षष्ठं मण्डलम् - सूक्तम् 65

6 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: उषाः छन्दः: त्रिष्टुप्

सूक्तम् 6.65 - सम्पूर्णम्

1 / 6
ऋक्: 6.65.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
6.65.1 समानपद
ए॒षा स्या नो᳚ दुहि॒ता दि᳚वो॒जाः क्षि॒तीरु॒च्छन्ती॒ मानु᳚षीरजीगः ।
या भा॒नुना॒ रुश᳚ता रा॒म्यास्वज्ञा᳚यि ति॒रस्तम᳚सश्चिद॒क्तून् ॥
▶ पदपाठः (Word-by-word)
ए॒षा । स्या । नः॒ । दु॒हि॒ता । दि॒वः॒॑जाः । क्षि॒तीः । उ॒च्छन्ती᳚ । मानु᳚षीः । अ॒जी॒ग॒रिति᳚ ।
या । भा॒नुना᳚ । रुश᳚ता । रा॒म्यासु᳚ । अज्ञा᳚यि । ति॒रः । तम᳚सः । चि॒त् । अ॒क्तून् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषा स्या सा दिवोजाः दिवोजाता अतएव दुहिता दिवः पुत्र्युषा नोस्मदर्थं उच्छंती तमांसि वर्जयन्ती क्षितीः प्रजाः मानुषी रजीगः उद्गिरति जीगर्तिर्गिरतिकर्मावेति यास्कः प्रकाशयतीति यावत् या रुशता दीप्यमानेन भानुना युक्ता राम्यासु याम्यासु रात्रिषु रेफयका- रयोर्व्यत्ययः अक्तून् नक्षत्रादि तेजांसि तमसश्चित् तमांसि च तिरस्तिरस्कुर्वती अज्ञायि दृश्यते ॥ १ ॥

6.65.2 समानपद
वि तद्य᳚युररुण॒युग्भि॒रश्वै᳚श्चि॒त्रं भा᳚न्त्यु॒षस᳚श्च॒न्द्रर᳚थाः ।
अग्रं᳚ य॒ज्ञस्य᳚ बृह॒तो नय᳚न्ती॒र्वि ता बा᳚धन्ते॒ तम॒ ऊर्म्या᳚याः ॥
▶ पदपाठः (Word-by-word)
वि । तत् । य॒युः॒ । अ॒रु॒ण॒युक्॑भिः᳚ । अश्वैः᳚ । चि॒त्रम् । भा॒न्ति॒ । उ॒षसः᳚ । च॒न्द्र॑र᳚थाः ।
अग्र᳚म् । य॒ज्ञस्य᳚ । बृ॒ह॒तः । नय᳚न्तीः । वि । ताः । बा॒ध॒न्ते॒ । तमः᳚ । ऊर्म्या᳚याः ॥
▶ सायणभाष्यम् (Sayana Commentary)

चन्द्ररथाःकान्तिरथाः चन्द्रश्चन्दतेःकान्तिर्मणइति यास्कः । ता उषसः तत् तदानीं प्रातःकाले बृहतो बृंहणशीलस्य यज्ञस्य अग्रं मुखं नयन्तीः संपादयंत्यः अरुणयुग्भिररुणवर्णयुक्तैरश्वैः विययुः विस्तीर्णं यान्ति चित्रं यथाभवति तथाभान्ति च ऊर्म्यायाः रात्रेः अक्तुः ऊर्म्येति रात्रिनामसु पाठात् तमो विबाधन्ते सम्यगपनयन्ति च ॥ २१ ॥

6.65.3
श्रवो॒ वाज॒मिष॒मूर्जं॒ वह᳚न्ती॒र्नि दा॒शुष᳚ उषसो॒ मर्त्या᳚य ।
म॒घोनी᳚र्वी॒रव॒त्पत्य᳚माना॒ अवो᳚ धात विध॒ते रत्न᳚म॒द्य ॥
▶ पदपाठः (Word-by-word)
श्रवः᳚ । वाज᳚म् । इष᳚म् । ऊर्ज᳚म् । वह᳚न्तीः । नि । दा॒शुषे᳚ । उ॒ष॒सः॒ । मर्त्या᳚य ।
म॒घोनीः᳚ । वी॒र॑व᳚त् । पत्य᳚मानाः । अवः᳚ । धा॒त॒ । वि॒ध॒ते । रत्न᳚म् । अ॒द्य ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उषसः दाशुषे हविषां दात्रे मर्त्याय श्रवःकीर्तिं वाजं बलं इषमन्नं ऊर्जं रसं च वहन्ती र्षहंत्योयूयं मघोनी र्धनवत्यः पत्यमाना गच्छन्त्यः अघ विधते परिचरते मह्यं वीरवत् पुत्रपोत्रादिसहितं अवोन्नं सिनं अवेत्यन्ननामसु पाठात् रत्नं धनं च श्वात्रं रत्नमिति धननामसु पाठात् निधात नितरां धत्त ॥ ३ ॥

6.65.4
इ॒दा हि वो᳚ विध॒ते रत्न॒मस्ती॒दा वी॒राय᳚ दा॒शुष᳚ उषासः ।
इ॒दा विप्रा᳚य॒ जर᳚ते॒ यदु॒क्था नि ष्म॒ माव᳚ते वहथा पु॒रा चि᳚त् ॥
▶ पदपाठः (Word-by-word)
इ॒दा । हि । वः॒ । वि॒ध॒ते । रत्न᳚म् । अस्ति᳚ । इ॒दा । वी॒राय᳚ । दा॒शुषे᳚ । उ॒ष॒सः॒ ।
इ॒दा । विप्रा᳚य । जर᳚ते । यत् । उ॒क्था । नि । स्म॒ । मा॑व᳚ते । व॒ह॒थ॒ । पु॒रा । चि॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उषः इदाहि इदानीमेव वोयुष्माकं विधते परिचरते दातुं रत्नं धनमस्ति इदाहि इदानीमेव वीराय प्रेरयित्रे हविषां दाशुषे यजमानाय दातुं वोरत्नमस्ति इदाहि इदानीमेव विप्राय प्राज्ञाय जरते स्तुवते दातुं वोरत्नमस्ति यद्यस्मिन् विप्रे उक्था उक्थनामकानि स्तोत्राणि विद्यन्ते मावते मत्सदृशाय यजमानाय तद्रत्नं निवहथ पुराचित् पुरापि रत्नं मह्यं दत्तं ॥ ४ ॥

6.65.5 समानपद
इ॒दा हि त᳚ उषो अद्रिसानो गो॒त्रा गवा॒मङ्गि᳚रसो गृ॒णन्ति᳚ ।
व्य१॒᳚र्केण᳚ बिभिदु॒र्ब्रह्म᳚णा च स॒त्या नृ॒णाम᳚भवद्दे॒वहू᳚तिः ॥
▶ पदपाठः (Word-by-word)
इ॒दा । हि । ते॒ । उ॒षः॒ । अ॒द्रि॒सा॒नो॒ इत्य᳚द्रि॑सानो । गो॒त्रा । गवा᳚म् । अङ्गि᳚रसः । गृ॒णन्ति᳚ ।
वि । अ॒र्केण᳚ । बि॒भि॒दुः॒ । ब्रह्म᳚णा । च॒ । स॒त्या । नृ॒णाम् । अ॒भ॒व॒त् । दे॒व॑हू᳚तिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उषः अद्रिसानो आदृतसानो ते तव प्रसादात् इदाहि सद्यएवगवां गोत्रा सं घान् अंगिरसो गृणन्ति सृजन्ति तथा च निगमन्तरं-गवां गोत्रमुदसृजोयदंगिरइति । अर्केण अर्चनीयेन ब्रह्मणा स्तोत्रेण वि बिभिदुः तमांसि विदारयन्ति च नृणां नेतॄणां तेषामंगिरसां देवहूति- र्देवविषयास्तुतिः सत्या सत्यफलाभवत् ॥ ५ ॥

6.65.6
उ॒च्छा दि᳚वो दुहितः प्रत्न॒वन्नो᳚ भरद्वाज॒वद्वि᳚ध॒ते म᳚घोनि ।
सु॒वीरं᳚ र॒यिं गृ᳚ण॒ते रि᳚रीह्युरुगा॒यमधि᳚ धेहि॒ श्रवो᳚ नः ॥
▶ पदपाठः (Word-by-word)
उ॒च्छ । दि॒वः॒ । दु॒हि॒त॒रिति᳚ । प्र॒त्न॒॑वत् । नः॒ । भ॒र॒द्वा॒ज॒॑वत् । वि॒ध॒ते । म॒घो॒नि॒ ।
सु॒॑वीर᳚म् । र॒यिम् । गृ॒ण॒ते । रि॒री॒हि॒ । उ॒रु॒॑गा॒यम् । अधि᳚ । धे॒हि॒ । श्रवः᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे दिवो दुहितरुषः प्रत्नवत् पुरातनेभ्य इव नोस्मदर्थं अच्छ तमांसि वर्जय । हे मघोनि भरद्वाजवत् विधते परिचरते भरद्वाजवदिति वचनात् अन्योप्यस्ति भरद्वाजः तथाच ब्राह्मणंप्राणो वै भ्रद्वाजवदिति । गृणते स्तुतिं कर्वते मह्यं सुवीरं कल्याणं पुत्रपैत्रादियुक्तं रयिं धनं रिरीहि देहि । किं च नोस्मभ्यं उरुगायं बहुभिर्गं तव्यं श्रवोन्नं अधिधेहि अधिकंप्रयच्छ ॥ ६ ॥

वपुर्न्वित्येकादशर्चं पंचमं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभं मारुतं तथा चानुक्रम्यते-वपुन्वंकादश मारुतमिति व्यूह्ळे दशरात्रे षष्ठेन्याग्निमारुते इदं सूक्तं मारुतनिविद्धानं सूत्रितं चहविष्पांतं वपुर्नुतदिति वैश्वदेवे पर्वणि मारुतसप्तकपालस्य प्रचित्रमर्कमिति याज्या प्रचित्रमर्कं गृणते नवानुयाज्या इति एकादशिने मारुते पशौ प्रचित्रमर्कमित्येषैव याज्या सूत्रितं च-प्रचित्रमर्कं गृणते तुरायाराइवे दचरमाअहेवेति ।