अ॒भि दे॒वा{4} अ॒यास्य᳚ः ॥
पदपाठः (Word-by-word)
अ॒भि । दे॒वान् । अ॒यास्यः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
यस्य निःश्वसितं वेदा योवेदेभ्योखिलंजगत् । नर्ममे तमहं वंदे विद्यातीर्थमहेश्वरम् ॥ १ ॥
अथ सप्तमाष्टकस्य प्रथमोध्यायाअरभ्यते । प्रणइति षळृचं विंशं सूक्तं आंगिरसस्या यास्यस्यार्षं गायत्रं पवमानसोमदेवताकं तथाचानुक्रान्तं—प्रणोयास्यइति । गतोविनियोगः ।
हे इन्द्रो सोम त्वं नोस्माकं महे महते तने धनाय प्रार्षसि प्रगच्छसि । न संप्रति अया- स्यः स्वयं ऋषिस्तवोर्मिं तरंगं बिभ्रत् धारयन् देवानभिगच्छति यष्टुं ॥ १ ॥