विश्वे॒ यद्वां᳚ मं॒हना॒ मन्द᳚मानाः क्ष॒त्रं दे॒वासो॒ अद᳚धुः स॒जोषा᳚ः ।
परि॒ यद्भू॒थो रोद᳚सी चिदु॒र्वी सन्ति॒ स्पशो॒ अद᳚ब्धासो॒ अमू᳚राः ॥
परि॒ यद्भू॒थो रोद᳚सी चिदु॒र्वी सन्ति॒ स्पशो॒ अद᳚ब्धासो॒ अमू᳚राः ॥
पदपाठः (Word-by-word)
विश्वे᳚ । यत् । वा॒म् । मं॒हना᳚ । मन्द᳚मानाः । क्ष॒त्रम् । दे॒वासः᳚ । अद᳚धुः । स॒॑जोषाः᳚ ।
परि᳚ । यत् । भू॒थः । रोद᳚सी॒ इति᳚ । चि॒त् । उ॒र्वी इति᳚ । सन्ति᳚ । स्पशः᳚ । अद᳚ब्धासः । अमू᳚राः ॥
परि᳚ । यत् । भू॒थः । रोद᳚सी॒ इति᳚ । चि॒त् । उ॒र्वी इति᳚ । सन्ति᳚ । स्पशः᳚ । अद᳚ब्धासः । अमू᳚राः ॥
सायणभाष्यम् (Sayana Commentary)
विश्वे सर्वे देवासो देवाः सजोषाः परस्परं प्रीतियुक्ताः यत् यौ वां युवां मंहना महत्वेन मंदमानाः स्तुवन्तः क्षत्रं बलमदधुः धत्तवन्तः । किं च यत् यौ युवां उर्वी विस्तीर्णे रोदसी द्यावापृथिव्यौ परिभूथः परिभवथः । तयोर्युवयोः अदब्धासः अहिंसिताः अमूराः अमूढाः स्पशः रश्मयश्चरा वा सन्ति ॥ ५ ॥