नवमं मण्डलम् - सूक्तम् 51

5 ऋचः

ऋषिः: उचथ्यः देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.51 - सम्पूर्णम्

1 / 5
ऋक्: 9.51.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
9.51.1
अध्व᳚र्यो॒ अद्रि᳚भिः सु॒तं सोमं᳚ प॒वित्र॒ आ सृ᳚ज ।
पु॒नी॒हीन्द्रा᳚य॒ पात᳚वे ॥
▶ पदपाठः (Word-by-word)
अध्व᳚र्यो॒ इति᳚ । अद्रि᳚॑भिः । सु॒तम् । सोम᳚म् । प॒वित्रे᳚ । आ । सृ॒ज॒ ।
पु॒नी॒हि । इन्द्रा᳚य । पात᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अध्वर्यो अद्रिभिर्ग्रावभिः सुतमभिषुतं सोमं पवित्रे आसृज । एतदेव दर्शयति इन्द्रा- येन्द्रस्य पातवे पानाय पुनीहि पावय ॥ १ ॥

9.51.2
दि॒वः पी॒यूष᳚मुत्त॒मं सोम॒मिन्द्रा᳚य व॒ज्रिणे᳚ ।
सु॒नोता॒ मधु᳚मत्तमम् ॥
▶ पदपाठः (Word-by-word)
दि॒वः । पी॒यूष᳚म् । उ॒त्॑त॒मम् । सोम᳚म् । इन्द्रा᳚य । व॒ज्रिणे᳚ ।
सु॒नोत᳚ । मधु᳚मत्॑तमम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अध्वर्यवो यूयं मधुमत्तममतिशयेन मधुमन्तं दिवोद्युलोकस्य पीयूषममृतमुत्तमं श्रेष्ठं सोमं वज्रिणे वज्रवते इन्द्राय सुनोताभिषुणुत ॥ २ ॥

9.51.3
तव॒ त्य इ᳚न्दो॒ अन्ध᳚सो दे॒वा मधो॒र्व्य᳚श्नते ।
पव᳚मानस्य म॒रुतः᳚ ॥
▶ पदपाठः (Word-by-word)
तव᳚ । त्ये । इ॒न्दो॒ इति᳚ । अन्ध᳚सः । दे॒वाः । मधोः᳚ । वि । अ॒श्न॒ते॒ ।
पव᳚मानस्य । म॒रुतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो सोम तव संबन्धिनं मधोर्मदकरस्य पवमानस्य पूयमानमंधसोन्नं कर्मणि षष्ठी त्ये ते इमे देवाइन्द्रादयोमरुतश्च व्यश्नते व्याप्नुवते व्याप्नुवन्तीत्यर्थः ॥ ३ ॥

9.51.4
त्वं हि सो᳚म व॒र्धय᳚न्त्सु॒तो मदा᳚य॒ भूर्ण᳚ये ।
वृष᳚न्त्स्तो॒तार᳚मू॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । हि । सो॒म॒ । व॒र्धय᳚न् । सु॒तः । मदा᳚य । भूर्ण᳚ये ।
वृष᳚न् । स्तो॒तार᳚म् । ऊ॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम सुतोभिषुतस्त्वं वर्धयन् देवान् प्रवृद्धान् कुर्वन् वृषन् कामान् वर्षन् भूर्णये क्षि- प्राय मदायोतये रक्षणायच स्तोतारमभिगच्छसीत्यर्थः ॥ ४ ॥

9.51.5
अ॒भ्य᳚र्ष विचक्षण प॒वित्रं॒ धार᳚या सु॒तः ।
अ॒भि वाज᳚मु॒त श्रवः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒भि । अ॒र्ष॒ । वि॒॑च॒क्ष॒ण॒ । प॒वित्र᳚म् । धार᳚या । सु॒तः ।
अ॒भि । वाज᳚म् । उ॒त । श्रवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विचक्षण सोम सुतोभिषुतस्त्वं पवित्रमभि प्रति धारयार्षगच्छ । उतापिचास्माकं वाजमन्नं श्रवः कीर्तिंचाभिरक्षेत्यर्थः ॥ ५ ॥

परिद्युक्षइति पंचर्चमष्टाविंशंसूक्तं ऋष्याद्याः पूर्ववत् । परिद्युक्षेत्यनुक्रान्तम् । उक्तोविनि- योगः ।