त्वं सीं᳚ वृषन्नकृणोर्दु॒ष्टरी᳚तु॒ सहो॒ विश्व᳚स्मै॒ सह᳚से॒ सह᳚ध्यै ॥
पदपाठः (Word-by-word)
त्वम् । सी॒म् । वृ॒ष॒न् । अ॒कृ॒णोः॒ । दु॒स्तरी᳚तु । सहः᳚ । विश्व᳚स्मै । सह᳚से । सह᳚ध्यै ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने प्रथमोदेवानांमध्येप्रथमः प्रतमः प्रकृष्टतमः पूर्वभावीवात्वं मनोताहि देवानांमनोयत्रऊतंसंबद्धंभवतितादृशोभवसि हिशब्दो- ग्निः सर्वमनोता अग्नौमनोताःसंगच्छन्तेइत्यादिब्रांह्मणप्रसिद्धद्योतनार्थः हेदस्म दर्शनीय अस्याधियः अस्यकर्मणोहोता देवानामाह्वाता अभवः भवसि हेवृषन् कामानांवर्षितः त्वंसीं सर्वतःदुष्टरीतु दुर्हिंस्यमहिंस्यं सहोबलं अकृणोः अकरोः किमर्थं विश्वस्मैसहसे सर्वस्यापिब- लवतःशत्रोः सहध्यै अभिभवनाय ॥ १ ॥