षष्ठं मण्डलम् - सूक्तम् 63

11 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: अश्विनौ छन्दः: त्रिष्टुप्

सूक्तम् 6.63 - सम्पूर्णम्

1 / 11
ऋक्: 6.63.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
6.63.1 समानपद
क्व१॒᳚ त्या व॒ल्गू पु᳚रुहू॒ताद्य दू॒तो न स्तोमो᳚॑विद॒न्नम᳚स्वान् ।
आ यो अ॒र्वाङ्नास᳚त्या व॒वर्त॒ प्रेष्ठा॒ ह्यस᳚थो अस्य॒ मन्म᳚न् ॥
▶ पदपाठः (Word-by-word)
क्व᳚ । त्या । व॒ल्गू इति᳚ । पु॒रु॒॑हू॒ता । अ॒द्य । दू॒तः । न । स्तोमः᳚ । अ॒वि॒द॒त् । नम᳚स्वान् ।
आ । यः । अ॒र्वाक् । नास᳚त्या । व॒वर्त᳚ । प्रेष्ठा᳚ । हि । अस᳚थः । अ॒स्य॒ । मन्म᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

क्व कुत्र स्थितौ वल्गू रुचिरौ पुरुहूता बहुभिराहूतौ त्या तावश्विनौ नमस्वान् हविषा युक्तः नम आयुरित्यन्ननामसु पाठात् स्तोमः पंचद- शादिस्तोमः अद्य दूतो न प्रेरितोदूत इव अविदत् विंदेत् यः स्तोमः अर्वागस्मदभिमुखं नासत्यावश्विनौ आववर्त आवर्तयत् । हे अश्विनौ युवामस्य स्तोतुः मन्मन् स्तोत्रे प्रेष्ठा हि प्रियतमौ हि असथो भवतः ॥ १ ॥

6.63.2
अरं᳚ मे गन्तं॒ हव᳚नाया॒स्मै गृ᳚णा॒ना यथा॒ पिबा᳚थो॒ अन्ध᳚ः ।
परि᳚ ह॒ त्यद्व॒र्तिर्या᳚थो रि॒षो न यत्परो॒ नान्त᳚रस्तुतु॒र्यात् ॥
▶ पदपाठः (Word-by-word)
अर᳚म् । मे॒ । ग॒न्त॒म् । हव᳚नाय । अ॒स्मै । गृ॒णा॒ना । यथा᳚ । पिबा᳚थः । अन्धः᳚ ।
परि᳚ । ह॒ । त्यत् । व॒र्तिः । या॒थः॒ । रि॒षः । न । यत् । परः᳚ । न । अन्त᳚रः । तु॒तु॒र्यात् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ युवां मे मदीयायास्मै हवनायाह्वानाय अरं पर्याप्तं गन्तं गच्छतं गृणाना स्तूयमानौ अंधः सोमं यथा पिबाथः पिबतम् । रिषो हिंसकस्य शत्रोः त्यद्वर्तिः तद्गृहं परियाथः परितोयाथः यद्वर्तिः परो विप्रकृष्टो न तुतुर्यात् न हिंस्यात् अन्तरः संनिकृष्टोपि न तुतुर्यात् यद्वा त्यद्वर्तिः तदस्मदीयं गृहं रिषोहिंसकात्परियाथः । त्यद्वर्तिः परोविप्रकृष्टः अन्तरः सन्निकृष्ठोपि न तुतुर्यात् अयं भावः यथास्मदीयं गृहं दूरस्थः सन्निकृष्टोपि न हिंस्यात् तथा रक्षां कुरुथइति ॥ २ ॥

6.63.3
अका᳚रि वा॒मन्ध᳚सो॒ वरी᳚म॒न्नस्ता᳚रि ब॒र्हिः सु᳚प्राय॒णत᳚मम् ।
उ॒त्ता॒नह᳚स्तो युव॒युर्व᳚व॒न्दा वां॒ नक्ष᳚न्तो॒ अद्र᳚य आञ्जन् ॥
▶ पदपाठः (Word-by-word)
अका᳚रि । वा॒म् । अन्ध᳚सः । वरी᳚मन् । अस्ता᳚रि । ब॒र्हिः । सु॒प्र॒॑अ॒य॒नत᳚मम् ।
उ॒त्ता॒न॑ह᳚स्तः । यु॒व॒युः । व॒व॒न्द॒ । आ । वा॒म् । नक्ष᳚न्तः । अद्र᳚यः । आ॒ञ्ज॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वां युवयोरर्थे अन्धसः सोमस्य वरीमन् विस्तृतेभिषवादौ यत्कृत्यमस्ति तदकारि । कृतं सुप्रायणतमं मृदुतमं बर्हिः अस्तारि स्तीर्णं उत्तानहस्तः कृतांजलिः युवयुः युवां कामयमानः होता ववन्द स्तैति वां युवां नक्षन्तः व्याप्नुवन्तः तृक्ष पृक्ष नक्ष गताविति धातुः अद्रयः ग्रावाणः आंजन् सोमरसं आसमन्ताद्व्यक्तीकृतवन्तः ॥ ३ ॥

6.63.4
ऊ॒र्ध्वो वा᳚म॒ग्निर᳚ध्व॒रेष्व᳚स्था॒त्प्र रा॒तिरे᳚ति जू॒र्णिनी᳚ घृ॒ताची᳚ ।
प्र होता᳚ गू॒र्तम᳚ना उरा॒णो॑यु᳚क्त॒ यो नास᳚त्या॒ हवी᳚मन् ॥
▶ पदपाठः (Word-by-word)
ऊ॒र्ध्वः । वा॒म् । अ॒ग्निः । अ॒ध्व॒रेषु᳚ । अ॒स्था॒त् । प्र । रा॒तिः । ए॒ति॒ । जू॒र्णिनी᳚ । घृ॒ताची᳚ ।
प्र । होता᳚ । गू॒र्त॑म᳚नाः । उ॒रा॒णः । अयु᳚क्त । यः । नास᳚त्या । हवी᳚मन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निः वां युवयोर्यज्ञार्थं ऊर्ध्वः अस्थात् उदतिष्ठत् अध्वरेषु यज्ञेषु प्रैति समिद्धः आहवनीयं गच्छति च रातिः धनं हविः जूर्णिनी जूर्णिर्ज- वतेर्वेतियास्कनोक्तत्वात् घृताची घृतेनाक्ता उपस्तीर्णाभिघारितेत्यर्थः किं च होता उराणः उरुकुर्वाणः प्रगूर्तमनाः प्रकर्षेण उद्युक्तमनाः भवति यो होता नासत्यावश्विनौ हवीमन्नाह्वाने स्तोत्रे वा अयुक्त योजयति ॥ ४ ॥

6.63.5
अधि᳚ श्रि॒ये दु᳚हि॒ता सूर्य᳚स्य॒ रथं᳚ तस्थौ पुरुभुजा श॒तोति᳚म् ।
प्र मा॒याभि᳚र्मायिना भूत॒मत्र॒ नरा᳚ नृतू॒ जनि᳚मन्य॒ज्ञिया᳚नाम् ॥
▶ पदपाठः (Word-by-word)
अधि᳚ । श्रि॒ये । दु॒हि॒ता । सूर्य᳚स्य । रथ᳚म् । त॒स्थौ॒ । पु॒रु॒॑भु॒जा॒ । श॒त॑ऊ᳚तिम् ।
प्र । मा॒याभिः᳚ । मा॒यि॒ना॒ । भू॒त॒म् । अत्र᳚ । नरा᳚ । नृ॒तू॒ इति᳚ । जनि᳚मन् । य॒ज्ञिया᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पुरुभुजा पूर्णभुजौ बहूनां रक्षकावश्विनौ युवयोः शतोतिं बहुरक्षकं बहुगमनंवा रथं सूर्यस्य दुहिता सूर्या श्रिये श्रयितुमधितस्थैः अध्यतिष्ठत् । अपिच यज्ञियानां देवानामत्र जनिमन् अस्मिन् जन्मनि प्रादुर्भावे मायाभिः प्रज्ञानैः शची माया इति प्रज्ञा नामसु पाठात् मायिनौ प्रज्ञावन्तौ नरा नेतारौ नृतू नृत्यंतौ भूतं भवतम् । यद्वा हे मायिनौ प्राज्ञौ नरौ नेतारौ नृतू नृत्यन्तावश्विनौ यज्ञि- यानां देवानां अत्र जनिमन् जन्मनि प्रदुर्भावे प्रभूतं प्राज्ञतमं अग्र्यादिकं देवं मायाभिः प्रज्ञानैः कौशलैर्वा जितवन्तौ स्थः इत्यर्थः । अयमर्थः प्रजापतिर्वै सोमाय राज्ञेदुहितरं प्रायच्छत् सूर्यां सावित्रीमित्यादिना स्पष्टीकृतः ॥ ५ ॥

6.63.6
यु॒वं श्री॒भिर्द᳚र्श॒ताभि᳚रा॒भिः शु॒भे पु॒ष्टिमू᳚हथुः सू॒र्याया᳚ः ।
प्र वां॒ वयो॒ वपु॒षे॑नु᳚ पप्त॒न्नक्ष॒द्वाणी॒ सुष्टु᳚ता धिष्ण्या वाम् ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । श्री॒भिः । द॒र्श॒ताभिः᳚ । आ॒भिः । शु॒भे । पु॒ष्टिम् । ऊ॒ह॒थुः॒ । सू॒र्यायाः᳚ ।
प्र । वा॒म् । वयः᳚ । वपु᳚षे । अनु᳚ । प॒प्त॒न् । नक्ष᳚त् । वाणी᳚ । सु॑स्तु᳚ता । धि॒ष्ण्या॒ । वा॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ युवं युवां दर्शताभिः दशनीयाभिराभिः श्रीमतां परिदृश्यमानाभिः श्रीभिः लक्ष्मीभिः कान्तिभिर्वा सूर्यायाः युवयोः पत्न्याः शुभे शोभनार्थं पुष्टिं पूर्तिं ऊहथुः प्रापयथः । किं च वां युवां वयोश्वा वपुषे शोभायै प्रानुपप्तन् प्रकर्षेणान्वपतन् । अपि च हे धिष्णया- स्तुत्यर्हावश्विनौ वां युवां सुष्टुता वाणी ऋषीणां स्तुतिः नक्षत व्याप्नोति ॥ ६ ॥

6.63.7
आ वां॒ वयो॑श्वा᳚सो॒ वहि᳚ष्ठा अ॒भि प्रयो᳚ नासत्या वहन्तु ।
प्र वां॒ रथो॒ मनो᳚जवा असर्जी॒षः पृ॒क्ष इ॒षिधो॒ अनु᳚ पू॒र्वीः ॥
▶ पदपाठः (Word-by-word)
आ । वा॒म् । वयः᳚ । अश्वा᳚सः । वहि᳚ष्ठाः । अ॒भि । प्रयः᳚ । ना॒स॒त्या॒ । व॒ह॒न्तु॒ ।
प्र । वा॒म् । रथः᳚ । मनः᳚॑जवाः । अ॒स॒र्जि॒ । इ॒षः । पृ॒क्षः । इ॒षिधः᳚ । अनु᳚ । पू॒र्वीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नासत्या वां युवां वयो गन्तारः वहिष्ठाः वोह्ळृतमाः अश्वासो अश्वाः प्रयः सोमरूपमन्नमभि आ वहन्तु । वां युवयोः मनोजवाः मनोवेगोरथः पृक्षः संपर्चनीयः इषिधः एषणीयाः पूर्वीर्बह्वीः इषोन्नानि सोमान् अनुप्रासर्जि विसृष्टः ॥ ७ ॥

6.63.8
पु॒रु हि वां᳚ पुरुभुजा दे॒ष्णं धे॒नुं न॒ इषं᳚ पिन्वत॒मस᳚क्राम् ।
स्तुत᳚श्च वां माध्वी सुष्टु॒तिश्च॒ रसा᳚श्च॒ ये वा॒मनु᳚ रा॒तिमग्म᳚न् ॥
▶ पदपाठः (Word-by-word)
पु॒रु । हि । वा॒म् । पु॒रु॒॑भु॒जा॒ । दे॒ष्णम् । धे॒नुम् । नः॒ । इष᳚म् । पि॒न्व॒त॒म् । अस᳚क्राम् ।
स्तुतः᳚ । च॒ । वा॒म् । मा॒ध्वी॒ इति᳚ । सु॒॑स्तु॒तिः । च॒ । रसाः᳚ । च॒ । ये । वा॒म् । अनु᳚ । रा॒तिम् । अग्म᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरुभुजा हे पूर्णभुजौ बहुपालकौ वां युवयोर्देष्णं दातव्यं धनं पुरु बहु हि भवति अतः कारणान्नोस्मभ्यं धेनुं प्रीणयित्रीं असक्रां मत्तोन्य- त्रासंक्रमणीं असक्रामसंक्रमणीमिति यास्केनोक्तत्वात् इषमन्नं पिन्वतं प्रयच्छतं यद्वा इषमेषणीयां धेनुमित्यन्वयः किं च वां स्तुतः स्तुवन्तीति स्तुतः स्तोतारः सन्ति माध्वी मदयितारावश्विनौ सुष्टुतिः शोभनास्तुतिश्च स्तोतृषु भवति । रसाः सोमरसाश्च संति ये रसाः वां युवयोः रातिं दानं अनु अनूद्दिश्याग्मन् देवयजनं प्राप्ताः अयं भावः सुष्टुतिं श्रुत्वा देवयजनं प्राप्तान् सोमरसान् पीत्वा स्तोतृभ्यः कामान्प्रयच्छतमितिशेषः ॥ ८ ॥

6.63.9
उ॒त म᳚ ऋ॒ज्रे पुर᳚यस्य र॒घ्वी सु᳚मी॒ळ्हे श॒तं पे᳚रु॒के च᳚ प॒क्वा ।
शा॒ण्डो दा᳚द्धिर॒णिन॒ः स्मद्दि᳚ष्टी॒न्दश᳚ व॒शासो᳚ अभि॒षाच᳚ ऋ॒ष्वान् ॥
▶ पदपाठः (Word-by-word)
उ॒त । मे॒ । ऋ॒ज्रे इति᳚ । पुर᳚यस्य । र॒घ्वी इति᳚ । सु॒॑मी॒ळ्हे । श॒तम् । पे॒रु॒के । च॒ । प॒क्वा ।
शा॒ण्डः । दा॒त् । हि॒र॒णिनः᳚ । स्मत्॑दि᳚ष्टीन् । दश᳚ । व॒शासः᳚ । अ॒भि॒॑साचः᳚ । ऋ॒ष्वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापि च पुरयस्य पुरयनामकस्य स्वभूते ऋज्रे ऋजुगमने रघ्वी क्षिप्रगामिन्यौ वदवे मे अश्विनौ स्तुतिं कुर्वतो ममाभूतां सुमीह्ळे राज्ञि विद्यमानाः सन्तः शतं गावो ममाभूवन् पेरुके राज्ञि विद्यमानानि पक्वा पद्वान्यन्नानि ममासन् शांडश्च राजा हिरणिनः हिरण्यवतः स्मद्दिष्टीन् प्रशस्तदर्शनान् रथानश्वान्वा दश दशसंख्याकान् वशासः अनुगुणान् अभिषाचः शत्रूणामभिभावुकान् ऋष्वान् दर्शनीयान् पुरुषान् अश्विनोः स्तोतृभ्यो दात् ददातु ॥ ९ ॥

6.63.10 समानपद
सं वां᳚ श॒ता ना᳚सत्या स॒हस्राश्वा᳚नां पुरु॒पन्था᳚ गि॒रे दा᳚त् ।
भ॒रद्वा᳚जाय वीर॒ नू गि॒रे दा᳚द्ध॒ता रक्षां᳚सि पुरुदंससा स्युः ॥
▶ पदपाठः (Word-by-word)
सम् । वा॒म् । श॒ता । ना॒स॒त्या॒ । स॒हस्रा᳚ । अश्वा᳚नाम् । पु॒रु॒॑पन्थाः᳚ । गि॒रे । दा॒त् ।
भ॒रत्॑वा᳚जाय । वी॒र॒ । नु । गि॒रे । दा॒त् । ह॒ता । रक्षां᳚सि । पु॒रु॒॑दं॒स॒सा॒ । स्यु॒रिति᳚ स्युः ॥
▶ सायणभाष्यम् (Sayana Commentary)

नासत्या हे अश्विनौ वां युवयोर्गिरे गृणातीति गीः स्तोता तस्मै अश्वानां शता शतानि सहस्रा सहस्राणि पुरुपंथा नाम राजा संदात् संददाति । वीर हे वीरावश्विनौ द्विवचनस्य छुक् गिरे युवयोः स्तोत्रे भरद्वाजाय मह्यं अपि नु क्षिप्रं दात् ददातु । किं च हे पुरुदंससा बहुकर्माणावश्विनौ युवयोरनुग्रहात् रक्षांसि हता हतानि स्युः ॥ १० ॥

6.63.11
आ वां᳚ सु॒म्ने वरि᳚मन्त्सू॒रिभि᳚ः ष्याम् ॥
▶ पदपाठः (Word-by-word)
आ । वा॒म् । सु॒म्ने । वरि᳚मन् । सू॒रि॑भिः᳚ । स्या॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ वरिमन् विस्तृते सुम्ने वां युवाभ्यां दत्ते सुखावहे धने जलाषं सुम्नविति सुखनामसु पाठात् सूरिभिर्विद्वद्भिः सह आसमन्तात् स्यां भवेयं ॥ ११ ॥

उदुश्रियइति षळृचं तृतीयं सूक्तं भरद्वाजस्यार्षं त्रेष्टुभमुषोदेवताकं अनुकम्यते च-उदुश्रिये षळुषस्यं तु इति प्रातरनुवाके उषस्ये क्रतौ त्रैष्टुभे छन्दसि आश्विनशस्त्रे चैतदादिके द्वे सूक्ते सुत्र्यते हि-उदुश्रियइतिसूक्तेइति ।