श्रवणम्

6.26.7
अ॒हं च॒न तत्सू॒रिभि᳚रानश्यां॒ तव॒ ज्याय᳚ इन्द्र सु॒म्नमोजः᳚ ।
त्वया॒ यत्स्तव᳚न्ते सधवीर वी॒रास्त्रि॒वरू᳚थेन॒ नहु᳚षा शविष्ठ ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । च॒न । तत् । सू॒रि॑भिः᳚ । आ॒न॒श्या॒न् । तव᳚ । ज्यायः᳚ । इ॒न्द्र॒ । सु॒म्नम् । ओजः᳚ ।
त्वया᳚ । यत् । स्तव᳚न्ते । स॒ध॒॑वी॒र॒ । वी॒राः । त्रि॒॑वरू᳚थेन । नहु᳚षा । श॒वि॒ष्ठ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसधवीर वीरैःसहित शविष्ठ बलवत्तमेन्द्र वीराःस्तोतारः त्रिवरूथेन त्रीणिवरूथान्यावरकाणिभुवनानियस्यतेन नहुषा शत्रूणां- बन्धकेन त्वयादत्तं यत्सुम्नंसुखंओजोबलंच स्तवन्ते स्तुवन्ति हेइन्द्र तव त्वयादत्तं ज्यायः अतिशयेनप्रशस्यं तत्सुम्नमोजः अहंचन अहमपिभरद्वाजः सूरिभिर्मदीयैः स्तोतृभिः सह आनश्यां प्राप्नयां ॥ ७ ॥