षष्ठं मण्डलम् - सूक्तम् 42

4 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: इंद्रः छन्दः: अनुष्टुप्

सूक्तम् 6.42 - सम्पूर्णम्

1 / 4
ऋक्: 6.42.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (4)
6.42.1
प्रत्य᳚स्मै॒ पिपी᳚षते॒ विश्वा᳚नि वि॒दुषे᳚ भर ।
अ॒रं॒ग॒माय॒ जग्म॒ये॑प᳚श्चाद्दघ्वने॒ नरे᳚ ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । अ॒स्मै॒ । पिपी᳚षते । विश्वा᳚नि । वि॒दुषे᳚ । भ॒र॒ ।
अ॒र॒म्॑ग॒माय᳚ । जग्म᳚ये । अप᳚श्चात्॑दघ्वने । नरे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअध्वर्यो अस्माइन्द्रायप्रतिभर अभिहर सोमंप्रयच्छेत्यर्थः कीदृशायेन्द्राय पिपीषतेपातुमिच्छते विश्वानिसर्वाणिवेद्यानिविदुषेजानते अरंगमाय पर्याप्तगमनाय जग्मयेयज्ञेषुगमनशीलाय अपश्चाद्दध्वने दघिर्गतिकर्मा अपश्चाद्गमनाय सर्वेषामग्रगामिने नरेनेत्रेयज्ञानां ॥ १ ॥ तृतीयेस्वरसाम्नि निष्केवल्येएमेनमितिस्तोत्रियस्तृचः सूत्रितंच—एमेनंप्रत्येतनेत्याद्योवासर्वेषामिति ।

6.42.2
एमे᳚नं प्र॒त्येत᳚न॒ सोमे᳚भिः सोम॒पात᳚मम् ।
अम᳚त्रेभिरृजी॒षिण॒मिन्द्रं᳚ सु॒तेभि॒रिन्दु᳚भिः ॥
▶ पदपाठः (Word-by-word)
आ । ई॒म् । ए॒न॒म् । प्र॒ति॒॑एत᳚न । सोमे᳚भिः । सो॒म॒॑पात᳚नम् ।
अम᳚त्रेभिः । ऋ॒जी॒षिण᳚म् । इन्द्र᳚म् । सु॒तेभिः᳚ । इन्दु᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअध्वर्यवः सोमेभिःसोमैःकरणभूतैः सोमपातमंअतिशयेनसोमस्यपातारमेनमिन्द्रं आअभिमुखंप्रत्येतनप्रतिगच्छत ईमितिनिपातेन- र्थकः कीदृशमिन्द्रं अमत्रेभिःअमत्रैः सोमपात्रैः ग्रहचमसादिभिः ऋजीषिणं ऋजीषंशत्रूणामुपार्जकंबलं तद्वन्तं यद्वा ऋजीषिणमित्युत्तरत्र- संबन्धनीयं सुतेभिरभिषुतैरिन्दुभिः सोमैःऋजीषिणं गतसारःसोमऋजीषः तद्वन्तं अथवा अमत्रेभिः अमत्रैरमात्रैरपरिमितैः अभिषुतैः सोमैः ऋजीषिणं ऋजेर्गत्यर्थात् भावसाधनऋजीषशब्दः ततोमत्वर्थीयइनिः संगतमित्यर्थः एवंविधमिन्द्रंप्रतिगच्छतेत्यन्वयः अन्यआह- अमत्रेभिः ग्रहचमसादिगतैः अभिषुतैः सोमैः ऋजीषिणं बलवन्तमेनंइन्द्रंप्रतिगच्छतेति ॥ २ ॥

6.42.3
यदी᳚ सु॒तेभि॒रिन्दु᳚भि॒ः सोमे᳚भिः प्रति॒भूष᳚थ ।
वेदा॒ विश्व᳚स्य॒ मेधि᳚रो धृ॒षत्तंत॒मिदेष᳚ते ॥
▶ पदपाठः (Word-by-word)
यदि᳚ । सु॒तेभिः᳚ । इन्दु᳚॑भिः । सोमे᳚भिः । प्र॒ति॒॑भूष᳚थ ।
वेद᳚ । विश्व᳚स्य । मेधि᳚रः । धृ॒षत् । तम्॑त᳚म् । इत् । आ । ई॒ष॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअध्वर्यवः सुतेभिरभिषुतैः इंदुभिरुंदनशीलैः दीप्तैर्वासोमेभिःसोमैः यदिप्रतिभूषथ इन्द्रंप्रतियूयंप्रतिगच्छथ भूप्राप्तावित्यस्यैतद्रूपं तदानींमेधिरोमेधावी मेधोयज्ञस्तद्वान् वासइन्द्रः विश्वस्य विश्वंसर्वंभवदीयंकामंवेद वेत्ति जानानि ज्ञात्वाच धृषत् श्त्रूणांधर्षकःसन् तंतमित् तंतंकाममेव एषतेप्रापयति ॥ ३ ॥

6.42.4
अ॒स्माअ᳚स्मा॒ इदन्ध॒सो॑ध्व᳚र्यो॒ प्र भ᳚रा सु॒तम् ।
कु॒वित्स᳚मस्य॒ जेन्य᳚स्य॒ शर्ध᳚तो॒॑भिश᳚स्तेरव॒स्पर᳚त् ॥
▶ पदपाठः (Word-by-word)
अ॒स्मै॑अ᳚स्मै । इत् । अन्ध᳚सः । अध्व᳚र्यो॒ इति᳚ । प्र । भ॒र॒ । सु॒तम् ।
कु॒वित् । स॒म॒स्य॒ । जेन्य᳚स्य । शर्ध᳚तः । अ॒भि॑श᳚स्तेः । अ॒व॒॑स्पर᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्मा अस्माइत् अस्मएवेन्द्राय नान्यस्मै हेअध्वर्यो त्वंअन्धसः सोमलक्षणस्यान्नस्य सुतमभिषुतंरसं प्रभर संप्रहर प्रयच्छेतियावत् सचेन्द्रः समस्यसर्वस्यजेन्यस्य जेतव्यस्य शर्धतः उत्सहमानस्यशत्रोः अभिशस्तेः अभिशंसनात् तत्कृताद्धिंसनात् कुविद्बहुशः अवस्परत् अस्मान्पालयतु ॥ ४ ॥

यस्यत्यदितिचतुरृचंविंशंसूक्तम् । भरद्वाजस्यार्षमौष्णिहमैन्द्रं अनुक्रम्यतेच—यस्यौष्णिहमिति । महाव्रतेपिनिष्केवल्येऔष्णिहतृचा- शीतावेतत्सूक्तं तथैवपंचमारण्यकेसूत्रितं—यस्यत्यच्छंबरंमदइतित्रयस्तृचागायत्र्यइति ।