च॒त्वार्य॒न्या भुव᳚नानि नि॒र्णिजे॒ चारू᳚णि चक्रे॒ यदृ॒तैरव᳚र्धत ॥
पदपाठः (Word-by-word)
च॒त्वारि᳚ । अ॒न्या । भुव᳚नानि । निः॒॑निजे᳚ । चारू᳚णि । च॒क्रे॒ । यत् । ऋ॒तैः । अव᳚र्धत ॥
सायणभाष्यम् (Sayana Commentary)
अस्मे पवमानाय पूर्व्ये पूर्वैःकृते व्योमनि विविधंओम अवनं गमनं देवानामतेति व्योम यज्ञः तस्मिन् स्थिताय यद्वा प्रत्ने व्योमन्यन्तरिक्षे वर्तमानाय त्रिःसप्त एकविंशति- संख्याकाधेनवः प्रीणयित्र्योगावः सत्यां यथार्थभूतामाशिरमाश्रयणसाधनं क्षीरादि दुदुह्रे दुहन्ति । यद्वात्रिःसप्त—द्वादशमासाः पंचर्तवस्त्रयइमेलोकाअसावादित्यएकविंशइति । एतैः सर्वैःसह गोषु पयउत्पाद्यते तत् गावोदुहन्तइति । किंच अयं सोमः अन्या अन्यानि चत्वा रिभुवनानि उदकानि वसतीवरीस्तिस्रश्चेकधनाइति तानि चतुःसंख्याकानि चारूणि कल्या णानि उदकानि निर्णिजे निर्णेजनाय परिशोधनाय परिपोषणाय वा चक्रे कदा करोति यद्यदा अयमृतैर्यज्ञैरवर्धत वर्धितवान् तदाकरोति ॥ १ ॥