व॒यं ते᳚ अ॒स्यामि᳚न्द्र द्यु॒म्नहू᳚तौ॒ सखा᳚यः स्याम महिन॒ प्रेष्ठा᳚ः ।
प्रात᳚र्दनिः क्षत्र॒श्रीर᳚स्तु॒ श्रेष्ठो᳚ घ॒ने वृ॒त्राणां᳚ स॒नये॒ धना᳚नाम् ॥
प्रात᳚र्दनिः क्षत्र॒श्रीर᳚स्तु॒ श्रेष्ठो᳚ घ॒ने वृ॒त्राणां᳚ स॒नये॒ धना᳚नाम् ॥
पदपाठः (Word-by-word)
व॒यम् । ते॒ । अ॒स्याम् । इ॒न्द्र॒ । द्यु॒म्न॑हू᳚तौ । सखा᳚यः । स्या॒म॒ । म॒हि॒न॒ । प्रेष्ठाः᳚ ।
प्रात᳚र्दनिः । क्ष॒त्र॒॑श्रीः । अ॒स्तु॒ । श्रेष्ठः᳚ । घ॒ने । वृ॒त्राणा᳚म् । स॒नये᳚ । धना᳚नाम् ॥
प्रात᳚र्दनिः । क्ष॒त्र॒॑श्रीः । अ॒स्तु॒ । श्रेष्ठः᳚ । घ॒ने । वृ॒त्राणा᳚म् । स॒नये᳚ । धना᳚नाम् ॥
सायणभाष्यम् (Sayana Commentary)
हेमहिन पूजनीयेन्द्र ते त्वदर्थं सखायःस्तोतारोवयं अस्यांद्युम्नहूतौ अस्मिन्धननिमित्तेस्तोत्रे प्रेष्ठाः अतिशयेनप्रियाः स्याम भवेम प्रातर्दनिः प्रतर्दनोनामराजातस्यपुत्रःक्षत्रश्रीः एतन्नामकोममयाज्योराजा श्रेष्ठोस्तु सर्वेषामुत्कृष्टोभवतु किमर्थं वृत्राणां शत्रूणांघनेव- धायच धनानां वसूनां सनये संभजनायच श्रेष्ठोस्त्वितिसंबन्धः ॥ ८ ॥
किमस्यमदेत्यष्टर्चं चतुर्थंसूक्तं भरद्वाजस्यार्षं अनुक्रान्तंच—किमस्यान्त्याचायमानस्याभ्यावर्तिनोदानस्तुतिः भरद्वाजऋषिः त्रिष्टु- प् छन्दः अंत्यायास्तुदानस्तुतिरूपत्वात् यातेनोच्यतइतिन्यायेनदानमेवदेवता विनियोगोलैंगिकः ।