षष्ठं मण्डलम् - सूक्तम् 71

6 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: सविता छन्दः: जगती

सूक्तम् 6.71 - सम्पूर्णम्

1 / 6
ऋक्: 6.71.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
6.71.1
उदु॒ ष्य दे॒वः स᳚वि॒ता हि᳚र॒ण्यया᳚ बा॒हू अ᳚यंस्त॒ सव᳚नाय सु॒क्रतु᳚ः ।
घृ॒तेन᳚ पा॒णी अ॒भि प्रु᳚ष्णुते म॒खो युवा᳚ सु॒दक्षो॒ रज᳚सो॒ विध᳚र्मणि ॥
▶ पदपाठः (Word-by-word)
उत् । ऊं॒ इति᳚ । स्यः । दे॒वः । स॒वि॒ता । हि॒र॒ण्यया᳚ । बा॒हू इति᳚ । अ॒यं॒स्त॒ । सव᳚नाय । सु॒॑क्रतुः᳚ ।
घृ॒तेन᳚ । पा॒णी इति᳚ । अ॒भि । प्रु॒ष्णु॒ते॒ । म॒खः । युवा᳚ । सु॒॑दक्षः᳚ । रज᳚सः । वि॑ध᳚र्मणि ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवो द्योतमानः सुक्रतुः सुकर्मा स्यः सः प्रसिद्धः सविता हिरण्यया हिरण्मयौ आत्मीयौ बाहू सवनाय सुवनाय दानाय वा उदयंस्त उद्यच्छति किंच मखो मंहनीयो युवा नित्यतरुणः सुदक्षः सुप्रज्ञः रजसो लोकस्योदकस्यवा विधर्मणि विधारणे स्थितः घृतेनोदकेन पूर्णौ स्वौ पाणी अभिप्रुष्णुते अभिप्रेरयति ॥ १ ॥

6.71.2
दे॒वस्य᳚ व॒यं स᳚वि॒तुः सवी᳚मनि॒ श्रेष्ठे᳚ स्याम॒ वसु᳚नश्च दा॒वने᳚ ।
यो विश्व᳚स्य द्वि॒पदो॒ यश्चतु᳚ष्पदो नि॒वेश᳚ने प्रस॒वे चासि॒ भूम᳚नः ॥
▶ पदपाठः (Word-by-word)
दे॒वस्य᳚ । व॒यम् । स॒वि॒तुः । सवी᳚मनि । श्रेष्ठे᳚ । स्या॒म॒ । वसु᳚नः । च॒ । दा॒वने᳚ ।
यः । विश्व᳚स्य । द्वि॒॑पदः᳚ । यः । चतुः᳚॑पदः । नि॒॑वेश᳚ने । प्र॒॑स॒वे । च॒ । असि᳚ । भूम᳚नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

तस्य देवस्य सवितुः प्रेरकस्य सवीमनि प्रसवे अनुज्ञाने तथा च यास्कः-सवीमनिप्रसवेइतिश्रेष्ठे । अतिशयेन प्रशस्ते वसुनो धनस्य दावने दाने च वयं स्याम समर्थाभूयास्म यस्त्वं विश्वस्य सर्वस्य द्विपदोनिवेशने स्थितौ प्रसवे च स्वतंत्रोसि यस्तं भूमनो भूरेश्चतुष्पदो- निवेशने प्रसवे च स्वतंत्रोसि ॥ २ ॥

6.71.3
अद᳚ब्धेभिः सवितः पा॒युभि॒ष्ट्वं शि॒वेभि᳚र॒द्य परि᳚ पाहि नो॒ गय᳚म् ।
हिर᳚ण्यजिह्वः सुवि॒ताय॒ नव्य᳚से॒ रक्षा॒ माकि᳚र्नो अ॒घशं᳚स ईशत ॥
▶ पदपाठः (Word-by-word)
अद᳚ब्धेभिः । स॒वि॒त॒रिति᳚ । पा॒यु॑भिः᳚ । त्वम् । शि॒वेभिः᳚ । अ॒द्य । परि᳚ । पा॒हि॒ । नः॒ । गय᳚म् ।
हिर᳚ण्य॑जिह्वः । सु॒वि॒ताय᳚ । नव्य᳚से । रक्ष᳚ । माकिः᳚ । नः॒ । अ॒घ॑शं᳚सः । ई॒श॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सवितः अदब्धेभिः अहिंसितैः पायुभिः तेजोभिः रक्षणसाधनैर्वा शिवेभिः सुखकारिभिः नोस्माकं गयं गृहं धनं वा गयः कृदरइति गृहनामसु मीह्ळं गयइति धननामसु पाठात् अद्य परिपाहि रक्ष । हिरण्यजिह्वो हितरमणीयवाक् त्वं तथाचयास्कः-हिरण्यंकस्मा- दित्युपक्रम्य हितरमणंभवतीतिवेति । सुविताय सुखाय नव्यसे नवतराय भव रक्ष अस्मान्पालय च नोस्माकमद्य शंसः अनर्थमाशंसमानः शत्रुः माकिरीशत मेशत ॥ ३ ॥

6.71.4
उदु॒ ष्य दे॒वः स᳚वि॒ता दमू᳚ना॒ हिर᳚ण्यपाणिः प्रतिदो॒षम᳚स्थात् ।
अयो᳚हनुर्यज॒तो म॒न्द्रजि᳚ह्व॒ आ दा॒शुषे᳚ सुवति॒ भूरि᳚ वा॒मम् ॥
▶ पदपाठः (Word-by-word)
उत् । ऊं॒ इति᳚ । स्यः । दे॒वः । स॒वि॒ता । दमू᳚नाः । हिर᳚ण्य॑पाणिः । प्र॒ति॒॑दो॒षम् । अ॒स्था॒त् ।
अयः᳚॑हनुः । य॒ज॒तः । म॒न्द्र॑जि᳚ह्वः । आ । दा॒शुषे᳚ । सु॒व॒ति॒ । भूरि᳚ । वा॒मम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवो द्योतमानः दमूनाः दममनाः दानमनावा तथा च यास्कः-दमूनादममनावा दानमनावा दान्तमनावेति । हिरण्यपाणिः हिरण्मय- पाणिः अयोहनुः हिरण्मयहनुः रुक्मं अय इतिहिरण्यनामसु पाठात् यजतो यष्टव्यः मन्द्रजिह्वः मोदमानवाक् स्यः सः सविता प्रतिदोषं प्रतिरात्रं रात्रेरवसाने उदस्थात् उत्तिष्ठतु यो दाशुषे यजमानाय मह्यं भूरि प्रभूतं वामं वननीयं संभजनीयमन्नं वामं वननीयमिति यास्कः । आसुवति प्रेरयति ॥ ४ ॥

6.71.5
उदू᳚ अया{4} उपव॒क्तेव᳚ बा॒हू हि᳚र॒ण्यया᳚ सवि॒ता सु॒प्रती᳚का ।
दि॒वो रोहां᳚स्यरुहत्पृथि॒व्या अरी᳚रमत्प॒तय॒त्कच्चि॒दभ्व᳚म् ॥
▶ पदपाठः (Word-by-word)
उत् । ऊं॒ इति᳚ । अ॒या॒न् । उ॒प॒व॒क्ता॑इ᳚व । बा॒हू इति᳚ । हि॒र॒न्यया᳚ । स॒वि॒ता । सु॒॑प्रती᳚का ।
दि॒वः । रोहां᳚सि । अ॒रु॒ह॒त् । पृ॒थि॒व्याः । अरी᳚रमत् । प॒तय᳚त् । कत् । चि॒त् । अभ्व᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सविता उपवक्तेव अस्माकमधिवक्तेव हिरण्यया हिरण्मयौ सुप्रतीका शोभनावयवौ बाहू उदयान् उद्यच्छतुयोयं पृथिव्याः पृथिवीपर्य- न्तात् दिवोन्तरिक्षस्य रिहांसि उच्छ्रितप्रदेशान् अरुहत् रोहति पतयत् गच्छत् गच्छत् कच्चित् यत्किंचिदभ्वं महत् सर्वं वस्तुजातं तिरोहितं अरीरमत् रमयति च ॥ ५ ॥

6.71.6
वा॒मम॒द्य स᳚वितर्वा॒ममु॒ श्वो दि॒वेदि᳚वे वा॒मम॒स्मभ्यं᳚ सावीः ।
वा॒मस्य॒ हि क्षय᳚स्य देव॒ भूरे᳚र॒या धि॒या वा᳚म॒भाजः᳚ स्याम ॥
▶ पदपाठः (Word-by-word)
वा॒मम् । अ॒द्य । स॒वि॒तः॒ । वा॒मम् । ऊं॒ इति᳚ । श्वः । दि॒वे॑दि᳚वे । वा॒मम् । अ॒स्मभ्य᳚म् । सा॒वीः॒ ।
वा॒मस्य᳚ । हि । क्षय᳚स्य । दे॒व॒ । भूरेः᳚ । अ॒या । धि॒या । वा॒म॒॑भाजः᳚ । स्या॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सवितः अस्मभ्यं वामं धनं अद्य सावीः सुव श्वश्च वामं धनं प्रसुव किं बहूक्त्या दिवेदिवे प्रतिदिनं वामं धनं प्रसुव हे देव हि यस्मात् क्षयस्य निवासभूतस्य भूरेः प्रभूतस्य वामस्य दातासि अतो वयं अया अनया धिया स्तुत्या वामभाजो धनवन्तः स्याम भूयास्म उ इति पूरणः ॥ ६ ॥

इन्द्रासोमामहीतिपंचर्चमेकादशं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभं इंद्रासोमदेवताकं अनुक्रम्यतेच-इन्द्रासोमापंचैन्द्रासोममिति सूक्तविनि- योगोलैंगिकः ।