नवमं मण्डलम् - सूक्तम् 76

5 ऋचः

ऋषिः: कविः देवता: पवमानः सोमः छन्दः: जगती

सूक्तम् 9.76 - सम्पूर्णम्

1 / 5
ऋक्: 9.76.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
9.76.1
ध॒र्ता दि॒वः प᳚वते॒ कृत्व्यो॒ रसो॒ दक्षो᳚ दे॒वाना᳚मनु॒माद्यो॒ नृभि᳚ः ।
हरि᳚ः सृजा॒नो अत्यो॒ न सत्व᳚भि॒र्वृथा॒ पाजां᳚सि कृणुते न॒दीष्वा ॥
▶ पदपाठः (Word-by-word)
ध॒र्ता । दि॒वः । प॒व॒ते॒ । कृत्व्यः᳚ । रसः᳚ । दक्षः᳚ । दे॒वाना᳚म् । अ॒नु॒॑माद्यः᳚ । नृ॑भिः᳚ ।
हरिः᳚ । सृ॒जा॒नः । अत्यः᳚ । न । सत्व᳚॑भिः । वृथा᳚ । पाजां᳚सि । कृ॒णु॒ते॒ । न॒दीषु᳚ । आ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यनिःश्वसितंवेदा योवेदेभ्योखिलंजगत् । निर्ममे तमहंवन्दे विद्यातीर्थमहेश्वरं ॥ १ ॥

व्याख्यायाव्यहतप्रज्ञाः सप्तमस्यद्वितीयकम् । अध्यायंसायणामात्यस्तृतीयं व्याकरोत्यथ ॥ २ ॥

तत्र धर्तेतिपंचर्चं नवमंसूक्तं भार्गवस्यकवेरार्षं जागतं पवमानसोमदेवताकम् । धर्तेत्य- नुक्रान्तम् । गतोविनियोगः ।

धर्ता सर्वस्यधारकः सोमोदिवोन्तरिक्षादन्तरिक्षस्थिताद्दशापवित्रात् पवते पूयते । कीदृशः सोमः कृत्व्यः कर्तव्यः शोध्यइत्यर्थः रसोरसात्मकः देवानांदक्षः बलप्रदः यद्वा दक्षः प्रवर्धनीयोदेवानामर्थाय तथा नृभिर्नेतृभिरृत्विग्भिः अनुमाद्यः अनुमदनीयः स्तुत्योवा हरिर्हरितवर्णः सत्वभिः प्राणिभिः सृजानः सृज्यमानः अत्योन अश्वइव सयथा शिक्षितो वृथाअनायासेन गच्छति तद्वत् वृथा अप्रयत्नेन पाजांसि बलानि स्वीयान्वेगान् कृणुते कुरुते नदीषु वसतीवरीषु ताभिरित्यर्थः । आसिक्तइतिशेषः अयमभिषवसमयाभिप्रायः ॥ १ ॥

9.76.2
शूरो॒ न ध᳚त्त॒ आयु᳚धा॒ गभ᳚स्त्यो॒ः स्व१॒᳚ः सिषा᳚सन्रथि॒रो गवि᳚ष्टिषु ।
इन्द्र᳚स्य॒ शुष्म᳚मी॒रय᳚न्नप॒स्युभि॒रिन्दु᳚र्हिन्वा॒नो अ᳚ज्यते मनी॒षिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
शूरः᳚ । न । ध॒त्ते॒ । आयु᳚धा । गभ᳚स्त्योः । स्व१॒᳚रिति᳚ स्वः᳚ । सिसा᳚सन् । र॒थि॒रः । गो॑इ᳚ष्टिषु ।
इन्द्र᳚स्य । शुष्म᳚म् । ई॒रय᳚न् । अ॒प॒स्यु॑भिः᳚ । इन्दुः᳚ । हि॒न्वा॒नः । अ॒ज्य॒ते॒ । म॒नी॒षि॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं सोमोगभ्स्त्योर्हस्तयोः आयुधा आयुधानि शूरोन शूरइव धत्ते धारयति स्वः स्वर्गं सुखसाधनं यज्ञंवा सिषासन् संभक्तुमिच्छन् रथिरोरथवान् । रथादिरच् प्रत्ययः । गविष्टिषु यजमानस्यगवामेषणेषु सत्सु यजमानार्थं गोसंभजनाय रथवानित्यर्थः । इन्द्रस्य शुष्मं बलं ईरयन् प्रेरयन्निन्दुः सोमोदेवः अपस्युभिः कर्मेच्छुभिः मनीषिभिः मेधाविभिरृ- त्विग्भिः हिन्वानः प्रेर्यमाणः अज्यते गोभिः ॥ २ ॥

9.76.3
इन्द्र᳚स्य सोम॒ पव᳚मान ऊ॒र्मिणा᳚ तवि॒ष्यमा᳚णो ज॒ठरे॒ष्वा वि᳚श ।
प्र णः᳚ पिन्व वि॒द्युद॒भ्रेव॒ रोद᳚सी धि॒या न वाजा{4}॒ उप᳚ मासि॒ शश्व᳚तः ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚स्य । सो॒म॒ । पव᳚मानः । ऊ॒र्मिणा᳚ । त॒वि॒ष्यमा᳚णः । ज॒ठरे᳚षु । आ । वि॒श॒ ।
प्र । नः॒ । पि॒न्व॒ । वि॒॑द्युत् । अ॒भ्रा॑इ᳚व । रोद᳚सी॒ इति᳚ । धि॒या । न । वाजा᳚न् । उप᳚ । मा॒सि॒ । शश्व᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम पवमानः पूयमानस्त्वं तविष्यमाणो वर्धयिष्यमाणःसन् इन्द्रस्य जठरेषु ऊर्मिणा प्रभूत्याधारया विश जठरप्रदेशस्य बाहुल्यात् बहुवचनम् । नोस्मदर्थं विद्युदभ्रेव अभ्राणीव सा यथा दोग्धि अभ्राणि तद्वत् प्रपिन्व धुक्ष रोदसी द्यावापृथिव्यौ । किंच धिया कमर्णान इदानीं नेतिसंप्रत्यर्थे शश्वतः बहुनामैत् बहून् वाजान् अन्नानि उपसमीपे मासि निर्मासि ॥ ३ ॥

9.76.4
विश्व᳚स्य॒ राजा᳚ पवते स्व॒र्दृश᳚ ऋ॒तस्य᳚ धी॒तिमृ᳚षि॒षाळ᳚वीवशत् ।
यः सूर्य॒स्यासि᳚रेण मृ॒ज्यते᳚ पि॒ता म᳚ती॒नामस᳚मष्टकाव्यः ॥
▶ पदपाठः (Word-by-word)
विश्व᳚स्य । राजा᳚ । प॒व॒ते॒ । स्वः॒॑दृशः᳚ । ऋ॒तस्य᳚ । धी॒तिम् । ऋ॒षि॒षाट् । अ॒वी॒व॒श॒त् ।
यः । सूर्य᳚स्य । असि᳚रेण । मृ॒ज्यते᳚ । पि॒ता । म॒ती॒नाम् । अस᳚मष्ट॑काव्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वस्य जगतोराजा स्वामी सोमः पवते पूयते । स्वर्दृशः स्वर्गद्रष्टुः सर्वद्रष्टुर्वा ऋतस्य सत्यभूतस्येन्द्रस्य मनुष्यवाच्यनृतशब्दप्रतियोगिकस्य ऋतशब्दस्य देवार्थः तत्रा- प्यौचित्येनेन्द्रः प्रतिगृह्यते । तस्य धीतिं मतिं कर्मवा ऋषिषाट् ऋषीणामतीन्द्रियद्रष्टृणां अभिभविता समहत्त्वेन स्वयमप्यृषिश्रेष्ठत्वादितिभावः । तथाचमंत्रान्तरं—ब्रह्मादेवानांपद- वीः कवीनामिति । ईदृशः सोमः अवीवशत् अकामयतेन्द्रस्यकर्म । यः सोमः सूर्यस्य देवस्यासि- रेण क्षेपकेण रश्मिना मृज्यते असमष्टकाव्यः अन्यैः कविभिरव्याप्तकर्मा सोमोमतीनां अस्म- दीयानां स्तुतीनां पिता पालकः स्वामी भवतीतिशेषः । यद्वा योमतीनां पिता असमष्ट- काव्यश्चसन् मृज्यते सपवतइतिसंबन्धः ॥ ४ ॥

9.76.5
वृषे᳚व यू॒था परि॒ कोश᳚मर्षस्य॒पामु॒पस्थे᳚ वृष॒भः कनि᳚क्रदत् ।
स इन्द्रा᳚य पवसे मत्स॒रिन्त᳚मो॒ यथा॒ जेषा᳚म समि॒थे त्वोत᳚यः ॥
▶ पदपाठः (Word-by-word)
वृषा᳚॑इव । यू॒था । परि᳚ । कोश᳚म् । अ॒र्ष॒सि॒ । अ॒पाम् । उ॒प॑स्थे᳚ । वृ॒ष॒भः । कनि᳚क्रदत् ।
सः । इन्द्रा᳚य । प॒व॒से॒ । म॒त्स॒रिन्॑त᳚मः । यथा᳚ । जेषा᳚म । स॒म्॑इ॒थे । त्वा॑ऊ᳚तयः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं वृषेव यूथा यूथानि वृषभइव सयथा तानि प्रविशति तद्वत् कोशं कोश वद्रसधारकं कलशं पर्यर्षसि परिगच्छसि । कुत्र स्थः सन् अपामुपस्थे अन्तरिक्षे कीदृशः सन् वृषभोवर्षिता कनिक्रदच्छब्दंकुर्वन् । सत्वं हे सोम इन्द्रायेद्रार्थं पवसे पूयसे मत्सरिन्त मोमादयितृतमस्त्वं यथा वयं जेषाम जयेम समिथे संग्रामे त्वोतयस्त्वयारक्षिताः सन्तः ॥ ५ ॥

एषप्रकोशइति पंचर्चंदशमंसूक्तं ऋष्याद्याः पूर्ववत् । एषइत्यनुक्रान्तम् । गतोविनियोगः ।