षष्ठं मण्डलम् - सूक्तम् 62

11 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: अश्विनौ छन्दः: त्रिष्टुप्

सूक्तम् 6.62 - सम्पूर्णम्

1 / 11
ऋक्: 6.62.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
6.62.1
स्तु॒षे नरा᳚ दि॒वो अ॒स्य प्र॒सन्ता॒श्विना᳚ हुवे॒ जर᳚माणो अ॒र्कैः ।
या स॒द्य उ॒स्रा व्युषि॒ ज्मो अन्ता॒न्युयू᳚षत॒ः पर्यु॒रू वरां᳚सि ॥
▶ पदपाठः (Word-by-word)
स्तु॒षे । नरा᳚ । दि॒वः । अ॒स्य । प्र॒॑सन्ता᳚ । अ॒श्विना᳚ । हु॒वे॒ । जर᳚माणः । अ॒र्कैः ।
या । स॒द्यः । उ॒स्रा । वि॒॑उषि᳚ । ज्मः । अन्ता᳚न् । युयू᳚षतः । परि᳚ । उ॒रु । वरां᳚सि ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्य नि:श्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

अथ पंचमाष्टके प्रथमोऽध्याय आरभ्यते । षष्ठमंडलस्य षष्ठेऽनुवाके चतुर्दश सूक्तानि । तत्र स्तुषे नरेत्येकादशर्चं प्रथमं सूक्तं, अत्रेयमनुवाकानुक्रमणिका स्तुष एकादशाश्विनं त्विति । मंडलद्रष्टा बार्हस्पत्यो भारद्वाज ऋषि: । अनुक्तत्वात्त्रिष्टुप्छन्द:, अश्विनौ देवता । प्रातरनुवाकाश्विने क्रतौ इदमादिके द्वे सूक्ते आश्विनशस्त्रे चैत एव सूत्रितं च स्तुषे नरेति सूक्ते इति ।

दिवो द्युलोकस्य नरा नेतारो अस्य भुवनस्य प्रसन्ता प्रसन्तौ प्रभवन्तावीश्वरौ अश्विन अश्विनौ अश्व्वैरन्वितौ स्तुषे प्रगीतमंत्रसाध्यै: स्तोत्रै: स्तोतुम् अर्कै: अर्चनीयमंत्रसाध्यै: शस्त्रै: जरमाण: स्तुतिं कुर्वन् हुवे आह्वयामि । कीद्रुशावित्यपेक्षायां या यौ सद्यएव उस्रा शत्रूणां निवारकौ व्युषि व्युष्टौ निशाया: समाप्तौ ज्म: पृथिव्या: अन्तान् पर्यन्तान् उरु पुरूणि वरांसि रूपस्यावरकाणि तमांसि च परि परित: युयूषत: पृथक्कुरुत: । अथवा वरांसि तेजांसि तमोनिवारणान्परि युयूषत: विस्तारयत: ।

6.62.2 समानपद
ता य॒ज्ञमा शुचि᳚भिश्चक्रमा॒णा रथ᳚स्य भा॒नुं रु᳚रुचू॒ रजो᳚भिः ।
पु॒रू वरां॒स्यमि᳚ता॒ मिमा᳚ना॒पो धन्वा॒न्यति᳚ याथो॒ अज्रा᳚न् ॥
▶ पदपाठः (Word-by-word)
ता । य॒ज्ञम् । आ । शुचि᳚॑भिः । च॒क्र॒मा॒णा । रथ᳚स्य । भा॒नुम् । रु॒रु॒चुः॒ । रजः᳚॑भिः ।
पु॒रु । वरां᳚सि । अमि᳚ता । मिमा᳚ना । अ॒पः । धन्वा᳚नि । अति᳚ । या॒थः॒ । अज्रा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

किंच ता तौ प्रसिध्दौ अश्विनौ यज्ञं अस्मदीयं यागं आचक्रमाणा अभिचक्रर्माणौ शुचिभिर्निर्मलैः रजोभिः स्वीयैः तेजोभिः रजॊरजतेर्ज्यॊतीरजउच्यतइतियास्कॆनॊक्तत्वात् रथस्य स्वकीयस्य रथस्य भानुं दीप्तिं रुरुचुः रॊचयेते । अपि च पुरु बहूनि वरांसि तमॊनिवारकाणि तॆजांसि अमिता अपरिमितानि मिमाना निर्मिमाणौ अप उद्दिश्य धन्वानि मरुप्रदॆशान् अज्रान् स्वकीयान् अश्वान् अतियाथ: अतिक्रामयथ: ॥ २ ॥

6.62.3
ता ह॒ त्यद्व॒र्तिर्यदर᳚ध्रमुग्रे॒त्था धिय᳚ ऊहथु॒ः शश्व॒दश्वै᳚ः ।
मनो᳚जवेभिरिषि॒रैः श॒यध्यै॒ परि॒ व्यथि᳚र्दा॒शुषो॒ मर्त्य᳚स्य ॥
▶ पदपाठः (Word-by-word)
ता । ह॒ । त्यत् । व॒र्तिः । यत् । अर᳚ध्रम् । उ॒ग्रा॒ । इ॒त्था । धियः᳚ । ऊ॒ह॒थुः॒ । शश्व᳚त् । अश्वैः᳚ ।
मनः᳚॑जवेभिः । इ॒षि॒रैः । श॒यध्यै᳚ । परि᳚ । व्यथिः᳚ । दा॒शुषः᳚ । मर्त्य᳚स्य ॥
▶ सायणभाष्यम् (Sayana Commentary)

ता ह तौ खलु उग्रा उग्रौ अश्विनौ युवां यत् अरध्रं असमृद्धं त्यद्वैर्तिर्यजमानस्य तद्गृहं समर्धयितुं गच्छथ: । किंचेत्था इत्थं धियः स्तॊतॄन् इषिरैः एषणीयै: काम्यै: मनॊजवेभिर्मनॊवेगै: अश्वै: स्वीयैरश्वै: शश्वत्सर्वदा ऊहथु: स्वर्गं प्रापयथ: । मर्त्यस्य मनुष्यस्य दाशुषॊयजमानस्यव्यथि र्हिंसक: परिशयध्यै परिशयनाय दीर्घनिद्रायै युवाभ्यां क्रियतां ॥ ३ ॥

6.62.4
ता नव्य᳚सो॒ जर᳚माणस्य॒ मन्मोप᳚ भूषतो युयुजा॒नस᳚प्ती ।
शुभं॒ पृक्ष॒मिष॒मूर्जं॒ वह᳚न्ता॒ होता᳚ यक्षत्प्र॒त्नो अ॒ध्रुग्युवा᳚ना ॥
▶ पदपाठः (Word-by-word)
ता । नव्य᳚सः । जर᳚माणस्य । मन्म᳚ । उप᳚ । भू॒ष॒तः॒ । यु॒यु॒जा॒नस᳚प्ती॒ इति᳚ यु॒यु॒जा॒न॑स᳚प्ती ।
शुभ᳚म् । पृक्ष᳚म् । इष᳚म् । ऊर्ज᳚म् । वह᳚न्ता । होता᳚ । य॒क्ष॒त् । प्र॒त्नः । अ॒ध्रुक् । युवा᳚ना ॥
▶ सायणभाष्यम् (Sayana Commentary)

ता तावश्विनौ युयुजानसप्तीरथे युज्यमानाश्वौ शुभं शॊभनं पृक्षमन्नं पय: पृक्ष इत्यन्ननामसु पाठात् इषं पुष्टिं ऊर्जं रसं च वहन्ता वहन्तौ नव्यसो नवतरस्य जरमाणस्य स्तुतिं कुर्वत: मन्म मननीयं स्तोत्रं उपभूषत: उपगच्छत: । यद्वा स्तोत्रसमीपेभवत: किंचयुवाना नित्यतरुणौ तौ होता देवानामाह्वाता अध्रुक् अद्रोग्धा प्रिय: प्रत्न: पुराणाग्नि: यक्षत् यजतु ॥ ४ ॥

6.62.5
ता व॒ल्गू द॒स्रा पु᳚रु॒शाक᳚तमा प्र॒त्ना नव्य᳚सा॒ वच॒सा वि᳚वासे ।
या शंस᳚ते स्तुव॒ते शम्भ᳚विष्ठा बभू॒वतु᳚र्गृण॒ते चि॒त्ररा᳚ती ॥
▶ पदपाठः (Word-by-word)
ता । व॒ल्गू इति᳚ । द॒स्रा । पु॒रु॒शाक᳚॑तमा । प्र॒त्ना । नव्य᳚सा । वच᳚सा । आ । वि॒वा॒से॒ ।
या । शंस᳚ते । स्तु॒व॒ते । शम्॑भ᳚विष्ठा । ब॒भू॒वतुः᳚ । गृ॒ण॒ते । चि॒त्ररा᳚ती॒ इति᳚ चि॒त्र॑रा᳚ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

या यौ शंसते शस्त्रै: स्तुतिं कुर्वते स्तुवते स्तोत्रै: स्तुतिं कुर्वते जनाय शंभविष्ठा अतिशयेन सुखस्य भावयितारौ अतिशयेन सुखस्वरूपौ वा गृणते स्तोत्रशस्त्रव्यतिरिक्तलौकिकस्तुतिभि: स्तुवते च चित्रराती विचित्रदानौ बभूवतु: । ता तौ वल्गू वलनशीलौ रुचिरौ वा पुरुशाकतमा अतिशयेन बहुकर्माणौ बहुसाहायौ वा प्रत्ना प्रत्नौ पुराणौ प्रत्नं प्रदिवइति पुराणनामसु पाठात् दस्रा दर्शनीयौ अश्विनौ नव्यसा नवतरेण वचस स्तुत्य आविवासे परिचरामि ॥ ५ ॥

6.62.6
ता भु॒ज्युं विभि᳚र॒द्भ्यः स᳚मु॒द्रात्तुग्र᳚स्य सू॒नुमू᳚हथू॒ रजो᳚भिः ।
अ॒रे॒णुभि॒र्योज᳚नेभिर्भु॒जन्ता᳚ पत॒त्रिभि॒रर्ण᳚सो॒ निरु॒पस्था᳚त् ॥
▶ पदपाठः (Word-by-word)
ता । भु॒ज्युम् । वि॑भिः᳚ । अ॒त्॑भ्यः । स॒मु॒द्रात् । तुग्र᳚स्य । सू॒नुम् । ऊ॒ह॒थुः॒ । रजः᳚॑भिः ।
अ॒रे॒णु॑भिः᳚ । योज᳚नेभिः । भु॒जन्ता᳚ । प॒त॒त्रि॑भिः᳚ । अर्ण᳚सः । निः । उ॒प॑स्था᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ता तावश्विनौ युवां तुग्रस्य सूनुं भुज्युं भुज्युनामकं समुद्रमध्यॆ भग्ननावं भुजन्ता रक्षन्तौ अरॆणुभिः रॆणुसहितैः आन्तरिक्षैः रजॊभिर्मार्गैः यॊजनॆभिःरथयुक्तैः पतत्रिभिः पतनवद्भिः विभिः अश्वैः अर्णसॊजलस्य उपस्थात् यॊनॆः समुद्रात् अद्भ्यॊ निरूहथुः निरगमयतम् । समुद्रादद्भ्यइति प्रयॊगॊ मातुर्गृहाद्गच्छतीतिवत् ॥ ६ ॥

6.62.7
वि ज॒युषा᳚ रथ्या यात॒मद्रिं᳚ श्रु॒तं हवं᳚ वृषणा वध्रिम॒त्याः ।
द॒श॒स्यन्ता᳚ श॒यवे᳚ पिप्यथु॒र्गामिति᳚ च्यवाना सुम॒तिं भु᳚रण्यू ॥
▶ पदपाठः (Word-by-word)
वि । ज॒युषा᳚ । र॒थ्या॒ । या॒त॒म् । अद्रि᳚म् । श्रु॒तम् । हव᳚म् । वृ॒ष॒णा॒ । व॒ध्रि॒॑म॒त्याः ।
द॒श॒स्यन्ता᳚ । श॒यवे᳚ । पि॒प्य॒थुः॒ । गाम् । इति᳚ । च्य॒वा॒ना॒ । सु॒॑म॒तिम् । भु॒र॒ण्यू॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

रथ्या हॆ रथारूढावश्विनौ जयुषा जयशीलॆन रथॆन अद्रिं मार्गॆ स्थितं पर्वतं वियातं व्यबाधॆथाम् । यातिरत्र वधकर्मा तथा च निगमान्तरं-विभिन्दुनानासत्यारथॆनविपर्वताँअजरयूअयातमिति । वृषणा कामानां वर्षितारौ वध्रिमत्याः पुत्रार्थिन्याः हवमाह्वानं शृतं शृणुतं दशस्यन्ता स्तॊतृभ्यः कामान्प्रयच्छन्तौ शयवॆ युवां स्तुवतॆ गां निवृत्तप्रसवां पिप्यथुः क्षीरॆणाप्याययतम् । तथाचनिगमान्तरं-शयवॆचिन्नासत्याशचीभिर्जसुरयॆस्तर्यंपिप्यथुर्गामिति । सुष्टुतिं इतीथ्थं सुमतिं च्यवाना गच्छन्तौ भुरण्यू सर्वत्र गन्तारौ यज्ञस्य भर्तारौ वा भवतं ॥ ७ ॥

6.62.8
यद्रो᳚दसी प्र॒दिवो॒ अस्ति॒ भूमा॒ हेळो᳚ दे॒वाना᳚मु॒त म᳚र्त्य॒त्रा ।
तदा᳚दित्या वसवो रुद्रियासो रक्षो॒युजे॒ तपु᳚र॒घं द᳚धात ॥
▶ पदपाठः (Word-by-word)
यत् । रो॒द॒सी॒ इति᳚ । प्र॒॑दिवः᳚ । अस्ति᳚ । भूम᳚ । हेळः᳚ । दे॒वाना᳚म् । उ॒त । म॒र्त्य॒॑त्रा ।
तत् । आ॒दि॒त्याः॒ । व॒स॒वः॒ । रु॒द्रि॒या॒सः॒ । र॒क्षः॒॑युजे᳚ । तपुः᳚ । अ॒घम् । द॒धा॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

रॊदसी हॆ द्यावापृथिव्यौ हॆ आदित्याः हॆ वसवः र्द्रियासः हॆ रुद्रपुत्राः मरुतः मर्त्यत्रा मर्त्यॆषु अश्विनॊः परिचारकॆषु दॆवानां यद्धॆळः क्रॊधः भूम महानस्ति तद्धॆळः तपुस्तापकं रक्षॊयुजॆ रक्षॊ-भिर्युक्ताय रक्षसां स्वामिनॆ प्रॆरकाय वा अघं आहन्तृ दधात कुरुत । अथवा रक्षॊयुजॆ रक्षॊभिर्युक्ताय यज्वनॆ अघमाहन्तृ कुरुत ॥ ८ ॥

6.62.9
य ईं॒ राजा᳚नावृतु॒था वि॒दध॒द्रज᳚सो मि॒त्रो वरु᳚ण॒श्चिके᳚तत् ।
ग॒म्भी॒राय॒ रक्ष᳚से हे॒तिम᳚स्य॒ द्रोघा᳚य चि॒द्वच᳚स॒ आन᳚वाय ॥
▶ पदपाठः (Word-by-word)
यः । ई॒म् । राजा᳚नौ । ऋ॒तु॒॑था । वि॒॑दध᳚त् । रज᳚सः । मि॒त्रः । वरु᳚णः । चिके᳚तत् ।
ग॒म्भी॒राय᳚ । रक्ष᳚से । हे॒तिम् । अ॒स्य॒ । द्रोघा᳚य । चि॒त् । वच᳚से । आन᳚वाय ॥
▶ सायणभाष्यम् (Sayana Commentary)

यॊ नरः रजसः समस्तलॊकस्य लॊकारजांस्युच्यन्तॆ इति यास्कॆनॊक्तत्वात् राजानौ ईं ऎतावश्विनौ ऋतुथा कालॆकालॆ विदधत्परिचरति तं मित्रॊवरुणश्च चिकॆतत् जानीयात् मित्रवरुणप्रभृतयॊदॆवा ऎनं विदु रित्यर्थः । किंच अयं परिचारकः गंभीराय महाबलाय रक्षसॆ राक्षसाय हॆतिं घातकमायुधं अस्य अस्यति क्षिपति प्रथमपुरुषस्य मध्यमपुरुषॆण व्यत्ययः द्रॊघायाभिद्रॊहात्मकाय आनवाय मनुष्य- संबन्धिनॆ वचसॆ चित् वचनायैव हॆतिमस्यति मनुष्याणामभिद्रॊहायैनमास्कन्दतीति ॥ ९ ॥

6.62.10
अन्त᳚रैश्च॒क्रैस्तन᳚याय व॒र्तिर्द्यु॒मता या᳚तं नृ॒वता॒ रथे᳚न ।
सनु᳚त्येन॒ त्यज᳚सा॒ मर्त्य᳚स्य वनुष्य॒तामपि᳚ शी॒र्षा व᳚वृक्तम् ॥
▶ पदपाठः (Word-by-word)
अन्त᳚रैः । च॒क्रैः । तन᳚याय । व॒र्तिः । द्यु॒॑मता᳚ । आ । या॒त॒म् । नृ॒॑वता᳚ । रथे᳚न ।
सनु᳚त्येन । त्यज᳚सा । मर्त्य᳚स्य । व॒नु॒ष्य॒ताम् । अपि᳚ । शी॒र्षा । व॒वृ॒क्त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ अन्तरैः अनिकृष्टैश्चक्रैर्युक्तेन द्युमता दीप्तिमता नृवता नेत्रा सारथिना युक्तेन यद्वा अश्वयुक्तेन पतंगाः नर इति अश्वनामसु पाठात् रथेन वर्तिः अस्माकं गृहं तनयाय तनयं दातुं आयातं अपि च सनुत्येन तिरोहितेन त्यजसा क्रोधेन हृणिस्त्यजइति क्रोधनामसु पाठात् मर्त्यस्य मनुष्यस्य वनुष्यतां बाधमानानां वनुष्यतिर्हंतिकर्मेति यास्केनोक्तत्वात् शीर्घा शिरांस्यपि ववृक्तं प्रवृक्तं ॥ १० ॥

6.62.11
आ प᳚र॒माभि᳚रु॒त म᳚ध्य॒माभि᳚र्नि॒युद्भि᳚र्यातमव॒माभि᳚र॒र्वाक् ।
दृ॒ळ्हस्य᳚ चि॒द्गोम᳚तो॒ वि व्र॒जस्य॒ दुरो᳚ वर्तं गृण॒ते चि᳚त्रराती ॥
▶ पदपाठः (Word-by-word)
आ । प॒र॒माभिः᳚ । उ॒त । म॒ध्य॒माभिः᳚ । नि॒युत्॑भिः᳚ । या॒त॒म् । अ॒व॒माभिः᳚ । अ॒र्वाक् ।
दृ॒ळ्हस्य᳚ । चि॒त् । गो॑म᳚तः । वि । व्र॒जस्य᳚ । दुरः᳚ । व॒र्त॒म् । गृ॒ण॒ते । चि॒त्र॒रा॒ती॒ इति᳚ चित्र॑राती ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ परमाभिरुत्कृष्टाभिः उतापि च मध्यमाभिरनुत्कृष्टाभिः अवमाभिः निकृष्टाभिश्च नियुद्भिः वाहैरर्वागस्मदभिमुखं आयातं दृह्ळस्य चित् दृह्ळापिधानस्यापि गोमतो गोयुक्तस्य व्रजस्य गोष्ठस्य दुरो द्वाराणि विवर्तं विवृणुतम् । किंच गृणने स्तुवते मह्यं चित्रराती विचित्रदानौ भवतं ॥ ११ ॥

क्वत्येत्येकादशर्चं द्वितीयं सूक्तं भरद्वाजस्यार्षं अत्रेयमनुक्रमणिका क्वत्यैकपदान्तं त्रैष्टुभमिति आवांसुम्नइत्येकादशी एकपदात्रिष्टुप् शिष्टास्त्रिष्टुभः आश्विनं त्वित्युक्तत्वात् अस्यापि सूक्तस्य अश्विनौ देवता प्रातरनुवाकाश्विनशस्त्रयोः त्रैष्टुभे छन्दसि विनियोगः ।