क्रत्वा॒ हि द्रोणे᳚ अ॒ज्यसे॑ग्ने᳚ वा॒जी न कृत्व्य᳚ः ।
परि᳚ज्मेव स्व॒धा गयो॑त्यो॒ न ह्वा॒र्यः शिशु᳚ः ॥
परि᳚ज्मेव स्व॒धा गयो॑त्यो॒ न ह्वा॒र्यः शिशु᳚ः ॥
पदपाठः (Word-by-word)
क्रत्वा᳚ । हि । द्रोणे᳚ । अ॒ज्यसे᳚ । अग्ने᳚ । वा॒जी । न । कृत्व्यः᳚ ।
परि᳚ज्मा॑इव । स्व॒धा । गयः᳚ । अत्यः᳚ । न । ह्वा॒र्यः । शिशुः᳚ ॥
परि᳚ज्मा॑इव । स्व॒धा । गयः᳚ । अत्यः᳚ । न । ह्वा॒र्यः । शिशुः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने क्रत्वा कर्मणामन्थनरूपेण द्रोणे द्रुमेकाष्ठे अरण्यांविद्यमानस्त्वं अज्यसेहि यज्यसेखलु तथा वाजीन वेजनवानश्वइव कृत्व्यः कृ- त्वीतिकर्मनाम हविर्वहनादीनांकर्मणांकर्ता सयथा पुरुषंवहति तद्वद्धविर्वहनमग्नेरश्वसादृश्यं तथा परिज्मेव परितः सर्वत्रगन्तावायुरिव दावानलादिरूपेणसर्वत्रगन्तात्वं स्वधा अन्ननामैतत् अन्नं गयः गृहंच भवसि उभयोर्दातेत्यर्थः अपिच शिशुर्जातमात्रोबालोपि त्वमत्योन सततगामीजात्यश्वइव ह्वार्यः कुटिलमितस्ततोगन्तासि ह्वकौटिल्ये इत्यस्यैतद्रपम् ॥ ८ ॥ कारीर्यामग्नेर्धामच्छदोवैकल्पिक्यनुवाक्यात्वंत्येति सूत्रितंच-त्वन्त्याचिदच्युताधामन्तेविश्वमिति ।