नवमं मण्डलम् - सूक्तम् 95

5 ऋचः

ऋषिः: प्रस्कण्वः देवता: पवमानः सोमः छन्दः: त्रिष्टुप्

सूक्तम् 9.95 - सम्पूर्णम्

1 / 5
ऋक्: 9.95.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
9.95.1
कनि᳚क्रन्ति॒ हरि॒रा सृ॒ज्यमा᳚न॒ः सीद॒न्वन᳚स्य ज॒ठरे᳚ पुना॒नः ।
नृभि᳚र्य॒तः कृ᳚णुते नि॒र्णिजं॒ गा अतो᳚ म॒तीर्ज᳚नयत स्व॒धाभि᳚ः ॥
▶ पदपाठः (Word-by-word)
कनि᳚क्रन्ति । हरिः᳚ । आ । सृ॒ज्यमा᳚नः । सीद᳚न् । वन᳚स्य । ज॒ठरे᳚ । पु॒ना॒नः ।
नृ॑भिः᳚ । य॒तः । कृ॒णु॒ते॒ । निः॒॑निज᳚म् । गाः । अतः᳚ । म॒तीः । ज॒न॒य॒त॒ । स्व॒धाभिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आसृज्यमान आसमन्तात् विसृज्यमानोभिषूयमाणः हरिर्हरितवर्णः सोमः कनिक्रन्ति पुनःपुनः शब्दायते क्रन्दतेर्यङ्लुकि तिपीडभावे दाधर्तिदर्धर्ति इत्यादिनानिपातनादभ्यास- स्य निगागमः अभ्यस्तस्वरः । तथा पुनानः पूयमानः वनस्य वननीयस्य द्रोणकलशस्य जठरे सीदन्नुपविशन् शब्दायते । किंच नृभिः कर्मनेतृभिरृत्विग्भिः यतः संयतः सोमः गागोविकारान् क्षीरादीनि आच्छादयन् निर्निजं आत्मनोरूपम् । कृणुते ग्रहादिषु करोति अतोस्मै सोमाय मती र्मननीयाः स्तुतीः स्वधाभिर्हविर्भिः सह जनयत स्तोतारोजनयन् । झस्यान्तादेशाभावश्छान्दसः । यद्वा हे स्तोतारः अस्मै सोमाय स्तुतीर्जनयत उत्पादयत कुरुतेतियावत् ॥ १ ॥

9.95.2
हरि᳚ः सृजा॒नः प॒थ्या᳚मृ॒तस्येय᳚र्ति॒ वाच᳚मरि॒तेव॒ नाव᳚म् ।
दे॒वो दे॒वानां॒ गुह्या᳚नि॒ नामा॒विष्कृ᳚णोति ब॒र्हिषि᳚ प्र॒वाचे᳚ ॥
▶ पदपाठः (Word-by-word)
हरिः᳚ । सृ॒जा॒नः । प॒थ्या᳚म् । ऋ॒तस्य᳚ । इय᳚र्ति । वाच᳚म् । अ॒रि॒ता॑इ᳚व । नाव᳚म् ।
दे॒वः । दे॒वाना᳚म् । गुह्या᳚नि । नाम᳚ । आ॒विः । कृ॒णो॒ति॒ । ब॒र्हिषि᳚ । प्र॒॑वाचे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सृजानः सृज्यमानः हरिर्हरितवर्णः सोमः ऋतस्य सत्यभूतस्य पथ्यां पथिभवांवाचं देवीं इयर्ति प्रेरयति । तत्रदृष्टान्तः—अरितेव जनान् तीरंप्रापयन् नाविकोयथा नावं प्रेर- यति तद्वत् ऋगतौ जौहोत्यादिकः अर्तिपिपर्त्योरित्यभ्यासस्येत्वम् । ततः देवोदीप्यमानः सोमः देवानां इन्द्रादीनां गुह्यानि अन्तर्हितानि नाम नामानि शरीराणि प्रवाचे प्रकर्षे- णवाचयित्रे स्तोत्रे बर्हिषियज्ञे आविष्कृणोति स्तोतुमाविष्करोति ॥ २ ॥

9.95.3
अ॒पामि॒वेदू॒र्मय॒स्तर्तु᳚राणा॒ः प्र म᳚नी॒षा ई᳚रते॒ सोम॒मच्छ᳚ ।
न॒म॒स्यन्ती॒रुप᳚ च॒ यन्ति॒ सं चा च᳚ विशन्त्युश॒तीरु॒शन्त᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒पाम्॑इ᳚व । इत् । ऊ॒र्मयः᳚ । तर्तु᳚राणाः । प्र । म॒नी॒षाः । ई॒र॒ते॒ । सोम᳚म् । अच्छ᳚ ।
न॒म॒स्यन्तीः᳚ । उप᳚ । च॒ । यन्ति᳚ । सम् । च॒ । आ । च॒ । वि॒श॒न्ति॒ । उ॒श॒तीः । उ॒शन्त᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अपामिव यथाउदकानामूर्मयस्त्वरन्ते इदितिपूरणः तद्वत् तर्तुराणाः कर्मणि देवान् स्तोतुं त्वरमाणाः । तुरत्वरणे जौहोत्यादिकः यङ्लुगन्तस्यशानचिरूपं अभ्यासस्यअवर्णश्च रेफादेशश्छान्दसः अभ्यस्तस्वरः । तादृशाऋत्विजः मनीषामनसईशित्रीः स्तुतीः सोममच्छ सोमं प्रतिप्रेरते प्रेरयन्ति । नमस्यन्तीः नमस्यन्त्यः सोमं पूजयंत्यः सत्यः तमुपयन्तिच उपगच्छन्ति तमेवसंयन्तिच । चवायोगेप्रथमेतिननिघातः । ततउशतीः कामयमानाः स्तुतयः उशन्तंकामयमानंसोमं आविशंति च प्रविशन्ति च ॥ ३ ॥

9.95.4
तं म᳚र्मृजा॒नं म᳚हि॒षं न साना᳚वं॒शुं दु᳚हन्त्यु॒क्षणं᳚ गिरि॒ष्ठाम् ।
तं वा᳚वशा॒नं म॒तयः᳚ सचन्ते त्रि॒तो बि᳚भर्ति॒ वरु᳚णं समु॒द्रे ॥
▶ पदपाठः (Word-by-word)
तम् । म॒र्मृ॒जा॒नम् । म॒हि॒षम् । न । सानौ᳚ । अं॒शुम् । दु॒ह॒न्ति॒ । उ॒क्षण᳚म् । गि॒रि॒॑स्थाम् ।
तम् । वा॒व॒शा॒नम् । म॒तयः᳚ । स॒च॒न्ते॒ । त्रि॒तः । बि॒भ॒र्ति॒ । वरु᳚णम् । स॒मु॒द्रे ॥
▶ सायणभाष्यम् (Sayana Commentary)

मर्मृजानं यष्टृभिःपरिचर्यमाणं महिषंन महिषाख्यंमृगमिव सानौ समुच्छ्रितेदेशे वर्तमानं उक्षणं कामानांसेक्तारं गिरिष्ठां अभिषवार्थं ग्रावसुनिष्ठितं तं तादृशं प्रसिद्धं अंशुं सोमं दुहन्ति ऋत्विजोदुहते । ग्रावाणंवत्साः ऋत्विजोदुहन्तीति तैत्तिरीयब्राह्मणम् । तं तादृशं वावशानं कामयमानं सोमं मतयोमन्तव्याः स्तुतयः सचन्ते समवयन्ति सेव- न्तेइतियावत् । ततः त्रितः त्रिषुस्थानेषु वर्तमानः इन्द्रः वरुणं शत्रूणांनिवारकमेनंसोमं समुद्रे अन्तरिक्षे बिभर्ति शत्रुवधार्थं धारयति यद्वा त्रितः त्रिषु स्थानेषु द्रोणाधवनी- यपूतभृदाख्येषु कलशेषुस्थितःसोमः शत्रूणांनिवारकमिन्द्रं द्युलोकेबिभर्ति पोषयति ॥ ४ ॥

9.95.5
इष्य॒न्वाच᳚मुपव॒क्तेव॒ होतु᳚ः पुना॒न इ᳚न्दो॒ वि ष्या᳚ मनी॒षाम् ।
इन्द्र᳚श्च॒ यत्क्षय᳚थ॒ः सौभ᳚गाय सु॒वीर्य᳚स्य॒ पत᳚यः स्याम ॥
▶ पदपाठः (Word-by-word)
इष्य᳚न् । वाच᳚म् । उ॒प॒व॒क्ता॑इ᳚व । होतुः᳚ । पु॒ना॒नः । इ॒न्दो॒ इति᳚ । वि । स्य॒ । म॒नी॒षाम् ।
इन्द्रः᳚ । च॒ । यत् । क्षय᳚थः । सौभ᳚गाय । सु॒॑वीर्य᳚स्य । पत᳚यः । स्या॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो सोम वाचं स्तुतिमिष्यन् प्रेरयन् होतुरुपवक्तेव यथा अध्वर्युः प्रतिगरंकुर्वन् प्रोत्साहयति तद्वत् स्तोतॄणां शंसनाय प्रोत्साहंकुर्वन् पुनानः पूयमानस्त्वं मनीषांबुद्धिं विष्य विमुंच । किंतु बुद्धिं धनप्रदानाभिमुखीं कुरु । किंच यद्यदाइन्द्रश्च त्वं सह यज्ञे क्षयथः निवसथः तदा स्तोतारोवयंसौभगाय सौभाग्याय स्याम । किंच सुवीर्यस्य शोभन- वीर्योपेतस्य धनस्य पतयः स्वामिनः स्याम भवेम ॥ ५ ॥

प्रसेनानीरिति चतुर्विंशत्यृचमेकादशंसूक्तं दिवोदासपुत्रस्य प्रतर्दनाख्यस्य राजर्षेरिदं त्रै- ष्टुभं पवमानसोमदेवताकम् । तथाचानुक्रम्यते—प्रसेनानीश्चतुर्विंशतिर्दैवोदासिःप्रतर्दनइति । गतः सूक्तविनियोगः ।