श्रवणम्

6.35.3
कर्हि᳚ स्वि॒त्तदि᳚न्द्र॒ यज्ज᳚रि॒त्रे वि॒श्वप्सु॒ ब्रह्म᳚ कृ॒णवः᳚ शविष्ठ ।
क॒दा धियो॒ न नि॒युतो᳚ युवासे क॒दा गोम᳚घा॒ हव᳚नानि गच्छाः ॥
▶ पदपाठः (Word-by-word)
कर्हि᳚ । स्वि॒त् । तत् । इ॒न्द्र॒ । यत् । ज॒रि॒त्रे । वि॒श्व॑प्सु᳚ । ब्रह्म᳚ । कृ॒णवः᳚ । श॒वि॒ष्ठ॒ ।
क॒दा । धियः᳚ । न । नि॒॑युतः᳚ । यु॒वा॒से॒ । क॒दा । गो॑म᳚घा । हव᳚नानि । ग॒च्छाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनयापिकतिचित्प्रश्नाः क्रियन्ते हेइन्द्र कर्हिस्वित् कदाखलु तद्भवेत् हेशविष्ठ बलवत्तमेन्द्र त्वं जरित्रे स्तोत्रे विश्व्प्सु बहुविधरूपं ब्रह्मान्नं कृणवः करोषीतियत् तत्कदाभवेदितिवितर्कः कदाच धियः कर्माणि नेतिसमुच्चये नियुतः स्तुतीश्च युवासे आत्मनियोजयेः कदाच त्वं गोमघाः गोमघानि गवांदातॄणि मंहतेर्दानार्थस्यरूपमुत्तरपदं हवनानि स्तोत्राणि गच्छाः अभिगच्छेः ॥ ३ ॥