षष्ठं मण्डलम् - सूक्तम् 38

5 ऋचः

ऋषिः: भरद्वाजो बार्हस्पत्यः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 6.38 - सम्पूर्णम्

1 / 5
ऋक्: 6.38.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
6.38.1
अपा᳚दि॒त उदु᳚ नश्चि॒त्रत᳚मो म॒हीं भ᳚र्षद्द्यु॒मती॒मिन्द्र᳚हूतिम् ।
पन्य᳚सीं धी॒तिं दैव्य᳚स्य॒ याम॒ञ्जन᳚स्य रा॒तिं व᳚नते सु॒दानु᳚ः ॥
▶ पदपाठः (Word-by-word)
अपा᳚त् । इ॒तः । उत् । ऊं॒ इति᳚ । नः॒ । चि॒त्र॑त᳚मः । म॒हीम् । भ॒र्ष॒त् । द्यु॒॑मती᳚म् । इन्द्र᳚॑हूतिम् ।
पन्य᳚सीम् । धी॒तिम् । दैव्य᳚स्य । याम᳚न् । जन᳚स्य । रा॒तिम् । व॒न॒ते॒ । सु॒॑दानुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

चित्रतमश्चायनीयतमःआश्चर्यतमोवासइन्द्रः नोस्मदीयात् इतः अस्मात् ग्रहचमसादेःअपात् सोमं पिबतु यद्वा इतोस्माच्छत्रोःनोस्मा- नपात् पातु रक्षतु उदुइत्येतौपूरणौ तथा महीं मह तीं द्युमतीं दीप्तिमतीं इन्द्रहूतिं भर्षत् सइन्द्रोबिभर्तु धारयतु दैव्यस्य देवसंबन्धिनोज- नस्य यामन् यामनि यज्ञेकियमाणां पन्यसीं स्तुत्यतमांधीतिं परिचरणरूपांक्रियां रातिं दातव्यहविश्च सुदानुः शोभनदानइन्द्र्घः वनेतु संभजतु ॥ १ ॥

6.38.2
दू॒राच्चि॒दा व᳚सतो अस्य॒ कर्णा॒ घोषा॒दिन्द्र᳚स्य तन्यति ब्रुवा॒णः ।
एयमे᳚नं दे॒वहू᳚तिर्ववृत्यान्म॒द्र्य१॒᳚गिन्द्र᳚मि॒यमृ॒च्यमा᳚ना ॥
▶ पदपाठः (Word-by-word)
दू॒रात् । चि॒त् । आ । व॒स॒तः॒ । अ॒स्य॒ । कर्णा᳚ । घोषा᳚त् । इन्द्र᳚स्य । त॒न्य॒ति॒ । ब्रु॒वा॒णः ।
आ । इ॒यम् । ए॒न॒म् । दे॒व॑हू᳚तिः । व॒वृ॒त्या॒त् । म॒द्र्य᳚क् । इन्द्र᳚म् । इ॒यम् । ऋ॒च्यमा᳚ना ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्येन्द्रस्य कर्णा दूराच्चित् दूरदेशादपि आवसतः स्तोत्रश्रवणार्थमागच्छतः इन्द्रस्य घोषात् घोषणीयात्स्तोत्राद्धेतोः ब्रुवाणः स्तुवन् स्तोता तन्यति शब्दंकरोति यद्वा सर्वत्रविस्तारयति देवहूतिः देवस्येन्द्रस्यआह्वानरूपाइयंस्तुतिश्च ऋच्यमानास्वयंप्रेर्यमाणासतीएनमि- न्द्रं मद्भ्यक् मदभिमुर्खं आववृत्यात् आवर्तयतु पुनरियमितिपूरणः ॥ २ ॥

6.38.3
तं वो᳚ धि॒या प᳚र॒मया᳚ पुरा॒जाम॒जर॒मिन्द्र᳚म॒भ्य᳚नूष्य॒र्कैः ।
ब्रह्मा᳚ च॒ गिरो᳚ दधि॒रे सम᳚स्मिन्म॒हा{4}श्च॒ स्तोमो॒ अधि᳚ वर्ध॒दिन्द्रे᳚ ॥
▶ पदपाठः (Word-by-word)
तम् । वः॒ । धि॒या । प॒र॒मया᳚ । पु॒रा॒॑जाम् । अ॒जर᳚म् । इन्द्र᳚म् । अ॒भि । अ॒नू॒षि॒ । अ॒र्कैः ।
ब्रह्म᳚ । च॒ । गिरः᳚ । द॒धि॒रे । सम् । अ॒स्मि॒न् । म॒हान् । च॒ । स्तोमः᳚ । अधि᳚ । व॒र्ध॒त् । इन्द्रे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र तं तादृशमिन्द्रं वःत्वां व्यत्ययेनबहुवचनं परमया उत्कृष्टतमया धिया स्तुत्या अर्कैरर्चनसाधनैर्हविर्भिः सार्धं अभ्यनूषि अभिष्टौमि कीदृशं पुराजां पूर्वस्मिन्कालेजातं चिरन्तनं अजरं जरारहितं नित्यं अतःकारणात् अस्मिन्निन्द्रे ब्रह्म ब्रह्माणि हविर्लक्षणान्य- न्नानि गिरःस्तुतयश्च संदधिरे संधीयन्ते संश्लिष्यन्ते महान्प्रवृद्धःस्तोमश्च अधिवर्धत् अधिकंवर्धते ॥ ३ ॥

6.38.4
वर्धा॒द्यं य॒ज्ञ उ॒त सोम॒ इन्द्रं॒ वर्धा॒द्ब्रह्म॒ गिर᳚ उ॒क्था च॒ मन्म᳚ ।
वर्धाहै᳚नमु॒षसो॒ याम᳚न्न॒क्तोर्वर्धा॒न्मासा᳚ः श॒रदो॒ द्याव॒ इन्द्र᳚म् ॥
▶ पदपाठः (Word-by-word)
वर्धा᳚त् । यम् । य॒ज्ञः । उ॒त । सोमः᳚ । इन्द्र᳚म् । वर्धा᳚त् । ब्रह्म᳚ । गिरः᳚ । उ॒क्था । च॒ । मन्म᳚ ।
वर्ध᳚ । अह᳚ । ए॒न॒म् । उ॒षसः᳚ । याम᳚न् । अ॒क्तोः । वर्धा᳚न् । मासाः᳚ । श॒रदः᳚ । द्यावः᳚ । इन्द्र᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यमिन्द्रं यज्ञोयागः वर्धात् वर्धयति उतापिच तत्साधनभूतः सोमश्च यंइन्द्रं वर्धयति तथाब्रह्म हविर्लक्षणमन्नंचपुरोडाशादिकं यमिन्द्रं वर्धात् वर्धयतिगिरः स्तोत्राणि मन्य मननीयानि उक्था उक्थशस्त्राणिचयं वर्धयन्ति एनमिन्द्रं उषसश्च अक्तोः रात्रेः यामन् यामनि गम- नेसति वर्धयन्ति मासाः शरदः संवत्सराश्च द्यावोदिवसाश्चएनमिन्द्रं वर्धान् वर्धयन्ति ॥ ४ ॥

6.38.5 समानपद
ए॒वा ज᳚ज्ञा॒नं सह᳚से॒ असा᳚मि वावृधा॒नं राध᳚से च श्रु॒ताय᳚ ।
म॒हामु॒ग्रमव᳚से विप्र नू॒नमा वि᳚वासेम वृत्र॒तूर्ये᳚षु ॥
▶ पदपाठः (Word-by-word)
ए॒व । ज॒ज्ञा॒नम् । सह᳚से । असा᳚मि । व॒वृ॒धा॒नम् । राध᳚से । च॒ । श्रु॒ताय᳚ ।
म॒हाम् । उ॒ग्रम् । अव᳚से । वि॒प्र॒ । नू॒नम् । आ । वि॒वा॒से॒म॒ । वृ॒त्र॒॑तूर्ये᳚षु ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेविप्र मेधाविन्निन्द्र एव एवंजज्ञानं प्रादुर्भवन्तं सहसे शत्रूणामभिभवार्थं असामि बहुलं वावृधानं वर्धमानं महां महान्तं उग्रमुद्गूर्णं- बलंत्वांनूनं अद्य वृत्रतूर्येषु संग्रामेषु श्रुताय विश्रुताय राधसे धनायच अवसे रक्षणायच आविवासेम परिचरेम ॥ ५ ॥

मंद्रस्यकविरितिपंचर्षंषोळशंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रं मन्द्रस्येत्यनुक्रान्तं गतोविनियोगः ।