नवमं मण्डलम् - सूक्तम् 103

6 ऋचः

ऋषिः: द्वित आप्त्यः देवता: पवमानः सोमः छन्दः: उष्णिक्

सूक्तम् 9.103 - सम्पूर्णम्

1 / 6
ऋक्: 9.103.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
9.103.1
प्र पु᳚ना॒नाय᳚ वे॒धसे॒ सोमा᳚य॒ वच॒ उद्य᳚तम् ।
भृ॒तिं न भ᳚रा म॒तिभि॒र्जुजो᳚षते ॥
▶ पदपाठः (Word-by-word)
प्र । पु॒ना॒नाय᳚ । वे॒धसे᳚ । सोमा᳚य । वचः᳚ । उत्॑य᳚तम् ।
भृ॒तिम् । न । भ॒र॒ । म॒ति॑भिः᳚ । जुजो᳚षते ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्वितोनामऋषिः स्वात्मानं प्रत्याह । पुनानाय पवित्रेण पूयमानाय वेधसे कर्मणोवि- धात्रेमतिभिर्जुजोषते प्रीयमाणाय । यद्वा मतिभिः स्तुतिभिः स्तोतृभिः सह जुजोषते प्रीणयित्रे सोमाय उद्यतमुद्युक्तं वचः प्रभर प्रकर्षेण संपादय अभिष्टुहीत्यर्थः । तत्र दृष्टान्तः—भृतिंन यथा भृतकाभृतिं संपादयन्ति तद्वत् ॥ १ ॥

9.103.2
परि॒ वारा᳚ण्य॒व्यया॒ गोभि᳚रञ्जा॒नो अ᳚र्षति ।
त्री ष॒धस्था᳚ पुना॒नः कृ᳚णुते॒ हरि᳚ः ॥
▶ पदपाठः (Word-by-word)
परि᳚ । वारा᳚णि । अ॒व्यया᳚ । गोभिः᳚ । अ॒ञ्जा॒नः । अ॒र्ष॒ति॒ ।
त्री । स॒ध॑स्था᳚ । पु॒ना॒नः । कृ॒णु॒ते॒ । हरिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गोभिर्गोविकारैः क्षीरादिभिः अंजानः अज्यमानः सोमः अव्यया अविमयानि वाराणि वालानि पवित्राणि पर्यर्षति परिगच्छति । अपिच हरिर्हरितवर्णः सोमः पुनानः पूयमानः सन् त्री त्रीणि सधस्था सहतिष्ठंत्यत्रेति सधस्थं स्थानं द्रोणकलशाधवनीयपूतभृदात्मकानि त्रीणि स्थानानि कृणुते करोति ॥ २ ॥

9.103.3
परि॒ कोशं᳚ मधु॒श्चुत᳚म॒व्यये॒ वारे᳚ अर्षति ।
अ॒भि वाणी॒रृषी᳚णां स॒प्त नू᳚षत ॥
▶ पदपाठः (Word-by-word)
परि᳚ । कोश᳚म् । म॒धु॒॑श्चुत᳚म् । अ॒व्यये᳚ । वारे᳚ । अ॒र्ष॒ति॒ ।
अ॒भि । वाणीः᳚ । ऋषी᳚णाम् । स॒प्त । नू॒ष॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ससोमः अव्यये अविमये वारे वाले पवित्रे मधुश्चुतं मधुररसस्य च्यावयितारं कोशं द्रोणकलशं प्रति आत्मीयं रसं पर्यर्षति गमयति तमिमं सोमं ऋषीणां सप्तवाणीः छन्दां- सि अभिनूषत अभिष्टुवन्ति । नूस्तवने कुटादिः ॥ ३ ॥

9.103.4 समानपद
परि᳚ णे॒ता म᳚ती॒नां वि॒श्वदे᳚वो॒ अदा᳚भ्यः ।
सोमः᳚ पुना॒नश्च॒म्वो᳚र्विश॒द्धरि᳚ः ॥
▶ पदपाठः (Word-by-word)
परि᳚ । ने॒ता । म॒ती॒नाम् । वि॒श्व॑दे᳚वः । अदा᳚भ्यः ।
सोमः᳚ । पु॒ना॒नः । च॒म्वोः᳚ । वि॒श॒त् । हरिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हरिर्हरितवर्णः ससोमः पुनानः पूयमानः सन् चम्वोरधिषवणफलकयोः परिविशत् परिविशति । कीदृशः मतीनां स्तुतीनां नेता यद्वा मतीनां स्तोतॄणां स्वकर्मणि उपनेता विश्वदेवः सर्वदेवः सोमेभिषूयमाणे सति इन्द्रादयः सर्वेदेवाः सोमं प्रत्यागच्छन्तिखलु त- स्मात् सर्वदेवोपेतः अतएव अदाभ्यः अहिंस्यः कैश्चिदपि ॥ ४ ॥

9.103.5
परि॒ दैवी॒रनु᳚ स्व॒धा इन्द्रे᳚ण याहि स॒रथ᳚म् ।
पु॒ना॒नो वा॒घद्वा॒घद्भि॒रम᳚र्त्यः ॥
▶ पदपाठः (Word-by-word)
परि᳚ । दैवीः᳚ । अनु᳚ । स्व॒धाः । इन्द्रे᳚ण । या॒हि॒ । स॒॑रथ᳚म् ।
पु॒ना॒नः । वा॒घत् । वा॒घत्॑भिः᳚ । अम᳚र्त्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं इन्द्रेण सरथं समानं रथमारुह्य दैवीः देवानां संबन्धीनि स्वधाः बलानि अनु देवसेनाः परियाहि परिगच्छ । कीदृशः पुनानः पूयमानः वाघद्भिः वाघतइति ऋत्विङ्गाम हविषां प्रेरकैरृत्विग्भिर्वाघत् ऊह्यमानां अमर्त्यः मनुष्यधर्मरहितः यद्वा वाघ- द्भिरृत्विग्भिः पुनानः पूयमानः वाघत् स्तोतॄणां यष्टॄणां धनादीनि प्रापयन् परिगच्छ ॥ ५ ॥

9.103.6
परि॒ सप्ति॒र्न वा᳚ज॒युर्दे॒वो दे॒वेभ्य᳚ः सु॒तः ।
व्या॒न॒शिः पव᳚मानो॒ वि धा᳚वति ॥
▶ पदपाठः (Word-by-word)
परि᳚ । सप्तिः᳚ । न । वा॒ज॒॑युः । दे॒वः । दे॒वेभ्यः᳚ । सु॒तः ।
वि॒॑आ॒न॒शिः । पव᳚मानः । वि । धा॒व॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सप्तिर्न अश्वइव वाजयुः युद्धमिच्छन् देवोदीप्यमानः देवेभ्योदेवार्थं सुतोभिषुतः व्यान शिः पात्रेषु व्यापी पवमानः पवित्रेण पूयमानः एतादृशः सोमः विविधं परिधावति प- रितः पात्राण्यभिगच्छति । व्यानशिः अशूव्याप्तौ आदृगमहनेत्यत्र उत्सर्गश्छन्दसि सदादि- भ्यो दर्शनादिति कित् प्रत्ययः अश्नोतेश्चेति नुडागमः ॥ ६ ॥

सप्तमेनुवाके एकादशसूक्तानि तत्र सखायइति षळृचं प्रथमं सूक्तं काण्वौ पर्वतनार- दावृषी । अथवा कश्यपस्यपुत्र्यौ शिखंडिन्याख्ये द्वे अप्सरसावस्य सूक्तस्य द्रष्ट्र्यौ पूर्व- वच्छन्दोदेवते । तथानुक्रम्यते—सखायः पर्वतनारदौ काश्यपौ द्वेशिखंडिन्यौ वाप्सरसा- विति । गतः सूक्तविनियोगः ।