नवमं मण्डलम् - सूक्तम् 112

4 ऋचः

ऋषिः: शिशुः देवता: पवमानः सोमः छन्दः: पंक्तिः

सूक्तम् 9.112 - सम्पूर्णम्

1 / 4
ऋक्: 9.112.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (4)
9.112.1
ना॒ना॒नं वा उ᳚ नो॒ धियो॒ वि व्र॒तानि॒ जना᳚नाम् ।
तक्षा᳚ रि॒ष्टं रु॒तं भि॒षग्ब्र॒ह्मा सु॒न्वन्त᳚मिच्छ॒तीन्द्रा᳚येन्दो॒ परि᳚ स्रव ॥
▶ पदपाठः (Word-by-word)
ना॒ना॒नम् । वै । ऊं॒ इति᳚ । नः॒ । धियः᳚ । वि । व्र॒तानि᳚ । जना᳚नाम् ।
तक्षा᳚ । रि॒ष्टम् । रु॒तम् । भि॒षक् । ब्र॒ह्मा । सु॒न्वन्त᳚म् । इ॒च्छ॒ति॒ । इन्द्रा᳚य । इ॒न्दो॒ इति᳚ । परि᳚ । स्र॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषिः एतदादिभिः त्रिभिः सूक्तैः अपरिस्रवतः सोमस्य जामित्वाय मनसोविनोदनं कुर्वन्नाह । हे सोम नोस्माकं धियः कर्माणि नानानं नानाजातीयकानि बहूनि भवन्ति वैशब्दः प्रसिद्धार्थद्योतनार्थः उइति पूरणः । तथा अन्येषामपि जनानां व्रतानि कर्माणि विविधानि भवंति तक्षा त्वष्टा रिष्टं दारुतक्षणमिच्छति तथा भिषक् वैद्यः चिकित्सकः रुतं रोगमिच्छति ब्रह्मा ब्राह्मणः सुन्वन्तं सोमाभिषवं कुर्वन्तं यजमानमिच्छति । तथा अहं त्वत्परिस्रवणं इच्छामि । तस्मात् हे इन्दो सोम इन्द्रायेन्द्रार्थं परिस्रव परितः क्षर ॥ १ ॥

9.112.2
जर᳚तीभि॒रोष᳚धीभिः प॒र्णेभि᳚ः शकु॒नाना᳚म् ।
का॒र्मा॒रो अश्म᳚भि॒र्द्युभि॒र्हिर᳚ण्यवन्तमिच्छ॒तीन्द्रा᳚येन्दो॒ परि᳚ स्रव ॥
▶ पदपाठः (Word-by-word)
जर᳚तीभिः । ओष᳚धीभिः । प॒र्णेभिः᳚ । श॒कु॒नाना᳚म् ।
का॒र्मा॒रः । अश्म᳚॑भिः । द्यु॑भिः᳚ । हिर᳚ण्य॑वन्तम् । इ॒च्छ॒ति॒ । इन्द्रा᳚य । इ॒न्दो॒ इति᳚ । परि᳚ । स्र॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

जरतीभिः जीर्णाभिः याभिरोषधीभिः इषवः क्रियन्ते । तथा शकुनानां पर्णेभिः इषू- णां पक्षभूतैः पर्णैश्च क्रियन्ते । तथा द्युभिर्दीप्ताभिरिषूणां तेजनार्थाभिरश्मभिः शिलाभिश्च क्रियन्ते तएतैः कार्मारोयस्कारः हिरण्यवन्तं आढ्यं पुरुषमिच्छति तथाहं त्वत्परिस्रवण- मिच्छामि । तस्मात् इन्दो इन्द्राय परिस्रव ॥ २ ॥

9.112.3
का॒रुर॒हं त॒तो भि॒षगु᳚पलप्र॒क्षिणी᳚ न॒ना ।
नाना᳚धियो वसू॒यवो॑नु॒ गा इ᳚व तस्थि॒मेन्द्रा᳚येन्दो॒ परि᳚ स्रव ॥
▶ पदपाठः (Word-by-word)
का॒रुः । अ॒हम् । त॒तः । भि॒षक् । उ॒प॒ल॒॑प्र॒क्षिणी᳚ । न॒ना ।
नाना᳚॑धियः । व॒सु॒॑यवः᳚ । अनु᳚ । गाः॑इ᳚व । त॒स्थि॒म॒ । इन्द्रा᳚य । इ॒न्दो॒ इति᳚ । परि᳚ । स्र॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषिः प्रवृत्तसोमयागः सन् दशापवित्रात् सोमे क्षरति तत्प्रतिबन्धकपापापनुत्तये पुर- श्चरितानुकीर्तनपुरः सरं अध्येषणां चकार । तावदहं कारुः स्तोमानां कर्तास्मि ततइति सन्ताननाम । तन्यतेस्मादिति ततः पिता तन्यते साविति वा ततः पुत्रः भिषक् भेषजकृ- त् यज्ञस्य ब्रह्मेत्यर्थः । सर्वं त्रय्या विद्यया भिषज्यतीतिश्रुतेः । तथा उपलप्रक्षिणी उपले- षु वालुकासु प्रक्षिणोति यवान् हिनस्ति भृज्जतीति यद्वा दृषदादिषूपलेषु भृष्टान् यवान् हिनस्ति चूर्णयतीति । अथवा धानासक्तुकरंभादीनां कारिकावा असौ नना माता दुहिता वा नमनक्रियायोग्यत्वात् माता खलु अपत्यं प्रति स्तनपानादिना नमनशीला भवति दुहितावा शुश्रूषार्थं एवं सर्वेषां परिचरणेन नानाधियः नानाकर्माणः वसूयवोधनकामावयं अनुतस्थिम लोकमन्वास्थितास्मः । तत्र दृष्टान्तः—गाइव छान्दसोजसःशसादेशः गावोयथा गोष्ठमनुतिष्ठन्ति स्वपयःप्रदानेन परिचरन्तिवा एवं वयमपि परिचरामः । एतत् ज्ञात्वा हे इन्दो सोम इन्द्राय परिस्रव दशापवित्रात् क्षर एवमेषाध्येषणा सत्कारपूर्विका व्यापा- रणा । अत्र निरुक्तं—उपलप्रक्षिण्युपलेषु प्रक्षिणात्युपलप्रक्षेपिणीवाकारुरहमस्मिकर्तास्तोमा- नांततोभिषक् ततइतिसंताननामपितुर्वापुत्रस्यवोपलप्रक्षिणीसक्तुकारिकाननानमतेर्मातावादु- हितावानानाधियोनानाकर्माणोवसूयवोवसुकामाअन्वास्थितास्मोगावइवलोकमिति ॥ ३ ॥

9.112.4
अश्वो॒ वोळ्हा᳚ सु॒खं रथं᳚ हस॒नामु᳚पम॒न्त्रिणः᳚ ।
शेपो॒ रोम᳚ण्वन्तौ भे॒दौ वारिन्म॒ण्डूक᳚ इच्छ॒तीन्द्रा᳚येन्दो॒ परि᳚ स्रव ॥
▶ पदपाठः (Word-by-word)
अश्वः᳚ । वोळ्हा᳚ । सु॒खम् । रथ᳚म् । ह॒स॒नाम् । उ॒प॒॑म॒न्त्रिणः᳚ ।
शेपः᳚ । रोम᳚ण्॑वन्तौ । भे॒दौ । वाः । इत् । म॒ण्डूकः᳚ । इ॒च्छ॒ति॒ । इन्द्रा᳚य । इ॒न्दो॒ इति᳚ । परि᳚ । स्र॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वोह्ळा लक्षं देशं प्रापयन्नश्वः सुखं कल्याणं रथमिच्छति उपमंत्रिणः उपमंत्रवन्तो नर्मसचिवाः हसनां उपहसनां वाचमिच्छन्ति तथा शेपः । शेपोवैतसइतिपुंस्प्रजननस्येति- यास्कः । यथा शेपः रोमण्वन्तौ भेदाविच्छति । मंडूकः वारित् इदवधारणे उदकमेवेच्छ- ति तथा हं त्वत् परिस्रवणमिच्छामि तस्मादिन्द्रायेन्दोपरिस्रवेति ॥ ४ ॥

शर्यणावतीत्येकादशर्चं दशमं सूक्तं मारीचस्य कश्यपस्यार्षं पूर्वत्रहीत्युक्तत्वात् इदमु- त्तरंच पांक्तं पवमानसोमदेवताकम् । तथाचानुक्रम्यते—शर्यणावत्येकादशकाश्यपइति । गतोविनियोगः ।