षष्ठं मण्डलम् - सूक्तम् 68

11 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: इंद्रावरुणौ छन्दः: त्रिष्टुप्

सूक्तम् 6.68 - सम्पूर्णम्

1 / 11
ऋक्: 6.68.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
6.68.1
श्रु॒ष्टी वां᳚ य॒ज्ञ उद्य᳚तः स॒जोषा᳚ मनु॒ष्वद्वृ॒क्तब᳚र्हिषो॒ यज᳚ध्यै ।
आ य इन्द्रा॒वरु᳚णावि॒षे अ॒द्य म॒हे सु॒म्नाय᳚ म॒ह आ᳚व॒वर्त᳚त् ॥
▶ पदपाठः (Word-by-word)
श्रु॒ष्टी । वा॒म् । य॒ज्ञः । उत्॑य᳚तः । स॒॑जोषाः᳚ । म॒नु॒ष्वत् । वृ॒क्त॑ब᳚र्हिषः । यज᳚ध्यै ।
आ । यः । इन्द्रा॒वरु᳚णौ । इ॒षे । अ॒द्य । म॒हे । सु॒म्नाय᳚ । म॒हे । आ॒॑व॒वर्त᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

महे मंहनीयौ हे इन्द्रावरुणौ वां युवयोरर्थे श्रुष्टी क्षिप्रः तथा च यास्कः-श्रुष्टीति क्षिप्रनाम श्रु अष्टीति । यज्ञः सोमः सजोषाः ऋत्विग्भिः सहितः अद्य आसमन्तात् उद्यतः प्रवृत्तः यः सोमः मनुष्वत् मनोरिव बृक्तबर्हिषः स्तीर्णबर्हिषो यजमानस्य इषोन्नार्थं महे महते सुम्राय सुखाय च यजध्यै यष्टुं वां आववर्तत् आवर्तयति ॥ १ ॥

6.68.2
ता हि श्रेष्ठा᳚ दे॒वता᳚ता तु॒जा शूरा᳚णां॒ शवि᳚ष्ठा॒ ता हि भू॒तम् ।
म॒घोनां॒ मंहि᳚ष्ठा तुवि॒शुष्म᳚ ऋ॒तेन᳚ वृत्र॒तुरा॒ सर्व᳚सेना ॥
▶ पदपाठः (Word-by-word)
ता । हि । श्रेष्ठा᳚ । दे॒व॑ता᳚ता । तु॒जा । शूरा᳚णाम् । शवि᳚ष्ठा । ता । हि । भू॒तम् ।
म॒घोना᳚म् । मंहि᳚ष्ठा । तु॒वि॒॑शुष्मा᳚ । ऋ॒तेन᳚ । वृ॒त्र॒॑तुरा᳚ । सर्व᳚॑सेना ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रावरुणौ ता तौ प्रसिद्धौ युवां श्रेष्ठा श्रेष्टौ देवताता देवतातौ यज्ञे इष्टिर्देवतेति यज्ञनामसु पाठात् तुजा धनानां प्रेरकौ हि भूतं भवतम् । किं च ता तौ हि युवां शूराणां मध्ये शविष्ठा अतिशयेन बलवन्तौ भूतं किं च मघोनां दानवतां मंहिष्ठा दातृतमौ तुविशुष्मा बहुबलौ ऋतेन सत्येन वृत्रतुरा शत्रूणां हिंसकौ सर्वसेना कृत्स्नसेनौ च भूतमिति ॥ २ ॥

6.68.3
ता गृ᳚णीहि नम॒स्ये᳚भिः शू॒षैः सु॒म्नेभि॒रिन्द्रा॒वरु᳚णा चका॒ना ।
वज्रे᳚णा॒न्यः शव᳚सा॒ हन्ति᳚ वृ॒त्रं सिष᳚क्त्य॒न्यो वृ॒जने᳚षु॒ विप्र᳚ः ॥
▶ पदपाठः (Word-by-word)
ता । गृ॒णी॒हि॒ । न॒म॒स्ये᳚भिः । शू॒षैः । सु॒म्नेभिः । इन्द्रा॒वरु᳚णा । च॒का॒ना ।
वज्रे᳚ण । अ॒न्यः । शव᳚सा । हन्ति᳚ । वृ॒त्रम् । सिस᳚क्ति । अ॒न्यः । वृ॒जने᳚षु । विप्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे भरद्वाज नमस्येभिः स्तुत्यैः शूषैः बलैः शुषमिति बलनामसु पाठात् सुम्रेभिः सुखैश्च सर्वैश्चकाना स्तुतौ कायतिः शब्दकर्मा तस्य लिटः कानचि रूपमिदं ता तौ इन्द्रावरुणौ गृणीहि स्तुहि । अन्यः तयोरन्यइन्द्रः वृत्रं वृत्रनामकमसुरं वज्रेण हन्ति । अन्योवरुणः विप्रः प्राज्ञः वृजनेषु स्तोतॄणामुपद्रवेषु रक्षितुं शवसा बलेन सिषक्ति संगच्छते ॥ ३ ॥

6.68.4
ग्नाश्च॒ यन्नर᳚श्च वावृ॒धन्त॒ विश्वे᳚ दे॒वासो᳚ न॒रां स्वगू᳚र्ताः ।
प्रैभ्य᳚ इन्द्रावरुणा महि॒त्वा द्यौश्च᳚ पृथिवि भूतमु॒र्वी ॥
▶ पदपाठः (Word-by-word)
ग्नाः । च॒ । यत् । नरः᳚ । च॒ । व॒वृ॒धन्त᳚ । विश्वे᳚ । दे॒वासः᳚ । न॒राम् । स्व॑गू᳚र्ताः ।
प्र । ए॒भ्यः॒ । इ॒न्द्रा॒व॒रु॒णा॒ । म॒हि॒॑त्वा । द्यौः । च॒ । पृ॒थि॒वि॒ । भू॒त॒म् । उ॒र्वी इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नरां नृणां मनुष्याणां मध्ये ग्राश्च स्त्रियश्च मेना ग्रा इति स्त्रीणामिति यास्कवचनात् । नरश्च पुरुषाश्च विश्वे सर्वे देवासो देवाः देवास इत्यत्र पुमान् स्त्रियेत्येकशेषात् देव्यश्च देवाश्च देवास इति निर्देशः पुंवन्निर्देशः स्वगूर्ताः स्वयमुद्यताः यद्यदा ववृधन्त स्तुतिभिर्वर्ध- यन्ते । तदा हे इन्द्रावरुणौ महित्वा महत्वयुक्तौ एभ्यः स्तोतृभ्यः प्रभुतं प्रभवतं हे द्यौः पृथिवि च उभे उर्वी विस्तीर्णे युवां एभ्यः प्रभूतमित्यनुषंगः ॥ ४ ॥

6.68.5
स इत्सु॒दानु॒ः स्ववा{4}᳚ ऋ॒तावेन्द्रा॒ यो वां᳚ वरुण॒ दाश᳚ति॒ त्मन् ।
इ॒षा स द्वि॒षस्त᳚रे॒द्दास्वा॒न्वंस᳚द्र॒यिं र᳚यि॒वत᳚श्च॒ जना᳚न् ॥
▶ पदपाठः (Word-by-word)
सः । इत् । सु॒॑दानुः᳚ । स्व॑वा᳚न् । ऋ॒त॑वा᳚ । इन्द्रा᳚ । यः । वा॒म् । व॒रु॒णा॒ । दाश᳚ति । त्मन् ।
इ॒षा । सः । द्वि॒षः । त॒रे॒त् । दास्वा᳚न् । वंस᳚त् । र॒यिम् । र॒यि॒॑वतः᳚ । च॒ । जना᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रा इन्द्रौ वरुणा हे वरुणौ इतरेतरयोगादुभयत्रद्विवचनप्रयोगः वरुणेत्यत्र संहितायां ह्रस्वश्छान्दसः वां युवाभ्यां यो यजमानः त्मन् आत्मनैव दाशति हवींषि ददाति । स इत् स एव सुदानुः शोभनदानो भवति । स्ववान् धनवांश्च ऋतावा यज्ञवांश्च भवति । किं च सः दास्वान् दानवान् द्विषो द्वेष्टुः इषा अन्नेन जयलब्देन सह तरेत् प्राप्येत् । अपि च रयिं धनं रयिवतो धनवतो जनान् पुत्रांश्च वंसत् संभजेत् ॥ ५ ॥

6.68.6
यं यु॒वं दा॒श्व᳚ध्वराय देवा र॒यिं ध॒त्थो वसु᳚मन्तं पुरु॒क्षुम् ।
अ॒स्मे स इ᳚न्द्रावरुणा॒वपि᳚ ष्या॒त्प्र यो भ॒नक्ति᳚ व॒नुषा॒मश᳚स्तीः ॥
▶ पदपाठः (Word-by-word)
यम् । यु॒वम् । दा॒शु॑अ᳚ध्वराय । दे॒वा॒ । र॒यिम् । ध॒त्थः । वसु᳚॑मन्तम् । पु॒रु॒॑क्षुम् ।
अ॒स्मे इति᳚ । सः । इ॒न्द्रा॒व॒रु॒णौ॒ । अपि᳚ । स्या॒त् । प्र । यः । भ॒नक्ति᳚ । व॒नुषा᳚म् । अश᳚स्तीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवा देवौ स्तूयमानौ हे इन्द्रावरुणौ युवं युवां दाश्वध्वराय दत्तहविष्काय वसुमन्तं धनानुबन्धिनं पुरुक्षुं बह्वन्नं पूर्णयशस्कं वा यं यादृशं रयिं धनं धत्थः प्रयच्छथः योपि च वनुषां हिंसकानां अशस्तीः प्रकीर्तीः शत्रुकृतान्ययशांसीत्यर्थः । प्रभनक्ति प्ररुजति । सतादृशोरयिः अस्मे अस्मासु स्यात् भूयात् ॥ ६ ॥

6.68.7
उ॒त नः᳚ सुत्रा॒त्रो दे॒वगो᳚पाः सू॒रिभ्य᳚ इन्द्रावरुणा र॒यिः ष्या᳚त् ।
येषां॒ शुष्म॒ः पृत᳚नासु सा॒ह्वान्प्र स॒द्यो द्यु॒म्ना ति॒रते॒ ततु᳚रिः ॥
▶ पदपाठः (Word-by-word)
उ॒त । नः॒ । सु॒॑त्रा॒तः । दे॒व॑गो᳚पाः । सू॒रि॑भ्यः᳚ । इ॒न्द्रा॒व॒रु॒णा॒ । र॒यिः । स्या॒त् ।
येषा᳚म् । शुष्मः᳚ । पृत᳚नासु । सा॒ह्वान् । प्र । स॒द्यः । द्यु॒म्ना । ति॒रते᳚ । ततु᳚रिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापि च इन्द्रावरुणा हे इन्द्रावरुणौ सूरिभ्यः स्तोतृभ्यः नोस्मभ्यं सुत्रात्रः सुरक्षः देवगोपाः देवा गोपा गोप्तारो यस्य सतथाविधः रयिर्धनं स्यात् भूयात् । किं च यषोमस्माकं शुष्मो बलं पृतनासु युद्धेषु साह्वान् शत्रूणाममिभविता ततुरिः हिंसकश्च सन् द्युम्ना यशांसि सद्यएव प्रतिरथे सम्यक् तिरस्कुर्यात् ॥ ७ ॥

6.68.8
नू न᳚ इन्द्रावरुणा गृणा॒ना पृ॒ङ्क्तं र॒यिं सौ᳚श्रव॒साय᳚ देवा ।
इ॒त्था गृ॒णन्तो᳚ म॒हिन᳚स्य॒ शर्धो॒॑पो न ना॒वा दु᳚रि॒ता त᳚रेम ॥
▶ पदपाठः (Word-by-word)
नु । नः॒ । इ॒न्द्रा॒व॒रु॒णा॒ । गृ॒णा॒ना । पृ॒ङ्क्तम् । र॒यिम् । सौ॒श्र॒व॒साय᳚ । दे॒वा॒ ।
इ॒त्था । गृ॒णन्तः᳚ । म॒हिन᳚स्य । शर्धः᳚ । अ॒पः । न । ना॒वा । दुः॒॑इ॒ता । त॒रे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रावरुणा इन्द्रावरुणौ गृणाना स्तूयमानौ युवां नोस्मभ्यं सौश्रवसाय सुश्रवसोभावः सौश्रवसं तस्मै सुश्रवस्त्वाय रयिं धनं नु क्षिप्रं पृंक्तं प्रयच्छतम् । किं च देवा हे देवौ महिनस्य महतोर्युवयोः शर्धोबलं इत्था इत्थं गृणन्तः स्तुवन्तः वयं दुरिता दुरितानि नावा अपोन उदकानीव तरेम ॥ ८ ॥

6.68.9 समानपद
प्र स॒म्राजे᳚ बृह॒ते मन्म॒ नु प्रि॒यमर्च᳚ दे॒वाय॒ वरु᳚णाय स॒प्रथः᳚ ।
अ॒यं य उ॒र्वी म᳚हि॒ना महि᳚व्रत॒ः क्रत्वा᳚ वि॒भात्य॒जरो॒ न शो॒चिषा᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । स॒म्॑राजे᳚ । बृ॒ह॒ते । मन्म᳚ । नु । प्रि॒यम् । अर्च᳚ । दे॒वाय᳚ । वरु᳚णाय । स॒॑प्रथः᳚ ।
अ॒यम् । यः । उ॒र्वी इति᳚ । म॒हि॒ना । महि᳚॑व्रतः । क्रत्वा᳚ । वि॒॑भाति᳚ । अ॒जरः᳚ । न । शो॒चिषा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तोतः सम्राजे आज्ञया राज्ञां शासकाय बृहते परिबृढाय देवाय द्योतमानाय वरुणाय प्रियं मनोहरं सप्रथः सर्वतः पृथु तथा च यास्कः- सप्रथाः सर्वतः पृथुरिति । मन्म स्तोत्रं नु अद्य प्रार्च प्रोच्चारय अयं यः यो यं वरुणः महिना महिम्ना युक्तः महिव्रतोमहाकर्मा क्रत्वा प्रज्ञया च युक्तः शोचिषा तेजसा युक्तः अजरो न जरारहितश्च उर्वी विस्तीर्णे द्यावापृथिव्यौ विभाति विभासयति ॥ ९ ॥

6.68.10
इन्द्रा᳚वरुणा सुतपावि॒मं सु॒तं सोमं᳚ पिबतं॒ मद्यं᳚ धृतव्रता ।
यु॒वो रथो᳚ अध्व॒रं दे॒ववी᳚तये॒ प्रति॒ स्वस᳚र॒मुप᳚ याति पी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚वरुणा । सु॒त॒॑पौ॒ । इ॒मम् । सु॒तम् । सोम᳚म् । पि॒ब॒त॒म् । मद्य᳚म् । धृ॒त॒॑व्र॒ता॒ ।
यु॒वोः । रथः᳚ । अ॒ध्व॒रम् । दे॒व॑वी᳚तये । प्रति᳚ । स्वस᳚रम् । उप᳚ । या॒ति॒ । पी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रावरुणा हे इन्द्रावरुणौ सुतपौ सुतस्य सोमस्य पातारौ युवां मद्यं मदकरं सुतमभिषुतमिमं सोमं पिबतं किं च धृतव्रता हे धृतकर्माणौ युवोः युवयोः रथः अध्वरमुद्दिश्य देववीतये देवानां पानार्थं पीतये युवयोरपि सोमपानार्थं स्वसरं मार्गं प्रत्युपयाति ॥ १० ॥

6.68.11
इन्द्रा᳚वरुणा॒ मधु᳚मत्तमस्य॒ वृष्ण॒ः सोम᳚स्य वृष॒णा वृ᳚षेथाम् ।
इ॒दं वा॒मन्ध॒ः परि᳚षिक्तम॒स्मे आ॒सद्या॒स्मिन्ब॒र्हिषि᳚ मादयेथाम् ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚वरुणा । मधु᳚मत्॑तमस्य । वृष्णः᳚ । सोम᳚स्य । वृ॒ष॒णा॒ । आ । वृ॒षे॒था॒म् ।
इ॒दम् । वा॒म् । अन्धः᳚ । परि᳚॑सिक्तम् । अ॒स्मे इति᳚ । आ॒॑सद्य᳚ । अ॒स्मिन् । ब॒र्हिषि᳚ । मा॒द॒ये॒था॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रावरुणा इन्द्रावरुणौ वृषणा कामानां वर्षितारौ युवां मधुमत्तमस्य अतिशयेन मधुमन्तं रसवन्तं वृष्णोवर्षितारं सोमस्य सोमं आवृ- षेथां अश्नीतं तथा च शतपथब्राह्मणं-यथाभागमावृषायध्वमिति । यथाभागमश्नीतेत्येवैतदाहेति । वां युवयोरर्थे इदमन्धः सोमरूपमन्नं अस्मे अस्माभिः परिषिक्तं पात्रेषु अतः आसद्योपविश्यास्मिन्बर्हिषि यज्ञे मादयेथां सोमपानेनेतिशेषः ॥ ११ ॥

संवांकर्मणेत्यष्टर्चमष्टमं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रावैष्णवं अनुक्रम्यते च-संवामष्टावैन्द्रावैष्णवमिति । उक्थे तृतीयसवनेच्छा- वाकशस्त्रे एतत्सूक्तं सूत्र्यते हि-संवांकर्मणेन्द्राविष्णूमदपतीमदानामिति याज्येति । सोमातिरेके प्रातःसवने नैमित्तिके शस्त्रे परिहिते सति गाणगारिमते संवामिति तस्य शस्त्रयाज्या सूत्रितं च-इन्द्रावैष्णव्येति गाणगारिर्दैवतप्रधानत्वात् संवांकर्मणासमिषाहिनोमीति । सोमातिरेके माध्यंदिनसवने याविश्वासामित्येषा शस्त्रयाज्या सूत्रितं च- याविश्वासांजनितारामतीनामि तियाज्येति । उक्थे तृतीयसव- नेच्छावाकस्येन्द्राविष्णूपिबतमितिप्रस्थितयाज्या सूत्रितंच इन्द्राविष्णूपिबतंमध्वोअस्येमंस्तोममर्हतेजातवेदसइति ।