नवमं मण्डलम् - सूक्तम् 19

7 ऋचः

ऋषिः: असितः काश्यपो देवलो वा देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.19 - सम्पूर्णम्

1 / 7
ऋक्: 9.19.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
9.19.1
यत्सो᳚म चि॒त्रमु॒क्थ्यं᳚ दि॒व्यं पार्थि᳚वं॒ वसु᳚ ।
तन्न᳚ः पुना॒न आ भ᳚र ॥
▶ पदपाठः (Word-by-word)
यत् । सो॒म॒ । चि॒त्रम् । उ॒क्थ्य᳚म् । दि॒व्यम् । पार्थि᳚वम् । वसु᳚ ।
तत् । नः॒ । पु॒ना॒नः । आ । भ॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम यच्चित्रं चायनीयं उक्थ्यं स्तुत्यं दिव्यं दिविभवं पार्थिवं पृथिवीसंबद्धंच वसु धनमस्ति तत् नोस्माभ्यं पुनानः पूयमानः सन्नाभर आहर ॥ १ ॥

9.19.2
यु॒वं हि स्थः स्व᳚र्पती॒ इन्द्र᳚श्च सोम॒ गोप᳚ती ।
ई॒शा॒ना पि᳚प्यतं॒ धियः᳚ ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । हि । स्थः । स्व᳚र्पती॒ इति॒ स्वः᳚॑पती । इन्द्रः᳚ । च॒ । सो॒म॒ । गोप᳚ती॒ इति॒ गो॑प᳚ती ।
ई॒शा॒ना । पि॒प्य॒त॒म् । धियः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वमिन्द्रश्च युवंहि युवांखलु स्वर्पती स्वर्गस्य स्वामिनौ स्थोभवथः । तथा गोपती गवांपालकौ ईशाना ईश्वरौ सन्तौ धियोस्मदीयानि कर्माणि पिप्यतं प्याययतं ॥ २ ॥

9.19.3
वृषा᳚ पुना॒न आ॒युषु᳚ स्त॒नय॒न्नधि᳚ ब॒र्हिषि᳚ ।
हरि॒ः सन्योनि॒मास᳚दत् ॥
▶ पदपाठः (Word-by-word)
वृषा᳚ । पु॒ना॒नः । आ॒युषु᳚ । स्त॒नय᳚न् । अधि᳚ । ब॒र्हिषि᳚ ।
हरिः᳚ । सन् । योनि᳚म् । आ । अ॒स॒द॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषा कामानां वर्षकः सोमः आयुषु मनुष्येषु अध्वर्य्वादिषु पुनानः पूयमानः सन् स्तनयन् शब्दंकुर्वन् अधिबर्हिषि अधीति सप्तम्यर्थानुवादी आस्तीर्णे दर्भे हरिः हरितवर्णः सन् योनिं स्वकीयं स्थानं आसदत् आसीदति ॥ ३ ॥

9.19.4
अवा᳚वशन्त धी॒तयो᳚ वृष॒भस्याधि॒ रेत᳚सि ।
सू॒नोर्व॒त्सस्य᳚ मा॒तरः᳚ ॥
▶ पदपाठः (Word-by-word)
अवा᳚वशन्त । धी॒तयः᳚ । वृ॒ष॒भस्य᳚ । अधि᳚ । रेत᳚सि ।
सू॒नोः । व॒त्सस्य᳚ । मा॒तरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

धीतयो धीयमानाः सोमाख्येन वत्सेन पीयमाना वसतीवर्यः । क्तिन् व्यत्ययेनान्तोदात्तः । अधिरेतसि स्वकीयेसारे वृषभस्य वर्षकस्य सोमस्य सोममित्यर्थः अवावशन्त पुनः कामयन्ते सोममाप्याययितुं कामयन्ते इत्यर्थः । तदेवाह-सूनो स्वपुत्रस्थानीयस्य वत्सस्य सोमस्य मातरोनिर्मात्र्यः प्रवृद्धिकामा मातृस्थानीयाः अवावशन्तेतिसमन्वयः ॥ ४ ॥

9.19.5
कु॒विद्वृ᳚ष॒ण्यन्ती᳚भ्यः पुना॒नो गर्भ᳚मा॒दध᳚त् ।
याः शु॒क्रं दु᳚ह॒ते पयः᳚ ॥
▶ पदपाठः (Word-by-word)
कु॒वित् । वृ॒ष॒ण्यन्ती᳚भ्यः । पु॒ना॒नः । गर्भ᳚म् । आ॒॑दध᳚त् ।
याः । शु॒क्रम् । दु॒ह॒ते । पयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषण्यन्तीभ्यः वृषणं सोममात्मनइच्छन्तीभ्यो वसतीवरीभ्यः पुनानः पूयमानो मिश्रयमाणो गर्भं स्वगर्भस्थानीयं रसं कुवित् बहुप्रभूतं आदधत् करोति । याः आपः सुक्रं दीप्तं पयो दुहते स्ववत्साय सोमाय ताभ्योगर्भमादधत् ॥ ५ ॥

9.19.6
उप᳚ शिक्षापत॒स्थुषो᳚ भि॒यस॒मा धे᳚हि॒ शत्रु᳚षु ।
पव᳚मान वि॒दा र॒यिम् ॥
▶ पदपाठः (Word-by-word)
उप᳚ । शि॒क्ष॒ । अ॒प॒॑त॒स्थुषः᳚ । भि॒यस᳚म् । आ । धे॒हि॒ । शत्रु᳚षु ।
पव᳚मान । वि॒दाः । र॒यिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पवमानसोम उपशिक्ष त्वं समीपे कुरु । कान् अपतस्थुषः अपक्रम्य स्थितान् अस्मदभिमतानित्यर्थः शत्रुष्वस्मद्विरोधिषु भियसं भयं आधेहि कुरु जनय । अस्माकं तेषां शत्रूणां रयिं धनं विदाः विन्दसि ॥ ६ ॥

9.19.7
नि शत्रो᳚ः सोम॒ वृष्ण्यं॒ नि शुष्मं॒ नि वय᳚स्तिर ।
दू॒रे वा᳚ स॒तो अन्ति᳚ वा ॥
▶ पदपाठः (Word-by-word)
नि । शत्रोः᳚ । सो॒म॒ । वृष्ण्य᳚म् । नि । शुष्म᳚म् । नि । वयः᳚ । ति॒र॒ ।
दू॒रे । वा॒ । स॒तः । अन्ति᳚ । वा॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अभिषूयमाणसोम त्वं शत्रोर्वृष्ण्यं वर्षकं बलं नितिर निपूर्वस्तिरतिर्नाशार्थः नाशय । तथा शत्रोः शुष्मं शोषकं तेजः नितिर तस्यैव वयोन्नंच नितिर कीदृशस्य शत्रोः दूरे वासतः अस्मत्तोदूरे वर्तमानस्य अन्तिवा सतः अन्तिके वर्तमानस्य वा ॥ ७ ॥

प्रकविरिति सप्तर्चं विंशं सूक्तं ऋष्याद्याः पूर्ववत् । प्रकविरित्यनुक्रान्तम् । गतोविनियोगः ।