षष्ठं मण्डलम् - सूक्तम् 35

5 ऋचः

ऋषिः: नरः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 6.35 - सम्पूर्णम्

1 / 5
ऋक्: 6.35.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
6.35.1
क॒दा भु᳚व॒न्रथ᳚क्षयाणि॒ ब्रह्म᳚ क॒दा स्तो॒त्रे स᳚हस्रपो॒ष्यं᳚ दाः ।
क॒दा स्तोमं᳚ वासयो॑स्य रा॒या क॒दा धियः᳚ करसि॒ वाज᳚रत्नाः ॥
▶ पदपाठः (Word-by-word)
क॒दा । भु॒व॒न् । रथ᳚॑क्षयाणि । ब्रह्म᳚ । क॒दा । स्तो॒त्रे । स॒ह॒स्र॒॑पो॒ष्य᳚म् । दाः॒ ।
क॒दा । स्तोम᳚म् । वा॒स॒यः॒ । अ॒स्य॒ । रा॒या । क॒दा । धियः᳚ । क॒र॒सि॒ । वाज᳚॑रत्नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र ब्रह्मणि ब्रह्माणि स्तोत्राण्यस्मदीयानि रथक्षयाणि रथनिवासानि कदाकस्मिन् काले भुवन् भवेयुः रथेवस्थितं त्वां कदाप्राप्नु- वन्तीत्यर्थः कदा कस्मिन् काले स्तोत्रे स्तुवते मह्यं सहस्रपोष्यं सहस्र संख्याकपुरुषपोषकं गोसमूहं पुत्रं वादाः दद्याः कदाच अस्यमम- स्तोतुः स्तोमं स्तोत्रं राया धनेन वासयः धियः कर्माणिचाग्निहोत्रादीनि वाजरत्नाः वाजैरन्नैः रमणीयाः कदाकस्मिन् काले करसि कुर्याः एवंस्तोता फलस्यविलंबमसहमानः इन्द्रमनयापृष्टवान् ॥ १ ॥

6.35.2
कर्हि᳚ स्वि॒त्तदि᳚न्द्र॒ यन्नृभि॒र्नॄन्वी॒रैर्वी॒रान्नी॒ळया᳚से॒ जया॒जीन् ।
त्रि॒धातु॒ गा अधि᳚ जयासि॒ गोष्विन्द्र᳚ द्यु॒म्नं स्व᳚र्वद्धेह्य॒स्मे ॥
▶ पदपाठः (Word-by-word)
कर्हि᳚ । स्वि॒त् । तत् । इ॒न्द्र॒ । यत् । नृ॑भिः᳚ । नॄन् । वी॒रैः । वी॒रान् । नी॒ळया᳚से । जय᳚ । आ॒जीन् ।
त्रि॒॑धातु᳚ । गाः । अधि᳚ । ज॒या॒सि॒ । गोषु᳚ । इन्द्र᳚ । द्यु॒म्नम् । स्वः॒॑वत् । धे॒हि॒ । अ॒स्मे इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

फलस्यविलंबमसहमानऋषिः अनयापीन्द्रंपृच्छति हेइन्द्र कर्हिस्वित् कदाखलु तद्भवेत् नृभिरस्मदीयैःपुरुषैः नॄन् शत्रुपुरुषान् तथा वीरैरस्मदीयैःपुत्रैः वीरान् शत्रुपुत्रांश्च यन्नीलयासेत्वं संश्लेषयेः संयोजयेः नीलयतिःसंश्लेषणकर्मा ईदृशं युद्धेयत् संश्लेषणंतत् कदाभवे- दितिवितर्कः अपिचास्मदर्थं त्वं आजीन् संग्रामान् कदा जय जयेः कदाच गोष्वभिग्न्तृषुशत्रुषु विद्यमानाः त्रिधातु त्रिधातूनां क्षीरदधि- घृतानांत्रयाणां धारयित्रीर्गाः अधिजयासि अधिकंजयेः हेइन्द्र त्वं स्वर्वत् व्याप्तिमत् द्यम्नं धनं अस्मे अस्मासु कदा धेहि धारयेः ॥ २ ॥

6.35.3
कर्हि᳚ स्वि॒त्तदि᳚न्द्र॒ यज्ज᳚रि॒त्रे वि॒श्वप्सु॒ ब्रह्म᳚ कृ॒णवः᳚ शविष्ठ ।
क॒दा धियो॒ न नि॒युतो᳚ युवासे क॒दा गोम᳚घा॒ हव᳚नानि गच्छाः ॥
▶ पदपाठः (Word-by-word)
कर्हि᳚ । स्वि॒त् । तत् । इ॒न्द्र॒ । यत् । ज॒रि॒त्रे । वि॒श्व॑प्सु᳚ । ब्रह्म᳚ । कृ॒णवः᳚ । श॒वि॒ष्ठ॒ ।
क॒दा । धियः᳚ । न । नि॒॑युतः᳚ । यु॒वा॒से॒ । क॒दा । गो॑म᳚घा । हव᳚नानि । ग॒च्छाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनयापिकतिचित्प्रश्नाः क्रियन्ते हेइन्द्र कर्हिस्वित् कदाखलु तद्भवेत् हेशविष्ठ बलवत्तमेन्द्र त्वं जरित्रे स्तोत्रे विश्व्प्सु बहुविधरूपं ब्रह्मान्नं कृणवः करोषीतियत् तत्कदाभवेदितिवितर्कः कदाच धियः कर्माणि नेतिसमुच्चये नियुतः स्तुतीश्च युवासे आत्मनियोजयेः कदाच त्वं गोमघाः गोमघानि गवांदातॄणि मंहतेर्दानार्थस्यरूपमुत्तरपदं हवनानि स्तोत्राणि गच्छाः अभिगच्छेः ॥ ३ ॥

6.35.4 समानपद
स गोम᳚घा जरि॒त्रे अश्व᳚श्चन्द्रा॒ वाज᳚श्रवसो॒ अधि᳚ धेहि॒ पृक्ष᳚ः ।
पी॒पि॒हीषः᳚ सु॒दुघा᳚मिन्द्र धे॒नुं भ॒रद्वा᳚जेषु सु॒रुचो᳚ रुरुच्याः ॥
▶ पदपाठः (Word-by-word)
सः । गो॑म᳚घाः । ज॒रि॒त्रे । अश्व᳚॑चन्द्राः । वाज᳚॑श्रवसः । अधि᳚ । धे॒हि॒ । पृक्षः᳚ ।
पी॒पि॒हि । इषः᳚ । सु॒॑दुघा᳚म् । इ॒न्द्र॒ । धे॒नुम् । भ॒रत्॑वा᳚जेषु । सु॒॑रुचः᳚ । रु॒रु॒च्याः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र सत्वं जरित्रे स्तोत्रे गोमघाः गवांदात्रीः अश्वश्चन्द्राः अश्वैराह्लादयन्तीः वाजश्रवसः वाजैर्बलैः प्रसिद्धाः एवंभूताः पृक्षोन्नानि भरद्वाजपुत्रेष्वस्मसु अधिधेहि धारय तथा इषस्तान्यन्नानि सुदुघां शोभनदोग्ध्रीं धेनुं गांच हेइन्द्र पीपिहि प्यायय अपिच ताइषोगौश्च सुरुचः शोभनदीप्तयोयथाभवन्तितथा त्वं रुरुच्याः दीपयेः शोभनदीप्तियुक्ताश्चताःसन्त्वित्यर्थः ॥ ४ ॥

6.35.5
तमा नू॒नं वृ॒जन᳚म॒न्यथा᳚ चि॒च्छूरो॒ यच्छ᳚क्र॒ वि दुरो᳚ गृणी॒षे ।
मा निर᳚रं शुक्र॒दुघ᳚स्य धे॒नोरा᳚ङ्गिर॒सान्ब्रह्म᳚णा विप्र जिन्व ॥
▶ पदपाठः (Word-by-word)
तम् । आ । नू॒नम् । वृ॒जन᳚म् । अ॒न्यथा᳚ । चि॒त् । शूरः᳚ । यत् । श॒क्र॒ । वि । दुरः᳚ । गृ॒णी॒षे ।
मा । निः । अ॒र॒म् । शु॒क्र॒॑दुघ᳚स्य । धे॒नोः । आ॒ङ्गि॒र॒सान् । ब्रह्म᳚णा । वि॒प्र॒ । जि॒न्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वं नूनमद्यतनं वृजनं बाधकमस्मदीयंशत्रुं अन्यथाचित् अन्येनैवप्रकारेण योजय येनप्रकारेणसर्वेजीवन्तितद्विलक्षणंप्रकारंमर- णाख्यंप्रापयेत्यर्थः आकारःपूरकः हेशक्र सर्वकार्येषुराक्तेन्द्र शूरः शौर्योपेतः विदुरः विशेषेणदारयिताशत्रूणां यद्वा दुरोद्वाराणिशत्रुसंबंधी- निविघटयंस्त्वं यत् यस्माद्गृणीषेस्माभिःस्तूयसे तस्मात्कारणात् शुक्रदुघस्य शुक्राणांनिर्मलानांदोग्धु रिन्द्रस्य धेनोर्वाचः स्तोत्रात् मनिररं मनिर्गच्छेयं यद्वा शुक्रस्य पयसोदोग्ध्र्याधेनोः त्वयादत्तायागोःसकाशात् मानिर्गच्छेयं अरमित्याख्यातंऋगतावित्यस्यरूपं सा सर्वदास्मासुनिवसत्वित्यर्थः हेविप्र प्राज्ञेन्द्र आंगिरसान् अंगिरोगोत्रजानस्मान् ब्रह्मणान्नेन जिन्व प्रीणय ॥ ५ ॥

सत्रामदासइतिपंचर्चंत्रयोदशंसूक्तं नरस्यार्षं त्रैष्टुभमैन्द्रं सत्रेत्यनुक्रान्तं पृष्ठ्यस्यपंचमेहनिनिष्केवल्यएतत्सूक्तंशस्यं सूत्रितंच—प्रेदंब्र- ह्मइन्द्रोमदायसत्रामदासइतिनिष्केवल्यमिति । विश्वजितिमाध्यंदिनसवने प्रशास्तुःशस्त्रे इदं सामसूक्ताख्यंशंसनीयं सूत्रितंच—सत्रामदा- सोयोजातएवा भूरेकइतिसामसूक्तानीति । महाव्रतेपिनिष्केवल्येउक्तोविनियोगः ।