नवमं मण्डलम् - सूक्तम् 105

6 ऋचः

ऋषिः: पर्वतनारदौ देवता: पवमानः सोमः छन्दः: उष्णिक्

सूक्तम् 9.105 - सम्पूर्णम्

1 / 6
ऋक्: 9.105.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
9.105.1
तं वः᳚ सखायो॒ मदा᳚य पुना॒नम॒भि गा᳚यत ।
शिशुं॒ न य॒ज्ञैः स्व᳚दयन्त गू॒र्तिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
तम् । वः॒ । स॒खा॒यः॒ । मदा᳚य । पु॒ना॒नम् । अ॒भि । गा॒य॒त॒ ।
शिशु᳚म् । न । य॒ज्ञैः । स्व॒द॒य॒न्त॒ । गू॒र्ति॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सखायः ऋत्विजोवोयूयं मदाय देवानां मदार्थं पुनानं पूयमानं तं अभिगायत अभिष्टुत तमिमं सोमं शिशुंन शिशुमिवालंकारैः क्षीरादिभिश्च यथा स्वादूकुर्वन्ति तद्वत् । यज्ञैर्हविर्भिर्मिश्रणैः गूर्तिभिः स्तुतिभिश्च स्वदयन्त स्वादूकुर्वन्ति ॥ १ ॥ प्रवर्ग्येभिष्टवे संवत्सइवमातृभिरित्येका । सूत्रंच—समीवत्समित्यनया सहोक्तम् ।

9.105.2
सं व॒त्स इ᳚व मा॒तृभि॒रिन्दु᳚र्हिन्वा॒नो अ᳚ज्यते ।
दे॒वा॒वीर्मदो᳚ म॒तिभि॒ः परि᳚ष्कृतः ॥
▶ पदपाठः (Word-by-word)
सम् । व॒त्सः॑इ᳚व । मा॒तृ॑भिः᳚ । इन्दुः᳚ । हि॒न्वा॒नः । अ॒ज्य॒ते॒ ।
दे॒व॒॑अ॒वीः । मदः᳚ । म॒ति॑भिः᳚ । परि᳚॑कृतः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हिन्वानः प्रेर्यमाणः इंदुःसोमः वसतीवरीभिः समज्यते सम्यक् सिक्तोभवति । तत्र दृष्टान्तः—वत्सइव वत्सोयथा मातृभिः गोभिः समक्तोभवति तद्वत् । कीदृशः देवावीः देवा नां रक्षकः मदोमदकरः मतिभिः स्तुतिभिः परिष्कृतोलंकृतः भूषणार्थे संपर्युपेभ्यइति सुडागमः परिनिविभ्यइतिसुटः षत्वं ॥ २ ॥

9.105.3
अ॒यं दक्षा᳚य॒ साध᳚नो॒॑यं शर्धा᳚य वी॒तये᳚ ।
अ॒यं दे॒वेभ्यो॒ मधु᳚मत्तमः सु॒तः ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । दक्षा᳚य । साध᳚नः । अ॒यम् । शर्धा᳚य । वी॒तये᳚ ।
अ॒यम् । दे॒वेभ्यः᳚ । मधु᳚मत्॑तमः । सु॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं सोमः दक्षाय बलाय वर्धनाय वा साधनः साधयिता भवति । तथा यं सोमः शर्धाय वेगार्थ वीतये देवानां भक्षणार्थंच भवति सुतः अभिषुतोयं सोमः देवेभ्यइन्द्रादि- भ्योमधुमत्तमः अतिशयेन माधुर्ययुक्तोभवति । अत्यन्तं मदकरोभवतीतिवा ॥ ३ ॥

9.105.4
गोम᳚न्न इन्दो॒ अश्व᳚वत्सु॒तः सु᳚दक्ष धन्व ।
शुचिं᳚ ते॒ वर्ण॒मधि॒ गोषु᳚ दीधरम् ॥
▶ पदपाठः (Word-by-word)
गो॑म᳚त् । नः॒ । इ॒न्दो॒ इति᳚ । अश्व᳚॑वत् । सु॒तः । सु॒॑द॒क्ष॒ । ध॒न्व॒ ।
शुचि᳚म् । ते॒ । वर्ण᳚म् । अधि᳚ । गोषु᳚ । दी॒ध॒र॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सुदक्ष सुबल हे इन्दो सोम सुतोभिषुतस्त्वं नोस्माकं गोमत् यज्ञसाधनगोयुक्तं अश्ववदश्वयुक्तं धनं धन्व गमय धविर्गत्यर्थः भूवादिः । ततोहं शुचिं पूतं दीप्यमानंव ते तव वर्णं रसं गोषु गव्येषु क्षीरादिषु अधिदीधरं अधिधारयामि मिश्रयामि ॥ ४ ॥

9.105.5
स नो᳚ हरीणां पत॒ इन्दो᳚ दे॒वप्स᳚रस्तमः ।
सखे᳚व॒ सख्ये॒ नर्यो᳚ रु॒चे भ᳚व ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । ह॒री॒णा॒म् । प॒ते॒ । इन्दो॒ इति᳚ । दे॒वप्स᳚रः॑तमः ।
सखा᳚॑इव । सख्ये᳚ । नर्यः᳚ । रु॒चे । भ॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे हरीणां पते नः अस्मदीयानां हरितवर्णानां पशूनां स्वामिन् हे इन्दो सोम देव- प्सरस्तमः अतिशयेन दीप्तरूपोपेतः सत्वं नर्यः कर्मनेतृभ्यः ऋत्विग्भ्यः हितः सत्वं नो- स्माकं रुचे भव दीप्तिकरोभव । किमिव सखेव यथा सखासख्ये मित्राय दीप्तिकरोभवति तद्वत् ॥ ५ ॥

9.105.6
सने᳚मि॒ त्वम॒स्मदा{4} अदे᳚वं॒ कं चि᳚द॒त्रिण᳚म् ।
सा॒ह्वा{4} इ᳚न्दो॒ परि॒ बाधो॒ अप᳚ द्व॒युम् ॥
▶ पदपाठः (Word-by-word)
सने᳚मि । त्वम् । अ॒स्मत् । आ । अदे᳚वम् । कम् । चि॒त् । अ॒त्रिण᳚म् ।
सा॒ह्वान् । इ॒न्दो॒ इति᳚ । परि᳚ । बाधः᳚ । अप᳚ । द्व॒युम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं सनेमि पुराणं सख्यं अस्मदस्मासु कुरु । आ अपिच अदेवं अदेवनशीलं कंचिदपि अत्रिणमदनशीलं राक्षसं अस्मदस्मत्तोपगमय । किंच हे इन्दो साह्वान् शत्रून- भिभवन् बाधोबाधमानान् परिजहि । तथा द्वयुं द्वयवंतं सत्यानृतयुक्तं बाह्याभ्यन्तरमा- याद्वयोपेतं वा राक्षसं अस्मत्तोपगमय ॥ ६ ॥

इन्द्रमच्छेति चतुर्दशर्चं तृतीयं सूक्तं औष्णिहं पवमानसोमदेवताकम् । प्रथमतृचस्य चक्षु राख्यपुत्रोग्निरृषिं द्वितीयस्य मनुपुत्रश्चक्षुर्नामा अप्सुनाम्नः पुत्रोमनुस्तृतीयस्य एवंनवर्चोगताः शिष्टानामपि पंचानां चाक्षुषोग्निः । तथाचानुक्रम्यते—इन्द्रमच्छषळूनाग्निश्चाक्षुषश्चक्षुर्मान- वोमनुराप्सवइति तृचाः पंचाग्निरिति । गतोविनियोगः ।