षष्ठं मण्डलम् - सूक्तम् 73

3 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: बृहस्पतिः छन्दः: त्रिष्टुप्

सूक्तम् 6.73 - सम्पूर्णम्

1 / 3
ऋक्: 6.73.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (3)
6.73.1
यो अ᳚द्रि॒भित्प्र᳚थम॒जा ऋ॒तावा॒ बृह॒स्पति᳚राङ्गिर॒सो ह॒विष्मा᳚न् ।
द्वि॒बर्ह᳚ज्मा प्राघर्म॒सत्पि॒ता न॒ आ रोद᳚सी वृष॒भो रो᳚रवीति ॥
▶ पदपाठः (Word-by-word)
यः । अ॒द्रि॒॑भित् । प्र॒थ॒म॒॑जाः । ऋ॒त॑वा᳚ । बृह॒स्पतिः᳚ । आ॒ङ्गि॒र॒सः । ह॒विष्मा᳚न् ।
द्वि॒बर्ह᳚॑ज्मा । प्रा॒घ॒र्म॒॑सत् । पि॒ता । नः॒ । आ । रोद᳚सी॒ इति᳚ । वृ॒ष॒भः । रो॒र॒वी॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योबृहस्पतिः अद्रिभित् पणिभिर्विरचितानां शिलोच्चयानां भेत्ता मेघानां विदारको वा अद्रिः ग्रावेति मेघनामसु पाठात् प्रथमजाः प्रजा- पतेर्वीर्यात् प्रथमं जातः ऋतावा सत्यवानुदकवान्वा अंगिरसः पश्चाज्जातः तथा च निगमः-येंगाराआसंस्तेंगिरसोभवन् यदंगाराःपुनरव- शान्ताउददीप्यन्ततद्बृहस्पतिरभवदिति । हविष्मान् यज्ञभागवान् द्विबर्हज्मा द्वयोर्लोकयोर्बृंहितगमनः प्राघर्मसत् प्रकर्षेण दीप्तस्थाने वर्तमानो नोस्माकं पिता पालयिता भवति सबृहस्पतिः वृषभो वर्षकः सन् रोदसी द्यावापृथिव्यौ आरोरवीति अभिगर्जति ॥ १ ॥

6.73.2
जना᳚य चि॒द्य ईव᳚त उ लो॒कं बृह॒स्पति᳚र्दे॒वहू᳚तौ च॒कार᳚ ।
घ्नन्वृ॒त्राणि॒ वि पुरो᳚ दर्दरीति॒ जय॒ञ्छत्रू{4}᳚र॒मित्रा᳚न्पृ॒त्सु साह᳚न् ॥
▶ पदपाठः (Word-by-word)
जना᳚य । चि॒त् । यः । ईव᳚ते । ऊं॒ इति᳚ । लो॒कम् । बृह॒स्पतिः᳚ । दे॒व॑हू᳚तौ । च॒कार᳚ ।
घ्नन् । वृ॒त्राणि᳚ । वि । पुरः᳚ । द॒र्द॒री॒ति॒ । जय᳚न् । शत्रू᳚न् । अ॒मित्रा᳚न् । पृ॒त्॑सु । साह᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अपि च योबृहस्पतिः देवहूतौ यज्ञे वर्तमानाय ईवते उपगच्छते स्तोत्रे जनाय लोकं स्थानं चकार करोति चिदिति पूरणः सवृत्राण्यावर- काणि तमांसि घ्नन् निवारयन् पृत्सु युद्धेषु शत्रून् जयन् अमित्रान् सहन् अभिभवन् पुरः आसुरीः पुरीः विदर्दरीति भृशं विदारयति ॥ २ ॥

6.73.3
बृह॒स्पति॒ः सम᳚जय॒द्वसू᳚नि म॒हो व्र॒जान्गोम᳚तो दे॒व ए॒षः ।
अ॒पः सिषा᳚स॒न्त्स्व१॒᳚रप्र᳚तीतो॒ बृह॒स्पति॒र्हन्त्य॒मित्र᳚म॒र्कैः ॥
▶ पदपाठः (Word-by-word)
बृह॒स्पतिः᳚ । सम् । अ॒ज॒य॒त् । वसू᳚नि । म॒हः । व्र॒जान् । गो॑म᳚तः । दे॒वः । ए॒षः ।
अ॒पः । सिसा᳚सन् । स्वः᳚ । अप्र᳚ति॑इतः । बृह॒स्पतिः᳚ । हन्ति᳚ । अ॒मित्र᳚म् । अ॒र्कैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवोद्योतमानः एषप्रसिद्धोबृहस्पतिः वसूनि पणीनामसुराणां बलस्य वा धनानि महो महतो गोमतोगोसहितान् व्रजांश्च समजयत् तथा च निगमौ-बृहस्पतिर्गोवपुषोवलस्यनिर्मज्जानंनपर्वणोजभारेति । दूरमितपणयोवरीयउद्गावोयन्द्तुमिनतीरृतेन । बृहस्पद्तिर्याअविन्द- न्निगूह्ळाः सोमोग्रावाणऋषयश्चविप्राइति । किंच बृहस्पतिः अप्रतीतः केनाप्यप्रतिगतः सिषासन् संभक्तु मिच्छन् स्वः स्वर्गस्य अमित्रं असुरं अर्कैरर्चनसाधनैर्मंत्रैर्हन्ति अर्कोमंत्रोभवतियदेनेनार्चस् न्तीतियास्कः ॥ ३ ॥

सोमारुद्रेतिचतुरृचं त्रयादेशं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभं सोमारुद्रदेवताकं अनुक्रम्यते च सोमारुद्राचतुष्कं सोमारौद्रमिति । विनियोगोलैंगिकः ।