नवमं मण्डलम् - सूक्तम् 36

6 ऋचः

ऋषिः: प्रभूवसुः देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.36 - सम्पूर्णम्

1 / 6
ऋक्: 9.36.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
9.36.1
अस᳚र्जि॒ रथ्यो᳚ यथा प॒वित्रे᳚ च॒म्वो᳚ः सु॒तः ।
कार्ष्म᳚न्वा॒जी न्य᳚क्रमीत् ॥
▶ पदपाठः (Word-by-word)
अस᳚र्जि । रथ्यः᳚ । य॒था॒ । प॒वित्रे᳚ । च॒म्वोः᳚ । सु॒तः ।
कार्ष्म᳚न् । वा॒जी । नि । अ॒क्र॒मी॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

रथ्योयथा रथसंबन्धीअश्वइव सयथा विसृज्यते तद्वत् मम्वेरधिषवणफलकयोः सुतोभिषुतः सोमः असर्जि सृष्टोभूत् पवित्रे । तथा भूतोवाजी वेजनवान् सोमख्योश्वः कार्ष्मन् कार्ष्मयुद्धं इतरेतरघर्षणात् अत्र देवानामाकर्षणवति यज्ञाख्ये संग्रामे न्यक्रमीत् नितरां क्रामयति ॥ १ ॥

9.36.2
स वह्नि᳚ः सोम॒ जागृ᳚वि॒ः पव᳚स्व देव॒वीरति᳚ ।
अ॒भि कोशं᳚ मधु॒श्चुत᳚म् ॥
▶ पदपाठः (Word-by-word)
सः । वह्निः᳚ । सो॒म॒ । जागृ᳚विः । पव᳚स्व । दे॒व॒॑वीः । अति᳚ ।
अ॒भि । कोश᳚म् । म॒धु॒॑श्चुत᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम सवह्निर्वाहकः जागृविर्जागरूको देववीर्देवकामस्त्वं मधुश्चतं मधुस्राविकोशं दशापवित्रमतिक्रम्याभिपवस्व द्रोणकलशं प्रति क्षर ॥ २ ॥

9.36.3
स नो॒ ज्योतीं᳚षि पूर्व्य॒ पव᳚मान॒ वि रो᳚चय ।
क्रत्वे॒ दक्षा᳚य नो हिनु ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । ज्योतीं᳚षि । पू॒र्व्य॒ । पव᳚मान । वि । रो॒च॒य॒ ।
क्रत्वे᳚ । दक्षा᳚य । नः॒ । हि॒नु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पूर्व्य पुराण पवमान सोम सत्वं नोस्माकं ज्योतींषि दिव्यानि स्थानानि विरोचय प्रकाशय । किंच क्रत्वे कर्मणे यागाय दक्षाय बलाय बलप्रदाय यागायवा नोस्मान् हिनु प्रेरय ॥ ३ ॥

9.36.4
शु॒म्भमा᳚न ऋता॒युभि᳚र्मृ॒ज्यमा᳚नो॒ गभ᳚स्त्योः ।
पव᳚ते॒ वारे᳚ अ॒व्यये᳚ ॥
▶ पदपाठः (Word-by-word)
शु॒म्भमा᳚नः । ऋ॒त॒यु॑भिः᳚ । मृ॒ज्यमा᳚नः । गभ᳚स्त्योः ।
पव᳚ते । वारे᳚ । अ॒व्यये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतायुभिः यज्ञकामैः ऋत्विग्भिः शुंभमानोलंक्रियमाणः तेषामेव गभस्त्योर्हस्तयोर्मृज्यमानः सोमः अव्यये अविमये वारे वाले दशापवित्रे पवते पूयते ॥ ४ ॥

9.36.5
स विश्वा᳚ दा॒शुषे॒ वसु॒ सोमो᳚ दि॒व्यानि॒ पार्थि᳚वा ।
पव᳚ता॒मान्तरि᳚क्ष्या ॥
▶ पदपाठः (Word-by-word)
सः । विश्वा᳚ । दा॒शुषे᳚ । वसु᳚ । सोमः᳚ । दि॒व्यानि᳚ । पार्थि᳚वा ।
पव᳚ताम् । आ । अ॒न्तरि᳚क्ष्या ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोभिषूयमाणः सोमोदाशुषे हविर्दात्रे विश्वा सर्वाणि वसु वसूनि धनानि आपवतां प्रयच्छतु । विश्वानीत्युक्तस्य विवरणं शिष्टम् । दिव्यानि दिविभवानि पार्थिवा पृथिवीसंबन्धीनि अंतरिक्ष्या अन्तरिक्षेभवानिच पवतां ॥ ५ ॥

9.36.6
आ दि॒वस्पृ॒ष्ठम᳚श्व॒युर्ग᳚व्य॒युः सो᳚म रोहसि ।
वी॒र॒युः श᳚वसस्पते ॥
▶ पदपाठः (Word-by-word)
आ । दि॒वः । पृ॒ष्ठम् । अ॒श्व॒॑युः । ग॒व्य॒॑युः । सो॒म॒ । रो॒ह॒सि॒ ।
वी॒र॒॑युः । श॒व॒सः॒ । प॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं स्तोतॄणां अश्वयुरश्वमिच्छन् गच्ययुर्गाइच्छन् वीरयुः पुत्रानिच्छन् दिवः पृष्ठं द्युलोकमारोहसि आहुतिद्वारा हे शवसस्पते अन्नस्यपालक ॥ ६ ॥

ससुतइति षळृचं त्रयोदशं सूक्तं रहूगणस्यार्षं गायत्रं सौम्यं अनुक्रमयतेच-ससुतोरहूगणइति । गतोविनियोगः ।