या शश्व᳚न्तमाच॒खादा᳚व॒सं प॒णिं ता ते᳚ दा॒त्राणि᳚ तवि॒षा स᳚रस्वति ॥
पदपाठः (Word-by-word)
या । शश्व᳚न्तम् । आ॒॑च॒खाद᳚ । अ॒व॒सम् । प॒णिम् । ता । ते॒ । दा॒त्राणि᳚ । त॒वि॒षा । स॒र॒स्व॒ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
इयंसरस्वती रभसंवेगवन्तंऋणच्युतं वैदिकस्यदेवऋषिपितृसंबन्धिनोलैकिकस्यचऋणस्यच्यावयितारं दिवोदासमेतत्संज्ञंपुत्रं दाशुषेहवींषिदत्तवतेवध्र्यश्वाय एतत्संज्ञायऋषयेअददात् दत्तवती । यासरस्वतीशश्वन्तंबहुलंपणिंपणनशीलंवणिजं अदातृजनं अवसं- केवलंस्वात्मनएवत र्पकं आचखादआजघान । सेयमददादित्यन्वयः अथप्रत्यक्षीकृत्यस्तौति हेसरस्वति देवि तातानि पुत्रदानादीनितेत्व- दीयानिदात्राणिदानानि तविषातविषाणिमहान्तिभवन्ति ॥ १ ॥