षष्ठं मण्डलम् - सूक्तम् 2

11 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: अग्निः छन्दः: अनुष्टुप्

सूक्तम् 6.2 - सम्पूर्णम्

1 / 11
ऋक्: 6.2.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
6.2.1
त्वं हि क्षैत᳚व॒द्यशो॑ग्ने᳚ मि॒त्रो न पत्य᳚से ।
त्वं वि᳚चर्षणे॒ श्रवो॒ वसो᳚ पु॒ष्टिं न पु᳚ष्यसि ॥
▶ पदपाठः (Word-by-word)
त्वम् । हि । क्षैत᳚॑वत् । यशः᳚ । अग्ने᳚ । मि॒त्रः । न । पत्य᳚से ।
त्वम् । वि॒॑च॒र्ष॒णे॒ । श्रवः᳚ । वसो॒ इति᳚ । पु॒ष्टिम् । न । पु॒ष्य॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यनिःश्वसितंवेदायोवेदेभ्योखिलंजगत् ॥ निर्ममेतमहंवन्देविद्यातीर्थमहेश्वरम् ॥ १ ॥

॥ अथपञ्चमाध्यायआरभ्यते ॥

षष्ठमण्डलस्यषडनुवाकात्मकस्य प्रथमेनुवाकेपञ्चदशसूक्तानि तत्रत्वंहीत्येकादशर्चंद्वितीयंसूक्तम् भरद्वाजस्यार्षमाग्ने- यम् अन्त्याषट्पञ्चाशदक्षराशक्वरी आदितोदशानुष्टुभः अनुक्रम्यतेहि-त्वंह्येकादशानुष्टुभंशक्वर्यंतमिति प्रातरनुवाके आग्नेयेक्रतौ आनुष्टुभे- छन्दसीदंसूक्तम् उत्तमावर्जंविनियुक्तम् सूत्र्यतेहि- त्वंहिक्षैतवदग्नायोहोताजनिष्टेति आश्विनशस्त्रेचैतच्छंसनीयं प्रातरनुवाकन्यायेनेत्यति- दिष्टत्वात् अङ्गिरसांद्विरात्रेद्वितीयेहनीदमेवसूक्तमाज्यशस्त्रं सूत्रितंच-त्वंहिक्षैतवदितिचाज्यमिति ।

हेअग्ने त्वंहि त्वंखलुक्षैतवत् क्षितिःक्षयोपचयस्तत्संबन्धिक्षैतं शुष्कंकाष्ठं तद्युक्तंयशोन्नंहविर्लक्षणंपत्यसे अभिपतसिगच्छसि तत्रदृष्टान्तः मित्रोन अहरभिमानीदेवोमित्रः सइव यद्वा यशइतिगृहनाम क्षैतवत् क्षैतं निवासकंहविर्लक्षणमन्नंतद्युक्तंयजमानगृहं मित्रभूतःपुरुषइवा- भिपतसि यद्वा पत्यतिरैश्वर्यकर्मा ईदृशमन्नं पत्यसे ईशिषे अतःकारणात् हेविश्वचर्षणेविशेषेणसर्वस्यद्रष्टः वसो वासकाग्नेत्वं श्रवःश्रवणी- यमन्नं यजमानगृहस्थंन अयंनशब्दश्चार्थे अन्नकार्यभूतांपुष्टिंच पुष्यसि वर्द्धयसि ॥ १ ॥

6.2.2
त्वां हि ष्मा᳚ चर्ष॒णयो᳚ य॒ज्ञेभि᳚र्गी॒र्भिरीळ᳚ते ।
त्वां वा॒जी या᳚त्यवृ॒को र᳚ज॒स्तूर्वि॒श्वच᳚र्षणिः ॥
▶ पदपाठः (Word-by-word)
त्वाम् । हि । स्म॒ । च॒र्ष॒णयः᳚ । य॒ज्ञेभिः᳚ । गीः॒॑भिः । ईळ᳚ते ।
त्वाम् । वा॒जी । या॒ति॒ । अ॒वृ॒कः । र॒जः॒॑तूः । वि॒श्व॑च᳚र्षणिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वांहिस्म त्वामेवखलु चर्षणयोमनुष्यायज्ञेभिर्यज्ञसाधनैर्हविर्भिर्गीर्भिः स्तुतिभिरीळतेस्तुवन्ति अपिच वाजी वाजोगमनं तद्वान् सूर्यस्त्वां याति गच्छति प्रविशतीत्यर्थः तथा चश्रूयते-अग्निंवावादित्यःसायंप्रविशतितस्मादग्निर्दूरान्नक्तंदशइति वाजिशब्दश्चसूर्यवाचक- त्वेनक्वचिछ्रूयते आग्निर्वायुःसूर्यः तेवैवाजिनइति वायुःसप्तिःआदित्योवाजीतिच कीदृशोवाजीअवृकोहिंसकरहितः रजस्तूः उदकमत्ररजउ- च्यते तस्यवृष्टिलक्षणस्यप्रेरयिता यद्वा रजसां लोकानां तरिता गन्ता विश्वचर्षणीः सर्वस्यद्रष्टा ॥ २ ॥

6.2.3
स॒जोष᳚स्त्वा दि॒वो नरो᳚ य॒ज्ञस्य᳚ के॒तुमि᳚न्धते ।
यद्ध॒ स्य मानु᳚षो॒ जनः᳚ सुम्ना॒युर्जु॒ह्वे अ᳚ध्व॒रे ॥
▶ पदपाठः (Word-by-word)
स॒॑जोषः᳚ । त्वा॒ । दि॒वः । नरः᳚ । य॒ज्ञस्य᳚ । के॒तुम् । इ॒न्ध॒ते॒ ।
यत् । ह॒ । स्य । मानु᳚षः । जनः᳚ । सु॒म्न॒॑युः । जु॒ह्वे । अ॒ध्व॒रे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने सजोषः सहोषसः सहप्रीयमाणादिवःस्तुतेर्नरोनेतारऋत्विजः यज्ञस्यकेतुं प्रदापकं त्वा त्वां इन्धते समिद्धंकुर्वन्ति कदेतिचेदु- च्यते यद्ध यदाखलु स्यः समानुषोमनोरपत्य भूतोजनोजातोयजमानोहोतावा सुम्नायुः सुम्नंसुखमात्मनइच्छन् अध्वरे हिंसाप्रत्यवायर- हितेयज्ञे जुह्वेत्वामाह्वयति तदेत्यर्थः ॥ ३ ॥

6.2.4
ऋध॒द्यस्ते᳚ सु॒दान᳚वे धि॒या मर्त᳚ः श॒शम᳚ते ।
ऊ॒ती ष बृ᳚ह॒तो दि॒वो द्वि॒षो अंहो॒ न त᳚रति ॥
▶ पदपाठः (Word-by-word)
ऋध᳚त् । यः । ते॒ । सु॒॑दान᳚वे । धि॒या । मर्तः᳚ । श॒शम᳚ते ।
ऊ॒ती । सः । बृ॒ह॒तः । दि॒वः । द्वि॒षः । अंहः᳚ । न । त॒र॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋधत् सयजमानः ऋध्नुयात् हेअग्ने सुदानवे शोभनदानाय तुभ्यं षष्ठ्यर्थे चतुर्थी तवसंबन्धिन्या धिया कर्मणा योमर्तोमरणधर्मा- यजमानः शशमते शाम्यति यद्वा शमतिःस्तुतिकर्मा त्वदर्थंकर्मणायुक्तःसन् स्तौतिसयजमानः बृहतोमहतः दिवोदीप्तस्यतव संबन्धिन्या ऊती ऊत्या रक्षया द्विषोद्वेष्टृन् अंहोन आहननशीलंपापमिवतरत्यतिक्रामति ॥ ४ ॥

6.2.5
स॒मिधा॒ यस्त॒ आहु᳚तिं॒ निशि᳚तिं॒ मर्त्यो॒ नश᳚त् ।
व॒याव᳚न्तं॒ स पु᳚ष्यति॒ क्षय᳚मग्ने श॒तायु᳚षम् ॥
▶ पदपाठः (Word-by-word)
स॒म्॑इधा᳚ । यः । ते॒ । आ॑हु᳚तिम् । नि॑शि᳚तिम् । मर्त्यः᳚ । नश᳚त् ।
व॒या॑व᳚न्तम् । सः । पु॒ष्य॒ति॒ । क्षय᳚म् । अ॒ग्ने॒ । श॒त॑आ᳚युषम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने समिधासमिन्धनहेतुभूतेनेध्मेनसह ते त्वदीयां निशितिं निशितां तनूकृतां मन्त्रसंस्क्रुतामाहुतिं योमर्त्योमनुष्यः नशत् व्याप्नुयात् नशतिर्व्याप्तिकर्मा स्मनुष्योयजमानः वयावन्तं वयाः शाखाः पुत्रपौत्रादिलक्शणास्तद्युक्तं शतायुषं बहुविधान्नं चिरकालजीवनंवा क्षयंगृ- हं पुष्यति पोषयति वर्द्धयति तत्रचिरकालमवतिष्ठतइत्यर्थः ॥ ५ ॥

6.2.6 समानपद
त्वे॒षस्ते᳚ धू॒म ऋ᳚ण्वति दि॒वि षञ्छु॒क्र आत᳚तः ।
सूरो॒ न हि द्यु॒ता त्वं कृ॒पा पा᳚वक॒ रोच᳚से ॥
▶ पदपाठः (Word-by-word)
त्वे॒षः । ते॒ । धू॒मः । ऋ॒ण्व॒ति॒ । दि॒वि । सन् । शु॒क्रः । आ॑त᳚तः ।
सूरः᳚ । न । हि । द्यु॒ता । त्वम् । कृ॒पा । पा॒व॒क॒ । रोच᳚से ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वेषःदीप्तस्य तेतव शुक्रः निर्मलः शुभ्रवर्णोवाधूमः दिव्यन्तरिक्षे आततोविस्तीर्णःसन् ऋण्वति मेघात्मनापरिणतोगच्छति अपिच हेपावक शोधकाग्ने सूरोन सूर्यइव कृपाअभिमुखीकरनसमर्थयास्तुत्या स्तूयमानस्त्वं द्युतादीप्त्या रोचसेहि दीप्यसेखलु ॥ ६ ॥

6.2.7
अधा॒ हि वि॒क्ष्वीड्यो॑सि᳚ प्रि॒यो नो॒ अति᳚थिः ।
र॒ण्वः पु॒री᳚व॒ जूर्य᳚ः सू॒नुर्न त्र᳚य॒याय्य᳚ः ॥
▶ पदपाठः (Word-by-word)
अध᳚ । हि । वि॒क्षु । ईड्यः᳚ । असि᳚ । प्रि॒यः । नः॒ । अति᳚थिः ।
र॒ण्वः । पु॒रि॑इ᳚व । जूर्यः᳚ । सू॒नुः । न । त्र॒य॒याय्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अधापिच विक्षु प्रजासु हेअग्ने त्वमीड्यः स्तुत्योसि भवसि हियस्मादर्थे यस्मादेवं तस्मान्नोस्माकमतिथिः लुप्तोपममेतत् अतिथिरिव- प्रियोसि यद्वा हविर्हहनाय सततगामीभूत्वास्माकंप्रियोसि तथा पुरीव नगर्यां जूर्यः जीर्णोवृद्धोहितोपदेष्टा राजेव रण्वोरमणीयोगन्त्व्यो- वा भवसि तथा सूनुर्न पुत्रइव त्रययाय्यः यजमानैस्त्रातव्यः पालयितव्योभवसि त्रायतेरेतद्रूपं यद्वैतत्सूनोर्विशेषणं विद्यातपःकर्मलक्षणं त्रयंयातीतित्रययाय्यः यातेरौणादिकआय्यप्रत्ययः स्पृहयाय्यइतियथा अथवा त्रययाय्योजन्मत्रयंप्राप्तः जन्मत्रयंस्मर्यते मातुरग्नेधिजननं- द्वितीयंमौंजिबन्धनात् । तृतीयंयज्ञदीक्षायाइतिजन्मत्रयंस्मृतमिति ॥ तादृशः पुत्रइतिरण्वोरमणीयोसि ॥ ७ ॥

6.2.8
क्रत्वा॒ हि द्रोणे᳚ अ॒ज्यसे॑ग्ने᳚ वा॒जी न कृत्व्य᳚ः ।
परि᳚ज्मेव स्व॒धा गयो॑त्यो॒ न ह्वा॒र्यः शिशु᳚ः ॥
▶ पदपाठः (Word-by-word)
क्रत्वा᳚ । हि । द्रोणे᳚ । अ॒ज्यसे᳚ । अग्ने᳚ । वा॒जी । न । कृत्व्यः᳚ ।
परि᳚ज्मा॑इव । स्व॒धा । गयः᳚ । अत्यः᳚ । न । ह्वा॒र्यः । शिशुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने क्रत्वा कर्मणामन्थनरूपेण द्रोणे द्रुमेकाष्ठे अरण्यांविद्यमानस्त्वं अज्यसेहि यज्यसेखलु तथा वाजीन वेजनवानश्वइव कृत्व्यः कृ- त्वीतिकर्मनाम हविर्वहनादीनांकर्मणांकर्ता सयथा पुरुषंवहति तद्वद्धविर्वहनमग्नेरश्वसादृश्यं तथा परिज्मेव परितः सर्वत्रगन्तावायुरिव दावानलादिरूपेणसर्वत्रगन्तात्वं स्वधा अन्ननामैतत् अन्नं गयः गृहंच भवसि उभयोर्दातेत्यर्थः अपिच शिशुर्जातमात्रोबालोपि त्वमत्योन सततगामीजात्यश्वइव ह्वार्यः कुटिलमितस्ततोगन्तासि ह्वकौटिल्ये इत्यस्यैतद्रपम् ॥ ८ ॥ कारीर्यामग्नेर्धामच्छदोवैकल्पिक्यनुवाक्यात्वंत्येति सूत्रितंच-त्वन्त्याचिदच्युताधामन्तेविश्वमिति ।

6.2.9 समानपद
त्वं त्या चि॒दच्यु॒ताग्ने᳚ प॒शुर्न यव᳚से ।
धामा᳚ ह॒ यत्ते᳚ अजर॒ वना᳚ वृ॒श्चन्ति॒ शिक्व᳚सः ॥
▶ पदपाठः (Word-by-word)
त्वम् । त्या । चि॒त् । अच्यु᳚ता । अग्ने᳚ । प॒शुः । न । यव᳚से ।
धाम᳚ । ह॒ । यत् । ते॒ । अ॒ज॒र॒ । वना᳚ । वृ॒श्चन्ति᳚ । शिक्व᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वन्त्या तानिकाष्ठानि चिच्छब्दोपिशब्दसमानार्थोभिन्नक्रमः अच्युताअच्युतानि च्यावयितुमशक्यान्यपि अत्सीतिशेषः तत्रदृ- ष्टान्तः यवसे घासेविसृष्टः पशुरिव सयथा सर्वंभक्षयति तथा त्वं प्रौढकाष्ठादीनि क्षणमात्रेणदहसीत्यर्थः हेअजर जरारहिताग्ने यद्यस्य सुपांसुलुगितिषष्ठ्याअलुक् शिक्वसोदीप्तस्य ते तव धाम धामानि तेजांसि वना वननीयानिसंभजनीयान्यरण्यानि वृश्चन्ति छिन्दन्ति तक्षन्ति सत्वमितिपर्वत्रान्वयः हेत्येत्त्पादपूरणम् ॥ ९ ॥

6.2.10
वेषि॒ ह्य᳚ध्वरीय॒तामग्ने॒ होता॒ दमे᳚ वि॒शाम् ।
स॒मृधो᳚ विश्पते कृणु जु॒षस्व᳚ ह॒व्यम᳚ङ्गिरः ॥
▶ पदपाठः (Word-by-word)
वेषि᳚ । हि । अ॒ध्व॒रि॒॑य॒ताम् । अग्ने᳚ । होता᳚ । दमे᳚ । वि॒शाम् ।
स॒म्॑ऋधः᳚ । वि॒श्प॒ते॒ । कृ॒णु॒ । जु॒षस्व᳚ । ह॒व्यम् । अ॒ङ्गि॒रः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने अध्वरीयतां अध्वरंयज्ञमात्मनइचच्छतां विशांयजमानानां दमे गृहे त्वंहोता देवानामहवातासन् वेषिहि स्तुतिंहवींषिवा यतः कामयसे अतःकारणात् विश्पते विशांपालकाग्ने समृधः समृद्धान् अस्मान्यजमानान् कृणु कुरु कृत्वाच हेअङ्गिरः अङ्गनादिगुणयुक्तः अ- ङ्गाररूपवाग्ने हव्यं अस्मदीयंहविः जषस्व सेवस्व ॥ १० ॥

6.2.11
अच्छा᳚ नो मित्रमहो देव दे॒वानग्ने॒ वोचः᳚ सुम॒तिं रोद᳚स्योः ।
वी॒हि स्व॒स्तिं सु᳚क्षि॒तिं दि॒वो नॄन्द्वि॒षो अंहां᳚सि दुरि॒ता त᳚रेम॒ ता त᳚रेम॒ तवाव᳚सा तरेम ॥
▶ पदपाठः (Word-by-word)
अच्छ᳚ । नः॒ । मि॒त्र॒॑म॒हः॒ । दे॒व॒ । दे॒वान् । अग्ने᳚ । वोचः᳚ । सु॒॑म॒तिम् । रोद᳚स्योः ।
वी॒हि । स्व॒स्तिम् । सु॒॑क्षि॒तिम् । दि॒वः । नॄन् । द्वि॒षः । अंहां᳚सि । दुः॒॑इ॒ता । त॒रे॒म॒ । ता । त॒रे॒म॒ । तव᳚ । अव᳚सा । त॒रे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हमित्रमहः अनुकूलदीप्ते देवदानादिगुणयुक्ताग्ने रोदस्योः द्यावापृथिव्योर्वर्तमानस्त्वं देवान्यष्टव्यानिन्द्रादीनच्छाभिमुख्येन नोस्माकं- सुमतिं स्तुतिं वोचः ब्रूहि दिवःस्तुतेर्नॄन्नेतॄनस्मान् सुक्षितिं शोभननिवासयुक्तं स्वस्तिं अविनाशं वीहि गमय वेतिरत्रान्तर्भावितण्यर्थोद्रष्ट- व्यः वयंच द्विषोद्वेष्टृन् शत्रूनंहांसिपापानि दुरिता तत्फलरूपाणि दुर्ग्मनानितरेम अतिक्रामेम तथा ता तानि व्यवहितानि जन्मान्तरकृता- निच पापादीनि तरेम उक्तएवार्थोदार्ढ्यायपुनरुच्यते हेअग्ने तवावसा रक्षणेन द्वेष्टृप्रभृतीनत्यन्तंतरेम ॥ ११ ॥

अग्नेसक्षेषदित्यष्टर्चंतृतीयंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमाग्नेयं अनुक्रान्तंच-अग्नेष्टौइति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।