नवमं मण्डलम् - सूक्तम् 91

6 ऋचः

ऋषिः: कश्यपः देवता: पवमानः सोमः छन्दः: त्रिष्टुप्

सूक्तम् 9.91 - सम्पूर्णम्

1 / 6
ऋक्: 9.91.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
9.91.1 समानपद
अस᳚र्जि॒ वक्वा॒ रथ्ये॒ यथा॒जौ धि॒या म॒नोता᳚ प्रथ॒मो म᳚नी॒षी ।
दश॒ स्वसा᳚रो॒ अधि॒ सानो॒ अव्ये॑ज᳚न्ति॒ वह्निं॒ सद᳚ना॒न्यच्छ᳚ ॥
▶ पदपाठः (Word-by-word)
अस᳚र्जि । वक्वा᳚ । रथ्ये᳚ । यथा᳚ । आ॒जौ । धि॒या । म॒नोता᳚ । प्र॒थ॒मः । म॒नी॒षी ।
दश᳚ । स्वसा᳚रः । अधि᳚ । सानौ᳚ । अव्ये᳚ । अज᳚न्ति । वह्नि᳚म् । सद᳚नानि । अच्छ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यनिःश्वसितंवेदा योवेदेभ्योखिलंजगत् । निर्ममे तमहंवन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

तृतीयं श्रुतितत्वज्ञः सप्तमस्याष्टकस्यसः । व्याख्याय सायणामात्यश्चतुर्थं व्याचिकीर्षति ॥ २ ॥

तत्रासर्जीति षळृचमष्टमंसूक्तं मारीचस्य कश्यपस्यार्पं त्रैष्टुभं पवमानसोमदेवताकम् । असर्जिकश्यपइत्यनुक्रान्तम् । गतोविनियोगः ।

/ वक्वा शब्दायमानः वचपरिभाषणे वनिप् । एतादृशः पवमानः सोमः आजौ अजन्ति कर्मार्थमृत्विजइति आजिर्यज्ञः । तस्मिन् धिया कर्मणा स्तोत्रेणवा साकं असर्जि सृज्यते पात्रेष्विति । तत्र दृष्टान्तः—रथ्ये रथार्हे आजौ संग्रामनामैतत् । अजन्ति प्रक्षिपंत्यायुधा- न्यग्रेसि तस्मिन् अश्वो यथा धिया अंगुल्या मृज्यते तद्वत् । कीदृशः मनोता यस्मिन्देवा- नां मनांसि ओतानि प्रोतानि सः । तथाचब्राह्मणं—तस्मिन्हितेषांमनांस्योतानीति । प्रथमः सर्वेषां देवानांमुख्यः मनीषी मनसईषा मनीषा स्तुतिः तद्वान् दश स्वसारः दशसंख्याका अंगुलयः सदबानि यज्ञगृहाणि अच्छाभिमुखीकृत्य वह्निं वोढारं सोमं सानौ समुच्छ्रिते । अधिः सप्तम्यर्थानुवादः । अव्ये अविभवे अविवालेन कृते पवित्रे अजन्ति प्रेरयन्ति । अजगतिक्षेपणयोः ॥ १ ॥

9.91.2
वी॒ती जन᳚स्य दि॒व्यस्य᳚ क॒व्यैरधि᳚ सुवा॒नो न᳚हु॒ष्ये᳚भि॒रिन्दु᳚ः ।
प्र यो नृभि᳚र॒मृतो॒ मर्त्ये᳚भिर्मर्मृजा॒नो॑वि᳚भि॒र्गोभि᳚र॒द्भिः ॥
▶ पदपाठः (Word-by-word)
वी॒ती । जन᳚स्य । दि॒व्यस्य᳚ । क॒व्यैः । अधि᳚ । सु॒वा॒नः । न॒हु॒ष्ये᳚भिः । इन्दुः᳚ ।
प्र । यः । नृ॑भिः᳚ । अ॒मृतः᳚ । मर्त्ये᳚भिः । म॒र्मृ॒जा॒नः । अवि᳚॑भिः । गोभिः᳚ । अ॒त्॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

कव्यैः साधुभिः स्तोतृभिः नहुष्येभिर्मनुष्यैः सुवानः अभिषूयमाणः इंदुः सोमः दिव्यस्य दिविभवस्य जनस्य देवगणस्य वीती सुपांसुलुगिति चतुर्थ्याःपूर्वसवर्णदीर्घः सोम भक्षणार्थं यज्ञमधिगच्छति । किंच अमृतः मरणधर्मरहितोयः सोमः नृभिः कर्मनेतृभिः मर्त्येभिः मर्त्यैः अविभिरविमयैः पवित्रैः तथा गोभिरानडुहैः अधिषवणचर्मभिः । यद्वा गोविकारैः क्षीरादिभिः अद्भिःवसतीवर्यादिभिरुदकैश्च मर्मृजानः भृशंशोध्यमानःसन् यज्ञंप्रति गच्छति । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥ २ ॥

9.91.3
वृषा॒ वृष्णे॒ रोरु᳚वदं॒शुर᳚स्मै॒ पव᳚मानो॒ रुश᳚दीर्ते॒ पयो॒ गोः ।
स॒हस्र॒मृक्वा᳚ प॒थिभि᳚र्वचो॒विद᳚ध्व॒स्मभि॒ः सूरो॒ अण्वं॒ वि या᳚ति ॥
▶ पदपाठः (Word-by-word)
वृषा᳚ । वृष्णे᳚ । रोरु᳚वत् । अं॒शुः । अ॒स्मै॒ । पव᳚मानः । रुश᳚त् । ई॒र्ते॒ । पयः᳚ । गोः ।
स॒हस्र᳚म् । ऋक्वा᳚ । प॒थि॑भिः᳚ । व॒चः॒॑वित् । अ॒ध्व॒स्म॑भिः᳚ । सूरः᳚ । अण्व᳚म् । वि । या॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषा कामानांवर्षकः वृषेवाचरन्वा रोरुवत् भृशंशब्दायमानः अंशुः सोमः पवमानः पूयमानः सन् अस्मै वृष्णै वर्षकायेन्द्राय तदर्थं रुशत् रोचतेरिदंरूपम् । आरोचमानं श्वेतं गोः पय आश्रयणद्रव्यं ईर्ते गच्छति ईरगतौ आदादिकः । किंच ऋक्वा छन्दसीवनिपाविति मत्वर्थीयोवनिप् स्तोत्रवान् अतएव वचोवित् स्तुतीनांज्ञाता सूरः सुवीर्यः सर्वेषामग्निष्टो- मादिकर्मप्रेरकः सोमः अध्वस्मभिः ध्वंसनवर्जितैः हिंसारहितैः सहस्रं पथिभिर्बहुभिर्मार्गैः अण्वं सूक्ष्मच्छिद्रं पवित्रं वियाति अतीत्य द्रोणकलशं गच्छति ॥ ३ ॥

9.91.4
रु॒जा दृ॒ळ्हा चि᳚द्र॒क्षस॒ः सदां᳚सि पुना॒न इ᳚न्द ऊर्णुहि॒ वि वाजा᳚न् ।
वृ॒श्चोपरि᳚ष्टात्तुज॒ता व॒धेन॒ ये अन्ति᳚ दू॒रादु᳚पना॒यमे᳚षाम् ॥
▶ पदपाठः (Word-by-word)
रु॒ज । दृ॒ळ्हा । चि॒त् । र॒क्षसः᳚ । सदां᳚सि । पु॒ना॒नः । इ॒न्दो॒ इति᳚ । ऊ॒र्णु॒हि॒ । वि । वाजा᳚न् ।
वृ॒श्च । उ॒परि᳚ष्टात् । तु॒ज॒ता । व॒धेन᳚ । ये । अन्ति᳚ । दू॒रात् । उ॒प॒॑ना॒यम् । ए॒षा॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम दृह्ळाचित् दृढान्यपि परैरगन्तव्यत्वेन रक्षसोराक्षसस्य सदांसि स्थानानि पुराणि रुज विनाशय । रुजोभंगे तौदादिकः । किंच हे इन्दो पवमानः पुनानः पवित्रा- दिभिः पूयमानस्त्वं वाजान् अन्नानि तस्य बलानिवा विविधं ऊर्णुहि आच्छादय आह- रेत्यर्थः । तथा येराक्षसा उपरिष्टादूर्ध्वदेशादागच्छन्ति ये वा अन्तिके समीपे आगच्छन्ति ये च दूरात् दूरदेशाद्वा आगच्छन्ति येषां राक्षसानां उपनायं उपनेतारं स्वामिनं तुजता तुजतिर्हिंसाकर्मा । हिंसकेन वधेन हननसाधनेनायुधेन त्वं वृश्च छिन्धि । ओव्रश्चूछेदने तौदादिकः ॥ ४ ॥

9.91.5
स प्र᳚त्न॒वन्नव्य᳚से विश्ववार सू॒क्ताय᳚ प॒थः कृ᳚णुहि॒ प्राचः᳚ ।
ये दु॒ःषहा᳚सो व॒नुषा᳚ बृ॒हन्त॒स्ता{4}स्ते᳚ अश्याम पुरुकृत्पुरुक्षो ॥
▶ पदपाठः (Word-by-word)
सः । प्र॒त्न॒॑वत् । नव्य᳚से । वि॒श्व॒॑वा॒र॒ । सु॒॑उ॒क्ताय᳚ । प॒थः । कृ॒णु॒हि॒ । प्राचः᳚ ।
ये । दुः॒॑सहा᳚सः । व॒नुषा᳚ । बृ॒हन्तः᳚ । तान् । ते॒ । अ॒श्या॒म॒ । पु॒रु॒॑कृ॒त् । पु॒रु॒क्षो॒ इति᳚ पुरु॑क्षो ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विश्ववार विश्वैः सर्वैर्वरणीय हे सोम तादृशास्त्वं प्रत्नवत् पुराणइव स्थितस्त्वं नव्यसे नवीयसे नवतराय नवशब्दादीयसुनीकारलोपश्छांदसः । तस्मै सूक्ताय शोभन- स्तुतिकाय मह्यं पथोमार्गान् प्राचः प्राचीनान् कृणुहि कुरु सर्वत्रगमनं प्रयच्छेत्यर्थः । कृविहिंसाकरणयोः धिन्विकृण्व्योरचेत्युप्रत्ययः । हेपुरुकृत् बहुकर्मन् हेपुरुक्षो टुक्षुशब्दे मितद्र्वादित्वात् डुप्रत्ययः । बहुविधं शब्दायमान हेसोम दुःसहासः रक्षोभिःसोडुमशक्याः अतएव वनुषा वनतिर्हिंसार्थः । हिंसयायुक्ताः बृहन्तोमहान्तः येत्वदीया अंशाःसन्ति तान् ते तव स्वभूतान् अंशान् वयं यज्ञे अश्याम प्राप्नुयाम ॥ ५ ॥

9.91.6
ए॒वा पु᳚ना॒नो अ॒पः स्व१॒᳚र्गा अ॒स्मभ्यं᳚ तो॒का तन᳚यानि॒ भूरि᳚ ।
शं न॒ः क्षेत्र᳚मु॒रु ज्योतीं᳚षि सोम॒ ज्योङ्न॒ः सूर्यं᳚ दृ॒शये᳚ रिरीहि ॥
▶ पदपाठः (Word-by-word)
ए॒व । पु॒ना॒नः । अ॒पः । स्वः᳚ । गाः । अ॒स्मभ्य᳚म् । तो॒का । तन᳚यानि । भूरि᳚ ।
शम् । नः॒ । क्षेत्र᳚म् । उ॒रु । ज्योतीं᳚षि । सो॒म॒ । ज्योक् । नः॒ । सूर्य᳚म् । दृ॒शये᳚ । रि॒री॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम एव एवं पुनानः पूयमानः पवित्रादिभिः अस्मभ्यं रिरीहि प्रापय प्रयच्छ । किं नत् अपः अपइत्यन्तरिक्षनाम आप्नोति सर्वमपि अन्तरिक्षं स्वः स्वर्गं द्युलोकं गाः सर्वैर्गम्यते अत्रेतिगावः पृथिव्यः ताः पृथिवीश्ड्च भूरि सुपांसुलुगिति द्वितीयायालुक् । बहून् तोका तोकान् तनयानि तन्वन्ति कुलमिति तनयाः पौत्राः तांश्च तथा नोस्मभ्यं क्षेत्रं शं सुखकरं कुरु । हेसोम ज्योतींषि नक्षत्राणि उरु उरूणि अन्तरिक्षे विस्तीर्णानि- कुरु । तथा नोस्मभ्यं सूर्यमादित्यं ज्योक् चिरनामैतत् चिरकालं दृशये द्रष्टुं कुरु ॥ ‍६ ॥

परिसुवानइति षळृचंसप्तमंसूक्तं मारीचस्यकश्यपस्यार्षं त्रैष्टुभं पवमानसोमदेवताकम् । परिसुवानइत्यनुक्रान्तं गतोविनियोगः ।