नवमं मण्डलम् - सूक्तम् 24

7 ऋचः

ऋषिः: असितः काश्यपो देवलो वा देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.24 - सम्पूर्णम्

1 / 7
ऋक्: 9.24.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
9.24.1
प्र सोमा᳚सो अधन्विषु॒ः पव᳚मानास॒ इन्द᳚वः ।
श्री॒णा॒ना अ॒प्सु मृ᳚ञ्जत ॥
▶ पदपाठः (Word-by-word)
प्र । सोमा᳚सः । अ॒ध॒न्वि॒षुः॒ । पव᳚मानासः । इन्द᳚वः ।
श्री॒णा॒नाः । अ॒प्॑सु । मृ॒ञ्ज॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पसोमासइति सप्तर्चं चतुर्विंशं सूक्तं असितोदेवलोवाऋषिः गायत्रीछन्दः सोमोदेवता प्रसोमासइत्यनुक्रान्तम् । गतोविनियोगः । सोमासः सोमाः पवमानासः पूयमाना इन्दवोदीप्ताः सोमाः प्रधन्विषुः धन्वतिर्गतिकर्मा प्रगच्छन्ति । किंच श्रीणानां गोभिः श्रयमाणाः अप्सु वसतीवरीषु च मूंजत मृज्यन्ते ॥ १ ॥

9.24.2
अ॒भि गावो᳚ अधन्विषु॒रापो॒ न प्र॒वता᳚ य॒तीः ।
पु॒ना॒ना इन्द्र᳚माशत ॥
▶ पदपाठः (Word-by-word)
अ॒भि । गावः᳚ । अ॒ध॒न्वि॒षुः॒ । आपः᳚ । न । प्र॒॑वता᳚ । य॒तीः ।
पु॒ना॒नाः । इन्द्र᳚म् । आ॒श॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गावो गमनशीलाइन्दवः अभ्यधन्विषु अभिग्छन्ति दशापवित्रम् । किमिव प्रवता पवणवता देशेन यन्तीर्गच्छन्त्य आपोच यन्तीर्गच्छन्त्य आपोन आपइव पश्चात्पुनाना इन्द्रं प्रीणयितुं आशत व्याप्नुवन् आहुतिं प्रणाड्येन्द्र मेववाव्याप्नुवन् ॥ २ ॥

9.24.3
प्र प᳚वमान धन्वसि॒ सोमेन्द्रा᳚य॒ पात᳚वे ।
नृभि᳚र्य॒तो वि नी᳚यसे ॥
▶ पदपाठः (Word-by-word)
प्र । प॒व॒मा॒न॒ । ध॒न्व॒सि॒ । सोम᳚ । इन्द्रा᳚य । पात᳚वे ।
नृ॑भिः᳚ । य॒तः । वि । नी॒य॒से॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पवमानसोम इन्द्रायेन्द्रस्य पातवे पानाय प्रधन्वसि प्रगच्छसि आहवनीयंप्रति हविर्धानात् । तदेवाह-नृभिर्नेतृभिरृत्विग्भिर्यतो विनोतो विनीयसे हविर्धानात् । अथवा पवमान प्रधन्वसि पात्रं प्रति इन्द्रपानाय तदर्थं हविर्धानाद्विनीयसे ॥ ३ ॥

9.24.4
त्वं सो᳚म नृ॒माद᳚न॒ः पव᳚स्व चर्षणी॒सहे᳚ ।
सस्नि॒र्यो अ᳚नु॒माद्य᳚ः ॥
▶ पदपाठः (Word-by-word)
त्वम् । सो॒म॒ । नृ॒॑माद᳚नः । पव᳚स्व । च॒र्ष॒णि॒॑सहे᳚ ।
सस्निः᳚ । यः । अ॒नु॒॑माद्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं नृमादनः नृणां मादयिता त्वं चर्षणीसहे चर्षणयोमनुष्याद्वेष्टारः तेषां समभिभवित्रे इन्द्राय पवस्व क्षर । यस्त्वं सस्निः शुद्धःअनुमाद्यः स्तुत्यः सपवस्वेति समन्वयः ॥ ४ ॥

9.24.5
इन्दो॒ यदद्रि᳚भिः सु॒तः प॒वित्रं᳚ परि॒धाव᳚सि ।
अर॒मिन्द्र᳚स्य॒ धाम्ने᳚ ॥
▶ पदपाठः (Word-by-word)
इन्दो॒ इति᳚ । यत् । अद्रि᳚॑भिः । सु॒तः । प॒वित्र᳚म् । प॒रि॒॑धाव᳚सि ।
अर᳚म् । इन्द्र᳚स्य । धाम्ने᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो त्वं यद्यदा अद्रिभिर्ग्रावभिः सुतोभिषुतः पवित्रं दशापवित्रं परिधावसि परिगच्छसि । तदा इन्द्रस्य धाम्ने स्थानायाधारकाय उदराय वा अरं पर्याप्तोभवसि ॥ ५ ॥

9.24.6
पव᳚स्व वृत्रहन्तमो॒क्थेभि᳚रनु॒माद्य᳚ः ।
शुचि᳚ः पाव॒को अद्भु᳚तः ॥
▶ पदपाठः (Word-by-word)
पव᳚स्व । वृ॒त्र॒ह॒न्॑त॒म॒ । उ॒क्थेभिः᳚ । अ॒नु॒॑माद्यः᳚ ।
शुचिः᳚ । पा॒व॒कः । अद्भु᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृत्रहन्तम शत्रूणां अतिशयेन हन्तरिन्द्र त्वं पवस्व क्षर । कीदृशस्त्वं उक्थेभिः शस्त्रैः अनुमाद्यः स्तुत्यः शुचिः शुद्धः पावकः अन्यस्यशोधकः अद्भुतो महान् एवं महानुभावः पवस्व ॥ ६ ॥

9.24.7
शुचि᳚ः पाव॒क उ᳚च्यते॒ सोमः᳚ सु॒तस्य॒ मध्व᳚ः ।
दे॒वा॒वीर᳚घशंस॒हा ॥
▶ पदपाठः (Word-by-word)
शुचिः᳚ । पा॒व॒कः । उ॒च्य॒ते॒ । सोमः᳚ । सु॒तस्य᳚ । मध्वः᳚ ।
दे॒व॒॑अ॒वीः । अ॒घ॒शं॒स॒॑हा ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुतस्याभिषुतस्य मध्वः मदकरस्य वल्यात्मकः सोमोरसरूपः शुचिः स्वयं शुद्धः पावकः शोधकश्चोच्यते । तथा देवावीः देवानामविता तर्पयिता अघशंसहा अघं पापं शंसंतीत्यघशंसा असुराः तेषां हन्तेति चोच्यते ॥ ७ ॥

द्वितीयेनुवाके षट्त्रिंशत्सूक्तानि तत्र पवस्वेति षळृचं प्रथमं सूक्तं दृह्ळच्युतनाम्नोगस्त्यपुत्रस्यार्षं गायत्रं पवमानसोमदेवताकम् । अनुक्रान्तंच-पवस्वषट् दृह्ळच्युतआगस्त्यइति । गतोविनियोगः ।