कर्हि᳚ स्वि॒त्तदि᳚न्द्र॒ यन्नृभि॒र्नॄन्वी॒रैर्वी॒रान्नी॒ळया᳚से॒ जया॒जीन् ।
त्रि॒धातु॒ गा अधि᳚ जयासि॒ गोष्विन्द्र᳚ द्यु॒म्नं स्व᳚र्वद्धेह्य॒स्मे ॥
त्रि॒धातु॒ गा अधि᳚ जयासि॒ गोष्विन्द्र᳚ द्यु॒म्नं स्व᳚र्वद्धेह्य॒स्मे ॥
पदपाठः (Word-by-word)
कर्हि᳚ । स्वि॒त् । तत् । इ॒न्द्र॒ । यत् । नृ॑भिः᳚ । नॄन् । वी॒रैः । वी॒रान् । नी॒ळया᳚से । जय᳚ । आ॒जीन् ।
त्रि॒॑धातु᳚ । गाः । अधि᳚ । ज॒या॒सि॒ । गोषु᳚ । इन्द्र᳚ । द्यु॒म्नम् । स्वः॒॑वत् । धे॒हि॒ । अ॒स्मे इति᳚ ॥
त्रि॒॑धातु᳚ । गाः । अधि᳚ । ज॒या॒सि॒ । गोषु᳚ । इन्द्र᳚ । द्यु॒म्नम् । स्वः॒॑वत् । धे॒हि॒ । अ॒स्मे इति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
फलस्यविलंबमसहमानऋषिः अनयापीन्द्रंपृच्छति हेइन्द्र कर्हिस्वित् कदाखलु तद्भवेत् नृभिरस्मदीयैःपुरुषैः नॄन् शत्रुपुरुषान् तथा वीरैरस्मदीयैःपुत्रैः वीरान् शत्रुपुत्रांश्च यन्नीलयासेत्वं संश्लेषयेः संयोजयेः नीलयतिःसंश्लेषणकर्मा ईदृशं युद्धेयत् संश्लेषणंतत् कदाभवे- दितिवितर्कः अपिचास्मदर्थं त्वं आजीन् संग्रामान् कदा जय जयेः कदाच गोष्वभिग्न्तृषुशत्रुषु विद्यमानाः त्रिधातु त्रिधातूनां क्षीरदधि- घृतानांत्रयाणां धारयित्रीर्गाः अधिजयासि अधिकंजयेः हेइन्द्र त्वं स्वर्वत् व्याप्तिमत् द्यम्नं धनं अस्मे अस्मासु कदा धेहि धारयेः ॥ २ ॥