवित्रं प्रार्षति गच्छति । अथ प्रत्यक्षेणोच्यते दृह्ळा दृढान्यपि शत्रुपुराणि ओजसा बलेन विरुजत् विरुजति विश्लथयति ॥ १ ॥

9.34.2
सु॒त इन्द्रा᳚य वा॒यवे॒ वरु᳚णाय म॒रुद्भ्य᳚ः ।
सोमो᳚ अर्षति॒ विष्ण᳚वे ॥
▶ पदपाठः (Word-by-word)
सु॒तः । इन्द्रा᳚य । वा॒यवे᳚ । वरु᳚णाय । म॒रुत्॑भ्यः᳚ ।
सोमः᳚ । अ॒र्ष॒ति॒ । विष्ण᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं सुतोभिषुताः सोम इन्द्राद्यर्थं अर्षति गच्छति इन्द्राय वायवे वरुणाय मरुद्भ्यश्च विष्णवेच अर्षति गच्छति ॥ २ ॥

9.34.3
वृषा᳚णं॒ वृष᳚भिर्य॒तं सु॒न्वन्ति॒ सोम॒मद्रि᳚भिः ।
दु॒हन्ति॒ शक्म᳚ना॒ पयः᳚ ॥
▶ पदपाठः (Word-by-word)
वृषा᳚णम् । वृष᳚॑भिः । य॒तम् । सु॒न्वन्ति᳚ । सोम᳚म् । अद्रि᳚॑भिः ।
दु॒हन्ति᳚ । शक्म᳚ना । पयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

बृषाणं रससेक्तारं यतं नियतं सोमं वृषभीरसस्यवर्षकैरद्रिभिर्ग्रावभिः सुन्वन्ति शक्मना कर्मणा दुहंत्यध्वर्य्वादयः पयः सोमरसम् । सोमं पयोदुह- न्तीति द्विकर्मकोयम् ॥ ३ ॥

9.34.4
भुव᳚त्त्रि॒तस्य॒ मर्ज्यो॒ भुव॒दिन्द्रा᳚य मत्स॒रः ।
सं रू॒पैर᳚ज्यते॒ हरि᳚ः ॥
▶ पदपाठः (Word-by-word)
भुव᳚त् । त्रि॒तस्य᳚ । मर्ज्यः᳚ । भुव᳚त् । इन्द्रा᳚य । म॒त्स॒रः ।
सम् । रू॒पैः । अ॒ज्य॒ते॒ । हरिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्रितस्य सूक्तद्रष्टुरृषेः सोयं मत्सरो मदकरः सोमो मर्ज्यो भुवत् शुद्धोभवति तस्य यागार्थं शेषपानार्थंच तथा इन्द्रायेन्द्रपानाय मर्ज्योभुवत् रूपै रूपकैश्च क्षीरादिभिर्हरिर्हरितवर्णः सोमः समज्यते ॥ ४ ॥

9.34.5
अ॒भीमृ॒तस्य᳚ वि॒ष्टपं᳚ दुह॒ते पृश्नि᳚मातरः ।
चारु᳚ प्रि॒यत᳚मं ह॒विः ॥
▶ पदपाठः (Word-by-word)
अ॒भि । ई॒म् । ऋ॒तस्य᳚ । वि॒ष्टप᳚म् । दु॒ह॒ते । पृश्नि᳚॑मातरः ।
चारु᳚ । प्रि॒य॑त᳚मम् । ह॒विः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ईमेनं सोमं ऋतस्य विष्टपं स्थानं यज्ञाश्रयमित्यर्थः तादृशं पृश्निमातरोमरुतोभिदुहते । किंप्रियतममिन्द्रादीनां हविर्होमसाधनं चारु रमणीयं सोमं मरुत्प्रेरितवृष्ट्या सोमवृद्धेस्तद्दोग्धृत्वं ॥ ५ ॥

9.34.6
समे᳚न॒मह्रु᳚ता इ॒मा गिरो᳚ अर्षन्ति स॒स्रुतः᳚ ।
धे॒नूर्वा॒श्रो अ᳚वीवशत् ॥
▶ पदपाठः (Word-by-word)
सम् । ए॒न॒म् । अह्रु᳚ताः । इ॒माः । गिरः᳚ । अ॒र्ष॒न्ति॒ । स॒॑स्रुतः᳚ ।
धे॒नूः । वा॒श्रः । अ॒वी॒व॒श॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

समर्षन्ति संगच्छन्ते एनं सोमं अह्रुता अकुटिलागिरोस्मदीयाःस्तुतयः सस्रुतः सरंत्यः ताश्च धेनूः प्रीणयित्र्यः स्तुतीर्वाश्रः शब्दयन् अवीवशत् कामयते सोमः ॥ ६ ॥

आनइति षळृचमेकादशं सूक्तं आंगिरसस्य प्रभूवसोरार्षं गायत्रं पवमानसोमदेवताकम् । अनुक्रान्तंच-आनःपवस्वप्रभूवसुरिति । गतोविनियोगः ।