श्रवणम्

9.81.4
आ नः᳚ पू॒षा पव᳚मानः सुरा॒तयो᳚ मि॒त्रो ग᳚च्छन्तु॒ वरु᳚णः स॒जोष᳚सः ।
बृह॒स्पति᳚र्म॒रुतो᳚ वा॒युर॒श्विना॒ त्वष्टा᳚ सवि॒ता सु॒यमा॒ सर᳚स्वती ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । पू॒षा । पव᳚मानः । सु॒॑रा॒तयः᳚ । मि॒त्रः । ग॒च्छ॒न्तु॒ । वरु᳚णः । स॒॑जोष᳚सः ।
बृह॒स्पतिः᳚ । म॒रुतः᳚ । वा॒युः । अ॒श्विना᳚ । त्वष्टा᳚ । स॒वि॒ता । सु॒॑यमा᳚ । सर᳚स्वती ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुरातयः सुदानाः सजोषसः संगताः पूषादयोदेवा आगच्छन्तु नोस्मानस्माकंयज्ञंवा । तथा सुयमा यम्यते नियम्यतइति यमोविग्रहः सुविग्रहा सरस्वती चागच्छतु ॥ ४ ॥