सं यद्विशो॑य᳚न्त॒ शूर᳚साता उ॒ग्रं नो॑व॒ः पार्ये॒ अह᳚न्दाः ॥
पदपाठः (Word-by-word)
सम् । यत् । विशः᳚ । अय᳚न्त । शूर᳚॑सातौ । उ॒ग्रम् । नः॒ । अवः᳚ । पार्ये᳚ । अह᳚न् । दाः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र ववृषाणाः सोमैस्त्वांसिंचन्तोवयंस्तोतारः महोमहतोवाजस्यान्नस्य सातौ लाभार्थं त्वा त्वां ह्वयामसि आह्वयामः हेइन्द्र त्वं नोस्माकं तदाह्वानं श्रुधि शृणु यद्यदा विशोजनाः शूरसाताशूरसातौ युद्धे समयन्त संगच्छन्ते तदा पार्ये अन्तिमे अहन्नहनि दिवसे नो- स्मभ्यं उग्रमुद्गूर्णमवोरक्षणं दाः अदाः प्रयच्छ ॥ १ ॥