स नो᳚ अ॒द्य वसु᳚त्तये क्रतु॒विद्गा᳚तु॒वित्त᳚मः ।
वाजं᳚ जेषि॒ श्रवो᳚ बृ॒हत् ॥
वाजं᳚ जेषि॒ श्रवो᳚ बृ॒हत् ॥
पदपाठः (Word-by-word)
सः । नः॒ । अ॒द्य । वसु᳚त्तये । क्र॒तु॒॑वित् । गा॒तु॒वित्॑त᳚मः ।
वाज᳚म् । जे॒षि॒ । श्रवः᳚ । बृ॒हत् ॥
वाज᳚म् । जे॒षि॒ । श्रवः᳚ । बृ॒हत् ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम क्रतुवित् क्रतूनां कर्मणां लंभको गातुवित्पूण्यलोकानां अतिशयेन मार्गस्य ज्ञाता त्वं अद्यास्मिन्नहनि नोस्माकं वसुत्तये धनलाभाय बृहन्महत् श्रवोन्नं वाजं बलंच जेषि जय ॥ ६ ॥
सपवस्वेति षळृचं एकविंशं सूक्तं ऋष्याद्याः पूर्ववत् सपवस्वेत्यनुक्रान्तम् । गतोविनि- योगः ।