द॒ध्ना यदी॒मुन्नी᳚ता य॒शसा॒ गवां᳚ दा॒नाय॒ शूर᳚मु॒दम᳚न्दिषुः सु॒ताः ॥
पदपाठः (Word-by-word)
द॒ध्ना । यत् । ई॒म् । उत्॑नी᳚ताः । य॒शसा᳚ । गवा᳚म् । दा॒नाय᳚ । शूर᳚म् । उ॒त्॑अम᳚न्दिषुः । सु॒ताः ॥
सायणभाष्यम् (Sayana Commentary)
सोमस्य पवमानस्य पूयमानस्य ऊर्मयोरसप्रवाहः इन्द्रस्य जठरं प्रयन्ति प्रगच्छन्ति सुपेशसः सुरूपाऊर्मयइतिसंबंधः यद्यदा ईमेतेसुताअभिषुताः सोमाः गवां यशसा बलभूतेन दध्नासदोन्नीताः सन्तोदानाय यजमानविषयाभिमतदानाय शूरं विक्रान्तमिन्द्रं उदमन्दिषुः उन्मादयन्ति तदा जठरंयन्ति ॥ १ ॥