षष्ठं मण्डलम् - सूक्तम् 67

11 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: मित्रावरुणौ छन्दः: त्रिष्टुप्

सूक्तम् 6.67 - सम्पूर्णम्

1 / 11
ऋक्: 6.67.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
6.67.1
विश्वे᳚षां वः स॒तां ज्येष्ठ᳚तमा गी॒र्भिर्मि॒त्रावरु᳚णा वावृ॒धध्यै᳚ ।
सं या र॒श्मेव᳚ य॒मतु॒र्यमि᳚ष्ठा॒ द्वा जना{4}॒ अस᳚मा बा॒हुभि॒ः स्वैः ॥
▶ पदपाठः (Word-by-word)
विश्वे᳚षाम् । वः॒ । स॒ताम् । ज्येष्ठ᳚॑तमा । गीः॒॑भिः । मि॒त्रावरु᳚णा । व॒वृ॒धध्यै᳚ ।
सम् । या । र॒श्मा॑इ᳚व । य॒मतुः᳚ । यमि᳚ष्ठा । द्वा । जना᳚न् । अस᳚मा । बा॒हु॑भिः᳚ । स्वैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वेषां सतां मध्ये ज्येष्ठतमा ज्येष्ठतमौ मित्रावरुणौ वः वां गीर्भिः स्तुतिभिः ववृधध्यै वर्धयितुं प्रवृत्तोस्मि या यौ द्वा द्वौ सहितौ असमा विषमौ त्रिरश्रिंहन्तिचतुरश्रिरुग्रइति निगमान्तरेण साम्यं दर्शितं यमिष्ठा यन्तृतमौ स्वै रात्मीयै र्बाहुभिः रश्मेव रश्मिनेव अश्वान् जनान् संयमतुः संगच्छतः बाहुभिरिति बहुवचनं पूजार्थं ॥ १ ॥

6.67.2
इ॒यं मद्वां॒ प्र स्तृ᳚णीते मनी॒षोप᳚ प्रि॒या नम᳚सा ब॒र्हिरच्छ᳚ ।
य॒न्तं नो᳚ मित्रावरुणा॒वधृ᳚ष्टं छ॒र्दिर्यद्वां᳚ वरू॒थ्यं᳚ सुदानू ॥
▶ पदपाठः (Word-by-word)
इ॒यम् । मत् । वा॒म् । प्र । स्तृ॒णी॒ते॒ । म॒नी॒षा । उप᳚ । प्रि॒या । नम᳚सा । ब॒र्हिः । अच्छ᳚ ।
य॒न्तम् । नः॒ । मि॒त्रा॒व॒रु॒णौ॒ । अधृ᳚ष्टम् । छ॒र्दिः । यत् । वा॒म् । व॒रू॒थ्य᳚म् । सु॒दा॒नू॒ इति᳚ सु॑दानू ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रावरुणौ वां युवां मत् मम इयं मनीषा स्तुतिः प्रस्तृणीते प्रच्छादयति । प्रिया हे प्रियौ युवां नमसा अन्नेन हविषा सहोपगच्छति च । युवयोः बर्हिः यज्ञमच्छ अभिगच्छति च । हे मित्रावरुणौ नोस्मभ्यं अधृष्टं अनभिभूतं छर्दिर्गृहं यंतं प्रयच्छतं हे सुदानू शोभनदानौ घां युवयोः संबन्धि युवाभ्यां देयं यद्गृहं वरूथ्यं शीतवातातपाना बारयितु भवति ॥ २ ॥

6.67.3
आ या᳚तं मित्रावरुणा सुश॒स्त्युप᳚ प्रि॒या नम᳚सा हू॒यमा᳚ना ।
सं याव᳚प्न॒ःस्थो अ॒पसे᳚व॒ जना᳚ञ्छ्रुधीय॒तश्चि᳚द्यतथो महि॒त्वा ॥
▶ पदपाठः (Word-by-word)
आ । या॒त॒म् । मि॒त्रा॒व॒रु॒णा॒ । सु॒॑श॒स्ति । उप᳚ । प्रि॒या । नम᳚सा । हू॒यमा᳚ना ।
सम् । यौ । अ॒प्नः॒॑स्थः । अ॒पसा᳚॑इव । जना᳚न् । श्रु॒धि॒॑य॒तः । चि॒त् । य॒त॒थः॒ । म॒हि॒॑त्वा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रावरुणौ सुशस्ति शोभनशंसनं नमसा अन्नेन हविषा स्तोत्रेणा हूयमाना स्तूयमानौ प्रिया विश्वस्य प्रियौ उपायातं उपागच्छतम् । यौ महित्वा महत्वेनयुक्तौ युवां श्रुधीयतः श्रुधिगन्नं यशो वा आत्मनइच्छतो जनान् अप्नःस्थः कर्मण्यधिकृतः पुरुषः अपः अप्नइति कर्मनामसु पाठात् अपसेव कर्मणेव संयतथः संगच्छथः ॥ ३ ॥

6.67.4 समानपद
अश्वा॒ न या वा॒जिना᳚ पू॒तब᳚न्धू ऋ॒ता यद्गर्भ॒मदि᳚ति॒र्भर᳚ध्यै ।
प्र या महि᳚ म॒हान्ता॒ जाय᳚माना घो॒रा मर्ता᳚य रि॒पवे॒ नि दी᳚धः ॥
▶ पदपाठः (Word-by-word)
अश्वा᳚ । न । या । वा॒जिना᳚ । पू॒तब᳚न्धू॒ इति᳚ पू॒त॑ब᳚न्धू । ऋ॒ता । यत् । गर्भ᳚म् । अदि᳚तिः । भर᳚ध्यै ।
प्र । या । महि᳚ । म॒हान्ता᳚ । जाय᳚माना । घो॒रा । मर्ता᳚य । रि॒पवे᳚ । नि । दी॒ध॒रिति᳚ दीधः ॥
▶ सायणभाष्यम् (Sayana Commentary)

या यौ अश्वान अश्वाविव वाजिना वाजिनौ बलिनौ पूतबन्धू पूतस्तोत्रौ ऋता सत्यौ च यत् यौ गर्भं गर्भभूतौ अदितिर्देवी भरध्यै बभार । किं च या यौ जायमाना जायमानायेव महि महतो महान्ता महत्तरौ प्रभूतौ मित्रावरुणौ मर्ताय मर्त्याय रिपवे हिंसकाय घोरा घोरौ घातकौ निदीधः निदधार अदितिः स्वोदरे ॥ ४ ॥

6.67.5
विश्वे॒ यद्वां᳚ मं॒हना॒ मन्द᳚मानाः क्ष॒त्रं दे॒वासो॒ अद᳚धुः स॒जोषा᳚ः ।
परि॒ यद्भू॒थो रोद᳚सी चिदु॒र्वी सन्ति॒ स्पशो॒ अद᳚ब्धासो॒ अमू᳚राः ॥
▶ पदपाठः (Word-by-word)
विश्वे᳚ । यत् । वा॒म् । मं॒हना᳚ । मन्द᳚मानाः । क्ष॒त्रम् । दे॒वासः᳚ । अद᳚धुः । स॒॑जोषाः᳚ ।
परि᳚ । यत् । भू॒थः । रोद᳚सी॒ इति᳚ । चि॒त् । उ॒र्वी इति᳚ । सन्ति᳚ । स्पशः᳚ । अद᳚ब्धासः । अमू᳚राः ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वे सर्वे देवासो देवाः सजोषाः परस्परं प्रीतियुक्ताः यत् यौ वां युवां मंहना महत्वेन मंदमानाः स्तुवन्तः क्षत्रं बलमदधुः धत्तवन्तः । किं च यत् यौ युवां उर्वी विस्तीर्णे रोदसी द्यावापृथिव्यौ परिभूथः परिभवथः । तयोर्युवयोः अदब्धासः अहिंसिताः अमूराः अमूढाः स्पशः रश्मयश्चरा वा सन्ति ॥ ५ ॥

6.67.6 समानपद
ता हि क्ष॒त्रं धा॒रये᳚थे॒ अनु॒ द्यून्दृं॒हेथे॒ सानु᳚मुप॒मादि᳚व॒ द्योः ।
दृ॒ळ्हो नक्ष᳚त्र उ॒त वि॒श्वदे᳚वो॒ भूमि॒माता॒न्द्यां धा॒सिना॒योः ॥
▶ पदपाठः (Word-by-word)
ता । हि । क्ष॒त्रम् । धा॒रये᳚थे॒ इति᳚ । अनु᳚ । द्यून् । दृं॒हेथे॒ इति᳚ । सानु᳚म् । उ॒प॒मात्॑इ᳚व । द्योः ।
दृ॒ळ्हः । नक्ष᳚त्रः । उ॒त । वि॒श्व॑दे᳚वः । भूमि᳚म् । आ । अ॒ता॒न् । द्याम् । धा॒सिना᳚ । आ॒योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ता तौ मित्रावरुणौ युवां अनुद्यून् दिवसेदिवसे क्षत्रं बलं धारयेथेहि । द्योरन्तरिक्षस्य सानुं समुच्छ्रितप्रदेशं मेघं सूर्यं वा दृंहेथे दृढीकुरुतम् । उपमादिव उपमीयते प्रक्षीप्यते इत्युपमात् स्थूणा सा यथावत्सं धारयति तद्वत् इत्यर्थः । दृह्ळः युवाभ्यां दृढीकृतश्च मेघो नक्षत्रः अन्तरिक्षं व्याप्नुवानः उत अपि च विश्वदेवः सूर्यो भूमिं द्यां दिवं च आयोर्मनुष्यस्य द्रुह्यव आयव इति मनुष्यनामसु पाठात् धासिना अन्नेन हविषा क्षुत् धासिरित्यन्ननामसु पाठात् आप्यायितः सन् आ अतान् आतनोति युवाभ्यां दृढीकृ तएव ॥ ६ ॥

6.67.7
ता वि॒ग्रं धै᳚थे ज॒ठरं᳚ पृ॒णध्या॒ आ यत्सद्म॒ सभृ᳚तयः पृ॒णन्ति᳚ ।
न मृ᳚ष्यन्ते युव॒तयो॑वा᳚ता॒ वि यत्पयो᳚ विश्वजिन्वा॒ भर᳚न्ते ॥
▶ पदपाठः (Word-by-word)
ता । वि॒ग्रम् । धै॒थे॒ इति᳚ । ज॒ठर᳚म् । पृ॒णध्यै᳚ । आ । यत् । सद्म᳚ । स॑भृ᳚तयः । पृ॒णन्ति᳚ ।
न । मृ॒ष्य॒न्ते॒ । यु॒व॒तयः᳚ । अवा᳚ताः । वि । यत् । पयः᳚ । वि॒श्व॒॑जि॒न्वा॒ । भर᳚न्ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

ता तौ मित्रावरुणौ युवां विग्रं प्राज्ञं यजमानं विप्रः विग्र इति मेधाविनामसु पाठात् धैथे धारयथः । जठरमुदरं पृणध्यै सोमेन पूरयितुं यद्यदा सभृतयः सहभ्रियमाणा ऋत्विजः सद्म यज्ञसदनं आपृणन्ति आपूरयन्ति । विश्वजिन्वा हे विश्वजिन्वानौ यद्यदा पयो जलं भवद्भ्यां प्रहितं तदा युवतयो नद्यो दिशो वा न मृष्यन्ते रजसानाभिभूयन्ते । अवाताः अशुष्का श्चविरमन्ते विभूतिं धारयन्ति ॥ ७ ॥

6.67.8
ता जि॒ह्वया॒ सद॒मेदं सु᳚मे॒धा आ यद्वां᳚ स॒त्यो अ᳚र॒तिरृ॒ते भूत् ।
तद्वां᳚ महि॒त्वं घृ᳚तान्नावस्तु यु॒वं दा॒शुषे॒ वि च᳚यिष्ट॒मंहः᳚ ॥
▶ पदपाठः (Word-by-word)
ता । जि॒ह्वया᳚ । सद᳚म् । आ । इ॒दम् । सु॒॑मे॒धाः । आ । यत् । वा॒म् । स॒त्यः । अ॒र॒तिः । ऋ॒ते । भूत् ।
तत् । वा॒म् । म॒हि॒॑त्वम् । घृ॒त॒॑अ॒न्नौ॒ । अ॒स्तु॒ । यु॒वम् । दा॒शुषे᳚ । वि । च॒यि॒ष्ट॒म् । अंहः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ता तौ निवावरुणौ युवां सुमधाः प्राज्ञः जिह्वया वाचा सदं सर्वदा इदं जलं आयाचते । आ इत्युपमार्गदर्शनाद्योग्यक्रियाध्याहाराद्याचत- इत्यध्याह्रियते । पूर्वस्यामृचि जलस्य प्रकृतत्वात् बुद्धौ विपरिवर्तमानं जलं इदंशब्देन परामृश्यते । यद्यदा वां युवयोररति रभिगन्ता ऋते यज्ञे सत्यो मायारहितः आभूत् आभवति । हे घृतान्नौ तन्महित्वमपक्षितप्रदातृत्वलक्षणं वां युवयोरस्तु किं च युवं युवां दाशुषे दाशुषो यजमानस्य षष्ठ्यर्थे चतुर्थी अंहः पापं विचयिष्टं विनाशयतमित्यर्थः ॥ ८ ॥

6.67.9
प्र यद्वां᳚ मित्रावरुणा स्पू॒र्धन्प्रि॒या धाम᳚ यु॒वधि᳚ता मि॒नन्ति᳚ ।
न ये दे॒वास॒ ओह᳚सा॒ न मर्ता॒ अय᳚ज्ञसाचो॒ अप्यो॒ न पु॒त्राः ॥
▶ पदपाठः (Word-by-word)
प्र । यत् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । स्पू॒र्धन् । प्रि॒या । धाम᳚ । यु॒व॑धि᳚ता । मि॒नन्ति᳚ ।
न । ये । दे॒वासः᳚ । ओह᳚सा । न । मर्ताः᳚ । अय᳚ज्ञ॑साचः । अप्यः᳚ । न । पु॒त्राः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रावरुणौ वां युवयोः प्रिया प्रियाणि धाम धामानि कर्माणि युवधिता युवाभ्यां विहितानि यत् ये यजन्तौ जना स्पूर्धन् स्पर्धमानाः प्रमिनन्ति हिंसन्ति । ये च देवासो देवाः ओहसा वहनसाधनेन स्तोत्रेण युज्यन्ते मर्ता मनुष्याश्च ओहसा न युज्यन्ते ये च अप्यः अपः कर्म तद्वन्तः अयज्ञसाचः यज्ञयुक्ता न वृथा कर्माणि कुर्वन्त इत्यर्थः । ये च न पुत्राः पृणन्तीतिपुत्राः न पुत्राः अपृणन्त इत्यर्थः तान् सर्वा- न्विचयिष्टमित्यनुषज्यते ॥ ९ ॥

6.67.10
वि यद्वाचं᳚ की॒स्तासो॒ भर᳚न्ते॒ शंस᳚न्ति॒ के चि᳚न्नि॒विदो᳚ मना॒नाः ।
आद्वां᳚ ब्रवाम स॒त्यान्यु॒क्था नकि᳚र्दे॒वेभि᳚र्यतथो महि॒त्वा ॥
▶ पदपाठः (Word-by-word)
वि । यत् । वाच᳚म् । की॒स्तासः᳚ । भर᳚न्ते । शंस᳚न्ति । के । चि॒त् । नि॒॑विदः᳚ । म॒ना॒नाः ।
आत् । वा॒म् । ब्र॒वा॒म॒ । स॒त्यानि᳚ । उ॒क्था । नकिः᳚ । दे॒वेभिः᳚ । य॒त॒थः॒ । म॒हि॒॑त्वा ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदा कीस्तासो मेधाविनः उद्गातारः उशिजःकीस्तास इतिमेधाविनामसु पाठात् वाचं स्तुतिं विभरन्ते पृथगुच्चारयन्ति तदा केचिद्वह्वृ- चाः मनानाः अग्र्यादींस्तुवन्तः निविदः शंसन्ति आत् तथा सति वां युवाभ्यां सत्यान्युक्थानि स्तोत्राणि वयं ब्रवाम महित्वा महत्वेन देवेभिरन्यैर्देवैः सह नकिर्यतथः न गच्छथः ॥ १० ॥

6.67.11
अ॒वोरि॒त्था वां᳚ छ॒र्दिषो᳚ अ॒भिष्टौ᳚ यु॒वोर्मि᳚त्रावरुणा॒वस्कृ᳚धोयु ।
अनु॒ यद्गावः᳚ स्फु॒रानृ᳚जि॒प्यं धृ॒ष्णुं यद्रणे॒ वृष᳚णं यु॒नज᳚न् ॥
▶ पदपाठः (Word-by-word)
अ॒वोः । इ॒त्था । वा॒म् । छ॒र्दिषः᳚ । अ॒भिष्टौ᳚ । यु॒वोः । मि॒त्रा॒व॒रु॒णौ॒ । अस्कृ᳚धोयु ।
अनु᳚ । यत् । गावः᳚ । स्फु॒रान् । ऋ॒जि॒प्यम् । धृ॒ष्णुम् । यत् । रणे᳚ । वृष᳚णम् । यु॒नज᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रावरुणौ अवोः अवतोर्षां युवयोरभिष्टौ अभिगमने छर्दिषः गृहाय सुखाय वा चतुर्थ्यर्थे षष्ठी युवामभीगतेषु स्तोतृषु युवोः युवयोः संबन्धि युवाभ्यां देयं तद्गृहादिकं अस्कृधोयु अविच्छिन्नं भवति । तथा च यास्कः अस्कृधोयुरकृध्वायुःकुध्वितिह्रस्वनामनिकृतं भवती- ति । इत्था सत्यमेव कदा मित्रावरुणयोर भिगमनमं इत्यतआह यद्यदा गावः स्तुतयः अनस्फुरान् अनुस्फुरेयुः यदाच ऋजिप्यं ऋजुगा- मिनं धृष्णुं शत्रूणां धर्षकं वृषणं कामाणं वर्षितारं सोमं रणे रमणे यज्ञे यनजन यजमाना यंज्यः ॥ ११ ॥

श्रुष्टीवामित्र्येकारसर्द्चं सप्तमं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रावरुणं तथाचानुक्रम्यते-श्रुष्टीवामैन्द्रावरुणमुपांत्येजगत्याविति । प्रसम्राजे इन्द्रावरुणासुतपावित्येते जगत्यौ शिष्टास्त्रिष्टुभः इन्द्रावरुणौ देवता आभिप्लविकेषूक्थ्येषु तृतीयसवने होत्रकशस्त्रेषु स्तोमवृद्धौ मैत्रावरुणस्येदमावापार्थं सूक्तं सूत्रितं च-श्रुष्टीवांयज्ञोयुवांनरेति । तृतीयसवने इन्द्रावरुणासुतपाविमंसुतमितिप्रशास्तुः प्रस्थितयाज्या सूत्रितं च-इन्द्रावरुणासुतपाविमंसुत मिन्द्र श्चसोमंपिबतबृहस्पतइति । उक्थ्ये तृतीयसवने इन्द्रावरुणामधुमत्तमस्येति । मैत्रावरुणस्य शस्त्रयाज्या सूत्रितं च इन्द्रावरुणा मधुमस्येतियाज्येति ।