षष्ठं मण्डलम् - सूक्तम् 69

8 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: इंद्राविष्णू छन्दः: त्रिष्टुप्

सूक्तम् 6.69 - सम्पूर्णम्

1 / 8
ऋक्: 6.69.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
6.69.1
सं वां॒ कर्म᳚णा॒ समि॒षा हि᳚नो॒मीन्द्रा᳚विष्णू॒ अप᳚सस्पा॒रे अ॒स्य ।
जु॒षेथां᳚ य॒ज्ञं द्रवि᳚णं च धत्त॒मरि᳚ष्टैर्नः प॒थिभि᳚ः पा॒रय᳚न्ता ॥
▶ पदपाठः (Word-by-word)
सम् । वा॒म् । कर्म᳚णा । सम् । इ॒षा । हि॒नो॒मि॒ । इन्द्रा᳚विष्णू॒ इति᳚ । अप᳚सः । पा॒रे । अ॒स्य ।
जु॒षेथा᳚म् । य॒ज्ञम् । द्रवि᳚णम् । च॒ । ध॒त्त॒म् । अरि᳚ष्टैः । नः॒ । प॒थि॑भिः᳚ । पा॒रय᳚न्ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्राविष्णू वां युवां कर्मणा स्तोत्रेणा इषा हविषा च संहिनोमि सम्यक् प्रेरयामि । अपसः कर्मणः अस्य उक्थस्य पारे समाप्तौ यज्ञं जुषेथां सेवेथाम् । किं च अरिष्टैः अनुपद्रवैः पथिभिर्मार्गैः नोस्मान् पारयन्ता पारं नयन्तौ युवां द्रविणं धनं धत्तमस्मभ्यं दत्तं ॥ १ ॥

6.69.2
या विश्वा᳚सां जनि॒तारा᳚ मती॒नामिन्द्रा॒विष्णू᳚ क॒लशा᳚ सोम॒धाना᳚ ।
प्र वां॒ गिरः᳚ श॒स्यमा᳚ना अवन्तु॒ प्र स्तोमा᳚सो गी॒यमा᳚नासो अ॒र्कैः ॥
▶ पदपाठः (Word-by-word)
या । विश्वा᳚साम् । ज॒नि॒तारा᳚ । म॒ती॒नाम् । इन्द्रा॒विष्णू॒ इति᳚ । क॒लशा᳚ । सो॒म॒॑धाना᳚ ।
प्र । वा॒म् । गिरः᳚ । श॒स्यमा᳚नाः । अ॒व॒न्तु॒ । प्र । स्तोमा᳚सः । गी॒यमा᳚नासः । अ॒र्कैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

या यौ प्रसिद्धाविन्द्राविष्णू विश्वासां सर्वासां मतीनां स्तुतीनां जनितारा जनितारौ जनजनने इत्यस्माद्धातोस्तृचीदं रूपं यद्वा जनी प्रादुर्भावे इत्यस्माद्धातोरेव तृचि जनितामंत्रे इति नोपातनाण्णिलोपः कलशा कलशौ सोमधाना सोमस्य निधानभूतौ च स्याताम् । अथ प्रत्यक्षस्तुतिः हे इन्द्राविष्णू वां युवां शस्यमाना अच्चार्यमाणाः श्स्त्ररूपाः गिरोवाचः प्रावन्तु प्राप्नुवन्तु अर्कैः स्तोतृभिः गीयमानासः गीयमानाः स्तोमासः स्तोमाः स्तोत्राणि च प्रावन्तु प्राप्नुवन्तु ॥ २ ॥

6.69.3
इन्द्रा᳚विष्णू मदपती मदाना॒मा सोमं᳚ यातं॒ द्रवि᳚णो॒ दधा᳚ना ।
सं वा᳚मञ्जन्त्व॒क्तुभि᳚र्मती॒नां सं स्तोमा᳚सः श॒स्यमा᳚नास उ॒क्थैः ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚विष्णू॒ इति᳚ । म॒द॒प॒ती॒ इति᳚ मद॑पती । म॒दा॒ना॒म् । आ । सोम᳚म् । या॒त॒म् । द्रवि᳚णो॒ इति᳚ । दधा᳚ना ।
सम् । वा॒म् । अ॒ञ्ज॒न्तु॒ । अ॒क्तु॑भिः᳚ । म॒ती॒नाम् । सम् । स्तोमा᳚सः । श॒स्यमा᳚नासः । उ॒क्थैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्राविष्णू मदानां सोमानां मदपती स्वामिनौ मदपती इत्यत्रमदशब्दोनुवादः द्रविणो द्रविणानि धनान्यपि द्रविणा उ इति पदद्वयमे- कीभूय द्रविणौ इति निष्पन्नं पदम् । दधाना ददानौ युवां सोममभि आयातं मतीनां स्तोतॄणां स्तोमासः स्तोत्राणि उक्थैः शस्त्रैः सार्धं शस्यमानासः उषार्यमाणाः वां युवां अक्तुभिः तेजोभिः समजन्तु समर्धयन्तुसंसमितिद्विरुक्तिरावरार्था ॥ ३ ॥

6.69.4
आ वा॒मश्वा᳚सो अभिमाति॒षाह॒ इन्द्रा᳚विष्णू सध॒मादो᳚ वहन्तु ।
जु॒षेथां॒ विश्वा॒ हव᳚ना मती॒नामुप॒ ब्रह्मा᳚णि शृणुतं॒ गिरो᳚ मे ॥
▶ पदपाठः (Word-by-word)
आ । वा॒म् । अश्वा᳚सः । अ॒भि॒मा॒ति॒॑सहः᳚ । इन्द्रा᳚विष्णू॒ इति᳚ । स॒ध॒॑मादः᳚ । व॒ह॒न्तु॒ ।
जु॒षेथा᳚म् । विश्वा᳚ । हव᳚ना । म॒ती॒नाम् । उप᳚ । ब्रह्मा᳚णि । शृ॒णु॒त॒म् । गिरः᳚ । मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्राविष्णू वां युवां अभिमातिषाहः अभिमातीनां हिंसकानां अभिभवितारः सधमादः सहमाद्यन्तः अश्वासः अश्वाः आवहन्तु मतीनां स्तोतॄणां विश्वा विश्वानि हवना हवनानि स्तोत्रेणि जुषेथां सेवेथां तदर्थं मे मदीयानि ब्रह्माणि स्तोत्राणि गिरः शस्त्ररूपा वाचश्च उपश्रृणतं ॥ ४ ॥

6.69.5
इन्द्रा᳚विष्णू॒ तत्प᳚न॒याय्यं᳚ वां॒ सोम᳚स्य॒ मद᳚ उ॒रु च᳚क्रमाथे ।
अकृ᳚णुतम॒न्तरि᳚क्षं॒ वरी॒यो॑प्र᳚थतं जी॒वसे᳚ नो॒ रजां᳚सि ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚विष्णू॒ इति᳚ । तत् । प॒न॒याय्य᳚म् । वा॒म् । सोम᳚स्य । मदे᳚ । उ॒रु । च॒क्र॒मा॒थे॒ इति᳚ ।
अकृ᳚णुतम् । अ॒न्तरि᳚क्षम् । वरी᳚यः । अप्र᳚थतम् । जी॒वसे᳚ । नः॒ । रजां᳚सि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्राविष्णू वां युवयोः तत्कर्म पनयाय्यं स्तुत्यं किं तत्कर्मेत्यतआह सोमस्य मदे सति यदुरु विस्तीर्णं चक्रमाथे विचक्रमाथे । यद्यपि विष्णोरेव विक्रमः तथाप्येकार्थत्वात् उभयोरित्युच्यते यच्चान्तरिक्षं वरीयः उरुतरं अकृणुतं अकुरुतं यदपि च रजांसि लोकान् सर्वान् लोकारजांस्यच्यन्तइति यास्कः । नोस्माकं जीवनाय अप्रथतं अप्रथयतं ॥ ५ ॥

6.69.6
इन्द्रा᳚विष्णू ह॒विषा᳚ वावृधा॒नाग्रा᳚द्वाना॒ नम᳚सा रातहव्या ।
घृता᳚सुती॒ द्रवि᳚णं धत्तम॒स्मे स᳚मु॒द्रः स्थ᳚ः क॒लशः᳚ सोम॒धानः᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚विष्णू॒ इति᳚ । ह॒विषा᳚ । व॒वृ॒धा॒ना । अग्र᳚॑अद्वाना । नम᳚सा । रा॒त॒॑ह॒व्या॒ ।
घृता᳚सुती॒ इति॒ घृत᳚॑आसुती । द्रवि᳚णम् । ध॒त्त॒म् । अ॒स्मे इति᳚ । स॒मु॒द्रः । स्थः॒ । क॒लशः᳚ । सो॒म॒॑धानः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

घृतासुती घृतान्नाविन्द्राविष्णू युवां हविषा सोमेन वावृधाना वर्धमानौ अग्रद्वाना सोमाग्रस्य शुक्रस्यात्तारौ नमसा नमस्कारेण रातहव्या दत्तहविष्कौ यजमानैरस्मे अस्मम्यं द्रविणं धनं धत्तं प्रयच्छतं किं च युवां समुद्रः उदधिरिव स्थो भवथः । यतः सोमधानः सोमनिधान- कलशोभवथः ॥ ६ ॥

6.69.7
इन्द्रा᳚विष्णू॒ पिब᳚तं॒ मध्वो᳚ अ॒स्य सोम᳚स्य दस्रा ज॒ठरं᳚ पृणेथाम् ।
आ वा॒मन्धां᳚सि मदि॒राण्य᳚ग्म॒न्नुप॒ ब्रह्मा᳚णि शृणुतं॒ हवं᳚ मे ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚विष्णू॒ इति᳚ । पिब᳚तम् । मध्वः᳚ । अ॒स्य । सोम᳚स्य । द॒स्रा॒ । ज॒ठर᳚म् । पृ॒णे॒था॒म् ।
आ । वा॒म् । अन्धां᳚सि । म॒दि॒राणि᳚ । अ॒ग्म॒न् । उप᳚ । ब्रह्मा᳚णि । शृ॒णु॒त॒म् । हव᳚म् । मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे दस्रा दर्शनीयाविन्द्राविष्णू युवां मध्वः अस्य मदकरं सोमस्य सोमं पिबतं किं च जठरं उदरं पृणेथां सोमेन पूरयेथाम् । हे इन्द्राविष्णू वां युवां मदिराणि मदकराणि अंधांसि सोमात्मकान्यन्नानि आग्मन् अभिगच्छन्तु । मे मदीयानि ब्रह्माणि स्तोत्राणि हवं मदीयमाह्वानं चोपशृणतं ॥ ७ ॥

6.69.8
उ॒भा जि᳚ग्यथु॒र्न परा᳚ जयेथे॒ न परा᳚ जिग्ये कत॒रश्च॒नैनो᳚ः ।
इन्द्र᳚श्च विष्णो॒ यदप᳚स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तदै᳚रयेथाम् ॥
▶ पदपाठः (Word-by-word)
उ॒भा । जि॒ग्य॒थुः॒ । न । परा᳚ । ज॒ये॒थे॒ इति᳚ । न । परा᳚ । जि॒ग्ये॒ । क॒त॒रः । च॒न । ए॒नोः॒ ।
इन्द्रः᳚ । च॒ । वि॒ष्णो॒ इति᳚ । यत् । अप᳚स्पृधेथाम् । त्रे॒धा । स॒हस्र᳚म् । वि । तत् । ऐ॒र॒ये॒था॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्राविष्णू उभा उभौ युवां जिग्यथुः शत्रूनजैष्टं नपराजयेथे न पुनः कदाचन पराजयेथे एनोरेनयोर्युवयोर्मध्ये कतरश्चन एकतरोपि न पराजिग्ये न पराजैष्ट हे विष्णो इन्द्राश्च त्वं च युवां यत् यद्वस्तु प्रत्यपस्पृधेथां असुरैः सहास्पृधेथां त्रेधा लोकवेदवागात्मना त्रिधास्थितं सहस्रममितं च वितदैरयेथां व्यक्रमेथामित्यर्थः । तथा च ब्राह्मणं-उभाजिग्यथुरित्यच्छावाकस्योभौहितौ जिग्यथुर्नपराजयेथे नपराजि- ग्यइतिनहितयोः कतरश्चनपराजिग्यइन्द्रश्चविष्णोयदपस्पृधेथां त्रेधासहस्रंवितदैरयेथामितीन्द्रश्चह वैविष्णुश्चासुरैर्युयुधातेतान्हस्मजि- त्वोचतुः कल्पामहाइतितेहतथेत्यसुराऊचुः सोब्रवीदिन्द्रोयावदेवायं विष्णुस्त्रिर्विक्रमते तावदस्माकमथयुष्माकमितरदितिसइमन्लोका- न्विचक्रमेथोवाचंतदाहुः किंतत्सहस्रमितीमेलोकाइमे वेदाअथोवागितिब्रयादैरयेथामैरयेथामिति । यद्वा तत्सहस्रं गवां सहस्रं त्रेधा व्यैर- येथामित्यर्थः ॥ ८ ॥

घृतवतीभुवनानामितिषळृचंनवमंसूक्तं भरद्वाजस्यार्षं जागतं द्यावापृथिवीदेवताकं तथा चानुक्रम्यते-घृतवतीषड्द्यावापृथिवीयं जागतमिति आभिप्लविके पंचमेहनि वैश्वदेवशस्त्रे आद्यस्तृचोद्यावापृथिव्यनिविद्धानार्थः सूत्रितंच-घृतवती भुवनानामभिश्रियेन्द्रऋभु- भिर्वाजवद्भिरिति तृचाविति । बृहस्पतिसवे वैश्वदेवशस्त्रे एषतृचः सूत्रितं च-आभिप्लविके तृतीयेहनि वैश्वदेवशस्त्रे घृतेनद्यावापृथिवी इति तिस्रोद्यावापृथिवीयनिविद्धानार्थाः सूत्रितंच-घृतेनद्यावापृथिवीइति तिस्रोनश्वोजातइति ।